००३ हनुमता लङ्कावर्णनम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः

विषयाः

श्रीरामेणहनुमन्तंप्रति स्वस्यसेतुबन्धाद्यन्यतमोपायेनवानराणांसागरतारणसामर्थ्योक्ति -पूर्वकं लङ्कायादुर्गादिभिः परिरक्षणप्रकारप्रश्नः ॥ १॥ हनुमता तंप्रति विस्तरेणतत्प्रकारनिवेदनेन सहस्वकृतसंक्रमादि विध्वंसन निवेदनपूर्वकं स्वस्याङ्गदादिकतिपय वीरसाहित्येन बाहुप्लवनेनैव लङ्कागमनपूर्वकं सर्वराक्षसविध्वंसनशक्तिनिवेदनेन तदर्थमाज्ञाप्रार्थनम् ॥ २ ॥

विश्वास-प्रस्तुतिः

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ १ ॥

मूलम्

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।प्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ १ ॥

व्याख्या

एवं मानुषभावनानुसारेण समुद्रस्य दुस्तरत्वेन शोकापन्नोपि सुहृदुपदेशेन प्रतिष्ठापितधैर्यो रामः नीतिशास्त्रानुसारेण संहार्यशत्रुदुर्गस्वरूपशोधनाय पृच्छति — सुग्रीवस्येत्यादिना ॥ सारग्राहित्वमाह – – परमार्थविदिति । हेतुमत् युक्तियुक्तं । वचः श्रुत्वा प्रतिजग्राह ॥ १ ॥

विश्वास-प्रस्तुतिः

तपसा सेतु बन्धेन सागरोच्छोषणेन वा ।सर्वथा सुसमर्थोस्मि सागरस्यास्य लङ्घने ॥ २ ॥

मूलम्

तपसा सेतु बन्धेन सागरोच्छोषणेन वा ।सर्वथा सुसमर्थोस्मि सागरस्यास्य लङ्घने ॥ २ ॥

व्याख्या

तपसा तपःप्रभावेन । तरसेति पाठे तरसा वेगेन । लङ्घने तरणे ॥ २ ॥

विश्वास-प्रस्तुतिः

कति दुर्गाणि दुर्गाया लंकाया ब्रूहि तानि मे ।ज्ञातुमिच्चामि तत् सर्वम् दर्शनादिव वानर ॥ ३ ॥बलस्य परिमाणम् च द्वार दुर्ग क्रियामपि ।गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥ ४ ॥

मूलम्

कति दुर्गाणि दुर्गाया लंकाया ब्रूहि तानि मे ।ज्ञातुमिच्चामि तत् सर्वम् दर्शनादिव वानर ॥ ३ ॥बलस्य परिमाणम् च द्वार दुर्ग क्रियामपि ।गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥ ४ ॥

व्याख्या

एवमुपाय- चिन्तनेन समुद्रस्य दुस्तरत्वमविगणय्य दुर्गस्वरूपं पृच्छति-कतीति । दुर्गायाः दुष्प्रापायाः । लङ्कायाः कति दुर्गाणि कति दुर्गप्राकारः । सन्तीत्यर्थः । जलगिरिस्थलात्मकानि दुर्गाणि । तत् दुर्गविशेषवत्त्वं । मे ब्रूहि । पूर्वमेवोक्तमित्यत्राह ज्ञातुमिति । तत्पूर्वं श्रुतं सर्वं । दर्शनादिव प्रत्यक्षत इव । विशदं ज्ञातुमिच्छामि । बलस्य सेनायाः । परिमाणं इयत्तां । द्वारदुर्गक्रियां द्वारेषु दुर्गक्रियां कीलखननजलौघप्लवनकरणादिभिः दुर्गमत्वकरणं । गुप्तिकर्म प्राकारपरिघादिनिर्माणं । सदनानि गृहाणि । ज्ञातुमिच्छामीति पूर्वेणान्वयः ॥ ३-४॥

विश्वास-प्रस्तुतिः

यथा सुखम् यथावच्च लंकायामसि दृष्टवान् ।सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥

मूलम्

यथा सुखम् यथावच्च लंकायामसि दृष्टवान् ।सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥

व्याख्या

यथासुखं निश्शङ्कं । यथावत् तत्त्वेन । लङ्कायां पूर्वोक्तं सर्वं दृष्टवानसि । तत्त्वेन दृष्टप्रकारेणैव । आचक्ष्व व्यक्तं वद । सर्वथा द्रष्टुं वक्तुं च ॥ ५ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः ।[प्रणम्य शिरसा रामं प्राञ्जलिः सुसमाहितः] ।वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनरथाब्रवीत् ॥ ६ ॥

मूलम्

श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः ।[प्रणम्य शिरसा रामं प्राञ्जलिः सुसमाहितः] ।वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनरथाब्रवीत् ॥ ६ ॥

व्याख्या

अथाब्रवीत् । कार्त्स्न्येनाब्रवीत् । मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथोअथ इत्यमरः ॥ ६ ॥

विश्वास-प्रस्तुतिः

श्रूयताम् सर्वमाख्यास्ये दुर्ग कर्म विधानतः ।गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥ ७ ॥राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥विभागमं च बलौघस्य निर्देशं वाहनस्य च ॥ ८ ॥

दुर्गकर्मविधानतः दुर्गकर्म प्राकारपरिखाखननादि । तद्विधानतः तन्निर्माणेन गुप्तेति संबन्धः । राक्षसाः स्निग्धाः स्वामिनि भक्ताः तेजसासंपादितामितिशेषः । विभागं तत्र तत्र विभव्य स्थापनं । बलौघस्य चतुरङ्गबलसमूहस्य । निर्दिश्यते इयत्तया परिच्छिद्यतेऽनेनेति निर्देशः संख्या तम् ॥ ७-८॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्वतः ॥ ९ ॥

मूलम्

एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्वतः ॥ ९ ॥

व्याख्या

एवमित्यर्धम् ॥ एवमुक्त्वा उक्तरीत्या वक्ष्यमाणं संग्रहेण प्रतिज्ञाय ॥ ९ ॥

विश्वास-प्रस्तुतिः

हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला ।
महती रथसम्पूर्णा रक्षोगणसमाकुला ।
वाजिभिश्च सुसंपूर्णा सा पुरी दुर्गमा परैः ॥ १०॥

मूलम्

हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला ।
महती रथसम्पूर्णा रक्षोगणसमाकुला ।
वाजिभिश्च सुसंपूर्णा सा पुरी दुर्गमा परैः ॥ १०॥

व्याख्या

हृष्टप्रमुदिता अत्यन्तहृष्टजना ॥ १० ॥

विश्वास-प्रस्तुतिः

दृढबद्धकवाटानि महापरिघवन्ति च ।
द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ ११ ॥

मूलम्

दृढबद्धकवाटानि महापरिघवन्ति च ।
द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ ११ ॥

व्याख्या

दृढेति आयसकीलादिमिर्दृढ घटितंकवाटानि । महापरिघवन्ति महार्गलवन्ति । अर्गले काचके वंशे योगे प्रकारगोपुरे । अस्त्रे घटे मुद्गरे च परिघः परिपठ्यते इतिनिघण्टुः । सुमहान्ति उन्नतानि ॥ ११ ॥

विश्वास-प्रस्तुतिः

वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च ।
आगतं परसैन्यं तत्र तैः प्रतिहन्यते ॥ १२ ॥

मूलम्

वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च ।
आगतं परसैन्यं तत्र तैः प्रतिहन्यते ॥ १२ ॥

व्याख्या

तत्र तेषु द्वारेषु । इषूपलयन्त्राणि शरशिलाक्षेपकयन्त्राणि । बलवन्ति दृढानि महान्ति विपुलानि सन्तीति शेषः । तैः यन्त्रैः । तत्र द्वारेषु । प्रतिहन्यते प्रतिबध्यते ॥ १२ ॥

विश्वास-प्रस्तुतिः

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ।
शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १३ ॥

मूलम्

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ।
शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १३ ॥

व्याख्या

संस्कृताः सज्जीकृताः । शिताः तीक्ष्णाः । कालायसमयाः अयस्सारमयाः । ङीबभाव आर्षः । अनोश्मायस्सरसां जातिसंज्ञयोः इति समासान्तः । शतं ध्नन्तीति शतघ्न्यः मुद्गरविशेषाः । अमनुष्यकर्तृके च इति ठक् । शतशः बहुशः । रचिताः स्थापिताः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ।
मणिविद्रुमवैडूर्यमुक्ताविचरितान्तरः ॥ १४ ॥

मूलम्

सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ।
मणिविद्रुमवैडूर्यमुक्ताविचरितान्तरः ॥ १४ ॥

व्याख्या

तस्याः प्राकारो दुष्प्रधर्षणः दुरारोह इत्यर्थः । मणयः पद्मरागाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वतश्च महाभीमाः शीततोय वहाशुभाः ।
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १५ ॥

मूलम्

सर्वतश्च महाभीमाः शीततोय वहाशुभाः ।
अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १५ ॥

व्याख्या

सर्वतः प्राकारमभितः परिखाः सन्तीति शेषः । शीततोयत्वेन दुष्प्रवेशत्वमुक्तम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः ।
यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्तिभिः ॥ १६ ॥

मूलम्

द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः ।
यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्तिभिः ॥ १६ ॥

व्याख्या

द्वारेषु द्वारसमीपप्रदेशेषु । सामीप्ये सप्तमी । तासां परिखानां संबन्धिनः । परिखोपरिक्लृप्ता इत्यर्थः । संक्रमाः दारुफलकनिर्मितसंचारमार्गाः । संक्रमः क्रमणे सम्यग्द्वारसंचारयन्त्रके ” इति विश्वः । परमायताः अतिविपुलाः । यन्त्रैः संक्रमावकीर्यकैः । महद्भिरिति यन्त्रविशेषणं । गृहपङ्क्तिभिः रक्षिजनावासस्थानपङ्क्तिभिः। उपेताः सन्तीतिशेषः ॥ १६ ॥

विश्वास-प्रस्तुतिः

त्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति ।
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १७ ॥

मूलम्

त्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति ।
यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १७ ॥

व्याख्या

संक्रमाणामुपयोगमाहत्रायन्त इति ॥ तत्र द्वारप्रदेशेषु । परसैन्यागमेसति संक्रमाः त्रायन्ते पुरीमिति शेषः । कथमित्यत्राह— । यन्त्रैरिति । यन्त्रैः संक्रमफलकविक्षेपयन्त्रैः । परिखासु परिखोपरि । समन्ततः अवकीर्यन्ते क्षिप्यन्ते । सर्वथा परिखाजलोपरि फलका निक्षिप्यन्ते । शत्रुसैन्यागमेतु ता उत्क्षिप्यन्ते । तेन दुर्गपरिखाजलेन प्राकारसमीपगमनं न शक्यत इति लोकतात्पर्यम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

एकस्त्वकम्प्यो बलवान्सङ्क्रमः सुमहादृढः ।
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८ ॥

मूलम्

एकस्त्वकम्प्यो बलवान्सङ्क्रमः सुमहादृढः ।
काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८ ॥

व्याख्या

तेषु संक्रमेषु । एकः उत्तरद्वारस्थः । बलवान् स्थौल्यवान् । सुमहादृढः अत्यन्तवृद्धसंघटनः । अतएवाकम्प्यः । स्तम्भैः संक्रमाधारार्थं परिखासु स्थापितैः स्तम्भैः । वेदिकाभिः रक्षिजनाधारार्थाभिर्वितर्दिकाभिः ॥१८॥

विश्वास-प्रस्तुतिः

स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः ।
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥

मूलम्

स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः ।
उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥

व्याख्या

प्रकृतिसंपन्नः द्यूतादिव्यसनरूपविचाररहितः । अप्रमत्तः सावधानः । बलानां सैन्यानां । अनुदर्शने प्रतिदिनमवलोकननिमित्तं । उत्थितः जागरूकः । स्वयं युयुत्सुः सर्वदा युद्धोद्यतः । तिष्ठतीति शेषः ॥ १९ ॥

विश्वास-प्रस्तुतिः

लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा ।
नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥

मूलम्

लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा ।
नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥

व्याख्या

लङ्का पुनः लङ्का तु । निरालम्बा टङ्कच्छे- दमसृणीकृतत्रिकूटशिखर -स्थितत्वादारोहणालम्बनर- हिता । देवदुर्गा देवैरपि दुष्प्रापा । लङ्का नादेयादि- रूपेण चतुर्विधदुर्गं च चतुर्विधदुर्गप्राकारवतीत्यर्थः । नादेयं नद्यां भवं । जलदुर्गमित्यर्थः । पार्वतं पर्वतस्थं । वनानां समूहो-वन्या तत्संबन्धि वान्यं । कृत्रिमं क्रियया निर्वृत्तं । प्राकारपरिखादिमत् स्थलमित्यक्षरार्थः ॥ २० ॥

विश्वास-प्रस्तुतिः

स्थिता पारे समुद्रस्य दूरपारस्य राघव ।
नौपथोपि च नास्त्यत्र निरादेशश्च सर्वतः ॥ २१ ॥

मूलम्

स्थिता पारे समुद्रस्य दूरपारस्य राघव ।
नौपथोपि च नास्त्यत्र निरादेशश्च सर्वतः ॥ २१ ॥

व्याख्या

दूरे पारं यस्य सः दूरपारः तस्य । विशा- लस्येत्यर्थः । पारे दक्षिणतीरे स्थिता । अत्र समुद्रे । नौपथः नौसंचारश्च नास्ति । अतएव सर्वतः निरा । देशञ्च । आदेशो वार्तासंचारः तद्रहितः अयं देश । इत्यर्थः ॥ २१ ॥

विश्वास-प्रस्तुतिः

शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा ।
वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ २२ ॥

मूलम्

शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा ।
वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ २२ ॥

व्याख्या

वनगिरिदुर्गवत्त्वमाह -शैलाग्र इति ॥ २२ ॥

विश्वास-प्रस्तुतिः

परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ।
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २३ ॥

मूलम्

परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ।
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २३ ॥

व्याख्या

कृत्रिमदुर्गवत्त्वमाह – परिखा इति ॥ २३ ॥

विश्वास-प्रस्तुतिः

अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ।
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ २४ ॥

मूलम्

अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ।
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ २४ ॥

व्याख्या

विभागं च बलौघस्येति रामप्रश्नस्योत्तरमाह अयुतमिति ॥ अत्र लङ्कायां सर्वे पूर्वद्वारस्थाः । अयुतं दशसहस्रं । अग्रे सेनाग्रे युध्यन्त इत्यग्रयोधिनः । खङ्गैरप्रयोधिनः सर्वे अयुतसंख्याकाः सर्वेपितथाविधा इत्यर्थः ॥ २४ ॥

विश्वास-प्रस्तुतिः

नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ।
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥

मूलम्

नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ।
चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥

व्याख्या

अत्र लङ्कायां । चतुरङ्गेण सैन्येन सह रक्षसां नियुतं दक्षिणद्वारमाश्रितं । तत्रं चतुरङ्गबलेषु । योधाः पदातयः । अनुत्तमाः अत्यन्तशूराः । भवन्तीत्यर्थः ॥ २५ ॥

विश्वास-प्रस्तुतिः

प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ।
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २६ ॥

मूलम्

प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ।
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २६ ॥

व्याख्या

सर्वे पश्चिमद्वारवासिनः । सर्वास्त्रकोविदाः समस्तास्त्रज्ञाः ॥ २६ ॥

विश्वास-प्रस्तुतिः

अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ २७ ॥

मूलम्

अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।
रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ २७ ॥

व्याख्या

अश्ववाहाश्चेति चकारेण गजवाहास्समुच्चीयन्ते । कुलपुत्राः सत्कुलप्रसूताः । विश्वसनीया इति यावत् । सुपूजिताः रावणेन बहुमताः । किंकरा इति शेषः ॥ २७ ॥

विश्वास-प्रस्तुतिः

शतशोथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ।
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २८ ॥

मूलम्

शतशोथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ।
यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २८ ॥

व्याख्या

अथेति कात्स्न्र्ये । शतशः सहस्राणि अनेकसहस्राणि । दुराधर्षाः यातुधानाः राक्षसाः । मध्यमं स्कन्धं नगरमध्यमस्थानं । आश्रिताः । सर्वसंख्यामाह–साग्रेति । रक्षसां सायकोटिः पूर्णकोटिः । अत्र लङ्कायां अस्तीति शेषः ॥ २८ ॥

विश्वास-प्रस्तुतिः

ते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः ।
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ २९ ॥

मूलम्

ते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः ।
दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ २९ ॥

व्याख्या

एवं दुर्गप्राकारवर्णनेन लघूनां भीतिर्मा भूदिति स्वकृतं दर्शयति — ते मयेति ॥ परिखा इत्यादावपि तच्छब्दो- नुसंधेयः ॥ २९ ॥

विश्वास-प्रस्तुतिः

बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥

मूलम्

बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥

व्याख्या

बलैकदेश इत्यर्धमेकान्वयम् ॥ बलैक- देशः सेनाचतुर्थांश इत्यर्थः । महात्मनां महाकायानाम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

येन केन तु मार्गेण तराम वरुणालयम् ।
हतेति नगरी लङ्कां वानरैरवधार्यताम् ॥ ३१ ॥

मूलम्

येन केन तु मार्गेण तराम वरुणालयम् ।
हतेति नगरी लङ्कां वानरैरवधार्यताम् ॥ ३१ ॥

व्याख्या

तपसा सेतुबन्धेनेत्येवं रामोक्तमेव सम्यगि त्याह – येनेति ॥ मार्गेण उपायेन । तराम तरिष्यामः । व्यत्ययेन लोट् । वरुणालयं समुद्रम् ॥ ३१॥

विश्वास-प्रस्तुतिः

अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः ।
नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३२ ॥
प्लवमाना हि गत्वा तां रावणस्य महापुरीम् ।
सपर्वतवनां भित्वा सखातां सप्रतोरणाम् ।
सप्रकारां सभवनामानयिष्यन्ति राघव ॥ ३३ ॥

पक्षान्त- रमाह – अङ्गद इत्यादिसार्धश्लोकद्वयेन ॥ अङ्गदादयः लवमानाः समुद्रं लचितवन्तः । सखातां सपरिखां । सप्रतोरणां सबहिर्द्वारां आनयिष्यन्ति । बलशेषेण किं । उक्ताङ्गदादिव्यतिरिक्तबलशेषेण किं प्रयोजनमिति योजना ॥ ३२ – ३३ ॥

विश्वास-प्रस्तुतिः

एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३४ ॥

मूलम्

एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम् ।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३४ ॥

व्याख्या

सर्वसंग्रहं । संगृह्यत इति संग्रहः बलानां मध्ये सर्वसारभूतं बलं अङ्गदादिकं आज्ञापय । एवं लवमाना इत्याद्युक्तरीत्या आज्ञापयेयर्थः । युक्तेन यात्रायोग्येन ॥ ३४ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ॥ ३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तृतीयः सर्गः ॥ ३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥