०६८ सीतया स्वदशाचिन्तनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।

तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ 5.68.1 ॥

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।

यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ 5.68.2 ॥

अथेत्यादि । हे नरव्याघ्र तव स्नेहात्, मयीति शेषः । सौहार्दात् सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्यान्य । उत्तरं ततः परम् उत्तरं कार्यं वा । पुनर्देव्या ऽहमुक्त इत्यन्वयः । ससम्भ्रमः गमनत्वरान्वित इत्यर्थः ॥ 5.68.1,2 ॥

यदि वा मन्यसे वीर वसैकाहमरिन्दम ।

कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ 5.68.3 ॥

मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।

अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ 5.68.4 ॥

गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।

प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ 5.68.5 ॥

तवादर्शनजः शोको भूयो मां परितापयेत् ।

दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ 5.68.6 ॥

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ 5.68.7 ॥

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ 5.68.8 ॥

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।

शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ 5.68.9 ॥

शोकविपाकस्य शोकवृद्धेरित्यर्थः ॥ 5.68.39 ॥

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।

किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ 5.68.10 ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ 5.68.11 ॥

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।

विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ॥ 5.68.12 ॥

यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।

रक्षसा तद्भया देव तथा नार्हति राघवः ॥ 5.68.13 ॥

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ 5.68.14 ॥

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।

भवत्याहवशूरस्य तथा त्वमुपपादय ॥ 5.68.15 ॥

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ 5.68.16 ॥

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।

सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ 5.68.17 ॥

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।

मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ 5.68.18 ॥

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।

न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ 5.68.19 ॥

असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।

प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ 5.68.20 ॥

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ 5.68.21 ॥

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।

न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ 5.68.22 ॥

कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे दुर्निर्वहे ॥ 5.68.1022 ॥

तदलं परितापेन देवि मन्युर्व्यपैतु ते ।

एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ॥ 5.68.23 ॥

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।

त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ 5.68.24 ॥

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।

लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ॥ 5.68.25 ॥

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।

वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ 5.68.26 ॥

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।

नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ 5.68.27 ॥

निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।

अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ 5.68.28 ॥

तदलमिति । मन्युः दैन्यम् । “मन्युर्दैन्ये क्रतौ क्रुधि ” इत्यमरः ॥ 5.68.2328 ॥

ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।

जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ॥ 5.68.29 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥ 5.68 ॥

तव शोकेनापि ‘नैव दंशान्’ इत्यादिमदुक्त्या श्रुतेन । तदा मम पुरस्तादभिपीडिता । अदीनभाषिणा मया । शिवाभिः इष्टाभिः वाग्भिः अभिप्रसादिता शान्तिं दुःखनिवृत्तिं जगाम ॥ 5.69.29 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ 5.68 ॥
सुन्दरकाण्डः समाप्तः ॥
इत्थं कौशिकवंशमौक्तिकमणिर्गौविन्दराजाभिधो वात्स्यश्रीशठकोपदेशिकपदद्वन्द्वैकसेवारतः ।
पूर्वाचार्यकृता विलोक्य विविधा व्याख्या मुहुर्जानकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे व्यधात् ॥ 1 ॥