श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः
एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।
भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ 5.59.1 ॥
एतदिति । तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ॥ 5.59.1 ॥
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।
शीलमासाद्य सीताया मम च प्रवणं मनः ॥
[आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः ।] ॥ 5.59.2 ॥
अथ संप्रत्येव रावणं जित्वा सीतया सहैवास्माभिः प्रतियातव्यमिति हृदि निधायाह सफल इति । संभ्रमः त्वरा, उत्साह इति यावत् । कुतस्माफल्यमित्याशङ्क्य सीतापातिव्रत्योपलम्भादित्याह शीलमिति । शीलं वृत्तम्, पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह मम चेति । प्रवणं प्रह्वं तत्परमिति यावत् । सीताचारित्रस्य न किंचिदसाध्यमस्तीति भावः ॥ 5.59.2 ॥
तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।
सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥ 5.59.3 ॥
तर्हि तं दुरात्मानं रावणं स्पृशन्तमेव किमिति नादहदिन्याशङ्क्य तस्यापि तपस्सम्पत्तिसद्भावादित्याह तपसेत्यादिना । यद्वा रावणतपःकथनद्वारा सीतायाः पातिव्रत्यातिशयमाह तपसेत्यादिना । तपसा अतिप्रवृद्ध इत्यन्वयः । कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थो ऽसौ रावणः सर्वथा महातपस्संपन्नः । अत एव सीतास्पर्शे ऽप्यविनाशित इत्यर्थः ॥ 5.59.3 ॥
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।
जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ॥ 5.59.4 ॥
तर्हि सीताशीलं दुर्बलमस्माकं किमुपकरिष्यतीत्याशङ्क्य नेत्याह न तदिति । सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । क्रोधकलुषीकृतेति वचनाद्भर्तृमुखेन वैरनिर्यातनं वीरपत्नीधर्मः । अन्यथा महालाघवं भर्तुरित्यद्यापि पारतन्त्र्यपालनाय तादृक्क्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदोवोक्तं प्राक् “असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ॥” इति ॥ 5.59.4 ॥
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।
अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ॥ 5.59.5 ॥
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ 5.59.6 ॥
एवं स्थिते युष्मदनुमत्या भृत्यविजयो ऽपि स्वामिन एवेति कृत्वा सीतारामपदावलम्बादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव रावघौ द्रक्ष्यामीत्याह जाम्बवदिति ॥ 5.59.5,6 ॥
अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।
तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ॥ 5.59.7 ॥
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ॥ 5.59.8 ॥
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।
सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥ 5.59.9 ॥
न चाशाक्तिशङ्का कार्येति बहुधा प्रपञ्चयन्नाह अहमित्यादिना ॥ 5.59.79 ॥
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।
यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ॥ 5.59.10 ॥
तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।
भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ॥ 5.59.11 ॥
मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।
देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ॥ 5.59.12 ॥
ब्राह्ममित्यादि । अभ्यनुज्ञातः अभ्यनुज्ञानात् । पञ्चम्यास्तसिः । मे विक्रमः तं रावणम् रुणद्धि हन्तीत्यर्थः ॥ 5.59.1012 ॥
सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ 5.59.13 ॥
अतियात् आर्षं ह्रस्वत्वम् ॥ 5.59.13 ॥
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।
अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ 5.59.14 ॥
पनसस्योरुवेगेन नीलस्य च महात्मनः ।
मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ॥ 5.59.15 ॥
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ 5.59.16 ॥
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥ 5.59.17 ॥
पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ 5.59.18 ॥
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ॥ 5.59.19 ॥
करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥ 5.59.20 ॥
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ 5.59.21 ॥
सर्वेति । पूर्वकाः, तेषामिति शेषः ॥ 5.59.1421 ॥
मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ 5.59.22 ॥
मयैवेति । दग्धत्वेप्यङ्गारावस्था भवति सा ऽपि नास्तीत्याह भस्मीकृतेति ॥ 5.59.22 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.59.23 ॥
अहं कोसलराजस्य दासः पवनसम्भवः ।
हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ 5.59.24 ॥
नामविश्रावणमेवाह जयतीति । जयति सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा “जयिर्जयाभिभवयोराद्यर्थे ऽसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थो द्वितीये ऽर्थे सकर्मकः ॥” इति ॥ 5.59.23,24 ॥
अशोकवनिकामध्ये रावणस्य दुरात्मनः ।
अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ॥ 5.59.25 ॥
राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।
अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ॥ 5.59.26 ॥
अथ सीतादुर्दशाविमर्शे ऽपि सम्प्रत्यसौ समानेतव्येत्याशयेन तदृशां दर्शयति अशोकेत्यादिना ॥ 5.59.25,26 ॥
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ 5.59.27 ॥
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ 5.59.28 ॥
तदेकवासः संवीता रजोध्वस्ता तथैव च ।
शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥ 5.59.29 ॥
पतिव्रता चेत्यादि । पौलोमीव पुरन्दरे इति । नहुषनिर्बन्ध इति भावः ॥ 5.59.2729 ॥
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ 5.59.30 ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ 5.59.31 ॥
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ॥ 5.59.32 ॥
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ 5.59.33 ॥
प्रमदावने अशोकवनिकायाम् । विनिवृत्तार्था त्यक्तप्रयोजना । रावणप्रलोभनवाक्यैरवशीकृतेत्यर्थः । सर्वमर्थं रामोद्योगादिकम् । दर्शिता बोधिता ॥ 5.59.3033 ॥
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।
यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥ 5.59.34 ॥
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥ 5.59.35 ॥
समुदाचारः चारित्रमिति यावत् । नन्वेवंमाहात्म्या सीता स्वयमेव रावणं किमिति न हन्तीत्याशङ्क्याह यन्न हन्तीति । दशग्रीवं न हन्तीति यत् तत्र कारणं स दशाननः महात्मा महानुभावः । शापनिबन्धनदुर्मरणाभावादिति भावः । अतस्तस्य वधे रामस्तु राम एव निमित्तमात्रं भविष्यति । तथा तस्योत्कर्षात् । सीता तु निमित्तकारणमिति शेषः । भर्त्रैव वैरनिर्यातनं वीरपत्नीधर्मः अन्यथा भर्तुर्महल्लाघवमिति मनीषया न स्वयं हन्ति न त्वसामर्थ्यादिति भावः ॥ 5.59.34,35 ॥
एवमास्ते महाभागा सीता शोकपरायणा ।
यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥ 5.59.36 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ 5.59 ॥
फलितमुपसंहरति एवमिति । उपपद्यताम् अनुष्ठीयताम् । अस्मिन् सर्गे सार्द्धषट्त्रिंशच्छ्लोकाः ॥ 5.59.36 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ 5.59 ॥