श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ 5.58.1 ॥
ततस्तस्येत्यादि ॥ 5.58.1 ॥
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।
जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ॥ 5.58.2 ॥
तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ॥ 5.58.2 ॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ 5.58.3 ॥
कथमिति । कथं केन प्रकारेण । कथं वृत्तः कीद्दग्व्यापारः ॥ 5.58.3 ॥
तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ 5.58.4 ॥
तत्त्वत इति । तत्त्वकथनस्य प्रयोजनमाह श्रुतार्था इत्यादि ॥ 5.58.4 ॥
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ॥ 5.58.5 ॥
स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ 5.58.6 ॥
यश्चेति । तत्र रामसन्निधौ यो ऽर्थो वक्तव्यः वक्तुमर्हः यच्च रक्षितव्यं गोप्तव्यं तत् । आत्मवान् बुद्धिमान् । भवान् व्याकरोतु ॥ 5.58.5,6 ॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।
उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ॥ 5.58.7 ॥
प्रत्यक्षमेवेति । इदं न वक्तव्यमेवेति भावः । आप्लुतः आप्लुतोस्मि । पारं, गन्तुमिति शेषः । समाहितः एकाग्रः । इत्येतद्भवतां प्रत्यक्षमेवेति सम्बन्धः ॥ 5.58.7 ॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ 5.58.8॥
गच्छत इत्यादि । विघ्नरूपमिव, वस्तुतो न तथेति भावः । पश्यामीत्यादौ व्यत्ययेन लट् । शिखरं विघ्नरूपमिवाभवत् तत् पश्यामीति योजना ॥ 5.58.8 ॥
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ 5.58.9 ॥
स्थितमिति । मेने इति लिट्युत्तमपुरुषैकवचनं परोक्षत्वाद्य भावेपि च्छान्दसम् । अमनिषीत्यर्थः ॥ 5.58.9 ॥
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।
कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ॥ 5.58.10 ॥
प्रहतं च मया तस्य लांगूलेन महागिरेः ।
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ॥ 5.58.11 ॥
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ॥ 5.58.12 ॥
उपसङ्गम्येति । गमनदशायामुरसा पातयामासेति सूचितं विवृणोति भेतव्यो ऽयमित्यादिना ॥ 5.58.1012 ॥
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।
मैनाकमिति विख्यातं निवसन्तं महोदधौ ॥ 5.58.13 ॥
पितृव्यं चेति । पितृव्यत्वे हेतुमाह सखायमिति । पितृसखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ॥ 5.58.13 ॥
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ॥ 5.58.14 ॥
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।
चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ॥ 5.58.15 ॥
छन्दतः यथेच्छम् ॥ 5.58.14,15 ॥
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।
मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ॥ 5.58.16 ॥
मोक्षणप्रकारमाह प्रक्षिप्तो ऽस्मि महार्णव इति ॥ 5.58.16 ॥
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ 5.58.17 ॥
साह्ये साहाय्ये । साहाय्यकरणे हेतुमाह रामो धर्मभृतां श्रेष्ठ इति ॥ 5.58.17 ॥
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ॥ 5.58.18 ॥
उद्यतम् उद्युक्तम् ॥ 5.58.18 ॥
तेन चाहमनुज्ञातो मैनाकेन महात्मना ।
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ 5.58.19 ॥
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।
ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ॥ 5.58.20 ॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥ 5.58.21 ॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ 5.58.22 ॥
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ 5.58.23 ॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥ 5.58.24 ॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ॥ 5.58.25 ॥
अनुज्ञातः, अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषेण शरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ सागरोपरि, स्थित इति शेषः । ‘स वै दत्तवरः शैलो बभूवावस्थितस्तथा’ इति प्रथमसर्गोक्तेः । प्रतिप्रयाणे च ‘पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्’ इत्युक्तम् । ‘हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि’ इति रामेण चोक्तम् ॥ 5.58.1925 ॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ 5.58.26 ॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ॥ 5.58.27 ॥
एवमुक्ता मया सा तु सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ 5.58.28 ॥
कर्तुमिति । विषये सती स्वराज्ये वसन्ती ॥ 5.58.2628 ॥
एवमुक्तः सुरसया दशयोजनमायतः ।
ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ॥ 5.58.29 ॥
एवमुक्त इति । तत इति । अर्धगुणविस्तारः अत्रार्धशब्दः एकदेशवाची । किंचिदधिकविस्तारो ऽभवमित्यर्थः । एवमेवार्थः, प्रथमसर्गोक्तशतयोजनविस्तारस्तु विरुद्धः । तद्ग्रन्थः कल्पितश्चेत्युक्तम् । मत्प्रमाणेति । व्यादितं व्यात्तम् ॥ 5.58.29 ॥
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥ 5.58.30 ॥
अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ 5.58.31 ॥
तद्दृष्ट्वेति । ह्रस्वत्वं विशेषयति अङ्गुष्ठमात्रक इति ॥ 5.58.30,31 ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ।
सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ॥ 5.58.32 ॥
अर्थसिद्धयै इति । समानय संयोजय ॥ 5.58.32 ॥
ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ 5.58.33 ॥
ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किंचन ॥ 5.58.34 ॥
सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।
न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ॥ 5.58.35 ॥
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ 5.58.36 ॥
ततो ऽहमिति । साधु साध्वीति दीर्घश्छान्दसः ॥ 5.58.3336 ॥
अधोभागे न मे दृष्टिः शोचता पातिता मया ।
ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ 5.58.37 ॥
अधोभागे नेति । सलिलेशयां सलिले स्थिताम् ॥ 5.58.37 ॥
प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ 5.58.38 ॥
क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ 5.58.39 ॥
अवस्थितं दृढभूतम् । असम्भ्रान्तम् अव्यग्रम् ॥ 5.58.38,39 ॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ 5.58.40 ॥
तस्याः आस्यप्रमाणादधिकं यथा तथा कायम् आत्मदेहम् अपूरयम् अवर्धयम् । मयि वृद्धे साप्यवर्धिष्टेत्यर्थः ॥ 5.58.40 ॥
न च मां साधु बुबुधे मम वा निकृतं कृतम् ॥ 5.58.41 ॥
अयं कामरूपीति माम्, साधु सम्यक्, न बुबुधे न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृतिं वा न बुबुधे ॥ 5.58.41 ॥
ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ 5.58.42 ॥
निकृतिमेव दर्शयति ततो ऽहमिति ॥ 5.58.42 ॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसङ्काशा निकृत्तहृदया सती ॥ 5.58.43 ॥
विसृष्टभुजा विसृष्टसन्धिकभुजा ॥ 5.58.43 ॥
श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ 5.58.44 ॥
श्रृणोमीति । हतेत्यनन्तरमितिकरणं बोध्यम् ॥ 5.58.44 ॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ॥ 5.58.45 ॥
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।
प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ॥ 5.58.46 ॥
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ॥ 5.58.47 ॥
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ॥ 5.58.48 ॥
कृत्यमात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तयन्नित्यर्थः ॥ 5.58.4548 ॥
प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ॥ 5.58.49 ॥
यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ॥ 5.58.50 ॥
भीतयेत्यादि । भीतया तया नार्या । अशेषत इत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ 5.58.49,50 ॥
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ 5.58.51 ॥
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ॥ 5.58.52 ॥
सर्वरात्रं सर्वां रात्रिम् । “अहःसर्व” इत्यादिना समासान्तो ऽच् । अत्यन्तसंयोगे द्वितीया । तत्र लङ्कायाम् । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतः सन् सुमध्यमां नापश्यम् ॥ 5.58.51,52 ॥
शोचता च मया दृष्टं प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ 5.58.53 ॥
विकृष्टेन विप्रकृष्टेन अतिदीर्घेणेति यावत् ॥ 5.58.53 ॥
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ॥ 5.58.54 ॥
बहुपादपम् अनेकपादपप्रमाणमिति प्राकारविशेषणम् ॥ 5.58.54 ॥
अशोकवनिकामध्ये शिंशुपापादपो महान् ।
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥ 5.58.55 ॥
शिंशुपा पादपः, अस्तीति शेषः ॥ 5.58.55 ॥
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥ 5.58.56 ॥
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ॥ 5.58.57 ॥
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ॥ 5.58.58 ॥
शिंशुपावृक्षात् शिंशुपावृक्षस्य । श्यामां यौवनमध्यस्थाम् । तदेकवासस्संवीतां येन वाससा हृता तेनैकवाससा संवीताम् । यद्वा तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीताम्, वेषान्तरनिस्स्पृहामित्यर्थः । मानसिकत्वकायिकत्वभेदेन शोकसन्तापयोर्भेदः ॥ 5.58.5658 ॥
सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ 5.58.59 ॥
भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ॥ 5.58.60 ॥
सामयेति । आमयः खेदः तेन सह वर्तत इति सामया । मर्तव्ये मरणे । “कृत्यल्युटो बहुलम्” इति साधुः ॥ 5.58.59,60 ॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ 5.58.61 ॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ 5.58.62 ॥
पश्यन् परामृशन् ॥ 5.58.61,62 ॥
ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ 5.58.63 ॥
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ॥ 5.58.64 ॥
तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।
सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ 5.58.65 ॥
गहने पर्णगूढप्रदेशे । ‘पर्णघने निलीनः’ इत्यधस्तादप्युक्तेः ॥ 5.58.6365 ॥
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ 5.58.66 ॥
परमोद्विग्नाम् अतीवोद्भ्रान्तहृदयाम् । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणाम् । त्राणमित्यनुषज्यते ॥ 5.58.66 ॥
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ 5.58.67 ॥
अवाक्छिराः अवनतमूर्द्धा । प्रपतितः, भूमाविति शेषः ॥ 5.58.67 ॥
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥ 5.58.68 ॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ 5.58.69 ॥
राक्षसाधम रामस्य भार्यममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।
अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ 5.58.70 ॥
द्वौ मासौ अन्तरम् अवधिः । ततः पास्यामीति योज्यम् ॥ 5.58.6870 ॥
किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।
अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ 5.58.71 ॥
न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।
यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ॥ 5.58.72 ॥
किंचिद्वीर्यं कुत इत्यत्राह यो मामिति । भर्तुरसन्निधौ तेन भर्त्रा अदृष्टः सन् यो मामपहृत्यागतः तस्य तव किंचिद्वीर्यमिति योज्यम् ॥ 5.58.71,72 ॥
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।
जज्वाल सहसा कोपच्चितास्थ इव पावकः ॥ 5.58.73 ॥
जानक्येति । घोरत्वसिद्धये चितास्थ इत्युक्तम् ॥ 5.58.73 ॥
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ॥ 5.58.74 ॥
आरब्धः, रावण इति शेषः । हा हा कृतं हा हेत्येतत्कृतम् ॥ 5.58.74 ॥
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।
वरा मण्डोदरी नाम तया स प्रतिषेधितः ॥ 5.58.75 ॥
उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।
सीतया तव किं कार्यं महेन्द्रसमविक्रम ॥ 5.58.76 ॥
[मया सह रमस्वाद्य मद्विशिष्टा न जानकी ।]
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ॥ 5.58.77 ॥
समुत्पत्य, रावणसमीपं गतेति शेषः । मण्डोदरी मण्डनभूतोदरी । “मडि भूषायाम्” इत्यस्माद्धातोः पचाद्यच् । मन्दोदरी वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा मन्दत्वं चाल्पत्वम् । “मूढाल्पापटुनिर्भाग्या मन्दाः” इत्यमरः । सूक्ष्मोदरी इत्यर्थः । मन्दा स्थूलपिपीलिकेत्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः । ननु पूर्वं धान्यमालिन्या प्रतिषिद्ध इत्युक्तम् , संप्रति मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदम् । मैवम् । उभाभ्यामपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोदर्यादिनामपरिज्ञानं च हनुमतस्तदीयव्यवहारात् ॥ 5.58.7577 ॥
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ॥ 5.58.78 ॥
ताभिः देवकन्याभिः । अनेन मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तम् ॥ 5.58.78 ॥
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥ 5.58.79 ॥
क्रूरैः क्रूरशब्दैः । सुदारुणैः अर्थतोपि क्रूरैः ॥ 5.58.79 ॥
तृणवद्भाषितं तासां गणयामास जानकी ।
गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥ 5.58.80 ॥
तृणवत् गणयामासेत्यन्वयः ॥ 5.58.80 ॥
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।
रावणाय शशंसुस्ताः सीताध्यवसितं महत् ॥ 5.58.81 ॥
वृथागर्जितनिश्चेष्टाः वृथगर्जितेन निर्व्यापाराः ॥ 5.58.81 ॥
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ 5.58.82 ॥
ततस्ता इति । तूष्णीं रक्षतेति रावणोक्ता इति शेषः । परिक्षिप्य परिवार्य ॥ 5.58.82 ॥
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ 5.58.83 ॥
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥ 5.58.84 ॥
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥ 5.58.85 ॥
रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ 5.58.86 ॥
सुदुःखिता प्रशुशोच, उत्तरोत्तरं दुःखितवतीत्यर्थः ॥ 5.58.8386 ॥
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।
अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ 5.58.87 ॥
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ 5.58.88 ॥
अलं शक्ता । “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्” इत्यमरः । परित्रातुम्, एषेति शेषः ॥ 5.58.87,88 ॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ 5.58.89 ॥
अपराधिजनप्राणत्राणे हेतुमाह प्रणिपातेति ॥ 5.58.89 ॥
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ॥ 5.58.90 ॥
ततः त्रिजटावाक्यानन्तरम् । भर्तुर्विजयहर्षिता त्रिजटाकथितस्वप्नसूचितरामविजयहर्षिता । तत् त्रिजटास्वप्नवाक्यम् । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यम् ॥ 5.58.90 ॥
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ॥ 5.58.91 ॥
न च मे निर्वृतम् किन्तु दुःखितमित्यर्थः ॥ 5.58.91 ॥
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।
इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ॥ 5.58.92 ॥
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ॥ 5.58.93 ॥
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ 5.58.94 ॥
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥ 5.58.95 ॥
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।
भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ 5.58.96 ॥
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ 5.58.97 ॥
तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ 5.58.98 ॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।
आह रावणमुत्साद्य राघवो मां नयत्विति ॥ 5.58.99 ॥
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ 5.58.100 ॥
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ 5.58.101 ॥
विधिः उपायः ॥ 5.58.92101 ॥
इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥ 5.58.102 ॥
इत्युक्त्वेति । वाचा मां संदिदेशेति । स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ 5.58.102 ॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ 5.58.103 ॥
उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।
हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ॥ 5.58.104 ॥
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ 5.58.105 ॥
परिक्रामं पर्यक्रामम् । इहाभ्युद्गतमानसः इहाभ्युद्गते इहाभ्यागमने मानसं यस्य स तथा ॥ 5.58.103105 ॥
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ॥ 5.58.106 ॥
एतत् उपयानं यद्यन्यथा भवेत् यदि नोपेयातामित्यर्थः । तदा द्वौ मासौ मम जीवितम् ततः परं न जीवमीत्यर्थः । न मां द्रक्ष्यति मासद्वयाभ्यन्तरे मां न द्रक्ष्यति चेत् तदा म्रिय इति योज्यम् । मासशब्दो ऽत्र पक्षपरः । “पक्षा वै मासाः” इति श्रुतेः ॥ 5.58.106 ॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ 5.58.107 ॥
ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ 5.58.108 ॥
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ 5.58.109 ॥
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ 5.58.110 ॥
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ 5.58.111 ॥
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ॥ 5.58.112 ॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।
राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ॥ 5.58.113 ॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ॥ 5.58.114 ॥
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ 5.58.115 ॥
उत्तरम् अनन्तरम् । अनन्तरम् अनन्तरकर्तव्यम्, उत्तरकार्यमित्यर्थः ॥ 5.58.107115 ॥
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।
ललामभूतो लङ्कायाः स वै विध्वंसितो मया ॥ 5.58.116 ॥
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ॥ 5.58.117 ॥
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।
परिघेणातिघोरेण सूदयामि सहानुगम् ॥ 5.58.118 ॥
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ॥ 5.58.119 ॥
ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविषयेत्यर्थः । तादृशं बुद्धिकार्यमाह चैत्येत्यादिना । चैत्यप्रासादं नगरमध्यस्थप्रासादम् । ललामभूतः अलङ्कारभूतः ॥ 5.58.116119 ॥
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ॥ 5.58.120 ॥
मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।
पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ॥ 5.58.121 ॥
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ 5.58.122 ॥
बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ 5.58.123 ॥
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।
तमक्षमागतं भग्नं निशम्य स दशाननः ॥ 5.58.124 ॥
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ 5.58.125 ॥
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ 5.58.126 ॥
महतापि महाबाहुः प्रत्ययेन महाबलः ।
प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ॥ 5.58.127 ॥
सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।
ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ॥ 5.58.128 ॥
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।
रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ 5.58.129 ॥
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ 5.58.130 ॥
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ 5.58.131 ॥
पदातिबलसम्पन्नान् पदातिप्रभृतिसैन्यसंपन्नान् ॥ 5.58.120131 ॥
अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ 5.58.132 ॥
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ॥ 5.58.133 ॥
अस्याहमित्यादि । अस्याः सीतायाः । विसन्धिरार्षः ॥ 5.58.132,133 ॥
सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ 5.58.134 ॥
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ 5.58.135 ॥
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।
तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ॥ 5.58.136 ॥
मया च कथितं तस्मै वालिनश्च वधं प्रति ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ 5.58.137 ॥
कारकम् अर्थसाहित्यात्पथ्यम् इहोपकारकं चेत्यर्थः ॥ 5.58.134137 ॥
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।
चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥ 5.58.138 ॥
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतः स प्लवता प्रभुः ॥ 5.58.139 ॥
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।
क्षिप्रमानीयतां सीता दीयतां राघवाय च ॥ 5.58.140 ॥
यावन्न हरयो वीरा विधमन्ति बलं तव ॥ 5.58.141 ॥
वानराणां प्रभावो हि न केन विदितः पुरा ।
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥ 5.58.142 ॥
सुग्रीवश्चेत्यादिना सुग्रीवोक्तं कियदनूद्य संप्रति शेषं स्वयं वक्ता सन्नाह वालिनेति ॥ 5.58.138142 ॥
इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ 5.58.143 ॥
तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ 5.58.144 ॥
ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजो ऽसौ याचितो मम कारणात् ॥ 5.58.145 ॥
इदं वचस्सुग्रीवोक्तमेव मयोक्तमित्याह इतीति ॥ 5.58.143145 ॥
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ 5.58.146 ॥
नैवमिति । कर्तव्यमिति शेषः । राजशास्त्रम् राजधर्मशास्त्रम् ॥ 5.58.146 ॥
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ 5.58.147 ॥
सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।
विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ॥ 5.58.148 ॥
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।
राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ॥ 5.58.149 ॥
ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥ 5.58.150 ॥
वेदितव्यं वक्तव्यमित्यर्थः ॥ 5.58.147150 ॥
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।
तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ॥ 5.58.151 ॥
यन्त्रितस्य आवृतस्य ॥ 5.58.151 ॥
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।
अघोषयन् राजमार्गे नगरद्वारमागताः ॥ 5.58.152 ॥
ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ॥ 5.58.153 ॥
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।
ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥ 5.58.154 ॥
तत इति । नगरद्वारमागतास्सन्तः राजमार्गे अघोषयन्निति योजना ॥ 5.58.152154 ॥
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ 5.58.155 ॥
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ 5.58.156 ॥
दहता च मया लङ्कां दग्धा सीता न संशयः ।
रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ॥ 5.58.157 ॥
इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ 5.58.158 ॥
पुच्छेन चेति । अट्टं वलभिः ॥ 5.58.155158 ॥
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।
जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ॥ 5.58.159 ॥
विस्मयोदन्तभाषितां भाषितविस्मयोदन्ताम्, उक्ताद्भुतवार्तामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ 5.58.159 ॥
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।
अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥ 5.58.160 ॥
निमित्तैश्चोपलक्षिता शकुनादिभिश्च सीता न दग्धेति ज्ञातेत्यर्थः ॥ 5.58.160 ॥
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ॥ 5.58.161 ॥
हृदयं प्रहृष्टम्, आसीदिति शेषः । सुरभिगन्धिनः, आसन्निति शेषः ॥ 5.58.161 ॥
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ 5.58.162 ॥
हृष्टार्थैः दृष्टफलैः । निमित्तैः शकुनैः । कारणैः नेत्रस्फुरणादिभिः । महागुणैः फलव्याप्तैः । सिद्धार्थैः अबाधितार्थैः । तत्र हेतुत्वेन ऋषिपदोपादानम् ॥ 5.58.162 ॥
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ॥ 5.58.163 ॥
पुनरित्यर्धमेकं वाक्यम् । विसृष्टः प्रेषितो ऽस्मि ॥ 5.58.163 ॥
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।
प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ॥ 5.58.164 ॥
तत्र लङ्कासमीपे । सामीप्ये सप्तमी । तत्र वर्तमानम् अरिष्टं पर्वतम् ॥ 5.58.164 ॥
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ 5.58.165 ॥
तत इति । भवतो दृष्टवानिह । भवतः युष्मान् । इह समुद्रतीरे ॥ 5.58.165 ॥
राघवस्य प्रभावेन भवतां चैव तेजसा ।
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ॥ 5.58.166 ॥
एतत्सर्वं मया तत्र यथावदुपपादितम् ।
अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥ 5.58.167 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ 5.58 ॥
राघवस्येति । भवतां चैव तेजसा भवदनुग्रहेणेत्यर्थः । सुग्रीवस्य च कार्यार्थम्, स्वामिकार्यस्यावश्यकर्तव्यत्वादिति भावः । कार्यार्थं कार्यवस्तु । क्लीबत्वमार्षम् । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं वानराणां श्रवणकुतूहलातिशयप्रकाशनम् । अस्मिन् सर्गे सार्धषट्षष्ट्युत्तरशतश्लोकाः ॥ 5.58.166,167 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ 5.58 ॥