श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः
[आप्लुत्य च महावेगः पक्षवानिव पर्वतः ।]
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।
तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ॥ 5.57.1 ॥
‘उत्पपात नभो हरिः’ इत्युक्तम् । तल्लङ्घनं रूपकेण चतुर्भिर्वर्णयति सचन्द्रेत्यादिना । कारण्डवः जलकुक्कुटः । कादम्बः कलहंसः । “कादम्बः कलहंसः स्यात्” इत्यमरः । अभ्रशैवालशाद्वल मेघस्य शैवालत्वेन पर्यन्तस्थशाद्वलत्वेन च रूपणम् ॥ 5.57.1 ॥
पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।
ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ॥ 5.57.2 ॥
लोहिताङ्गः अङ्गारकः स एव महाग्रहः महाग्राहः यस्य तम् । ऐरावतस्याभ्रमातङ्गत्वेनाभ्रगामित्वात्तत्र सम्भवः । विलोलितम् अवगाढम् ॥ 5.57.2॥
वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ 5.57.3 ॥
हनुमान् मारुतगतिर्महानौरिव सागरम् ।
अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥ 5.57.4 ॥
वातसङ्घातजातोर्मय एव चन्द्राशवः तैः शीतलजलवत् । भुजङ्गादीनां कमलोत्पलत्वेन रूपणं तत्तद्वर्णभेदेन । अत्र गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणात्सावयवरूपकम् । तस्य नौरिव इत्युपमया तिलतण्डुलवत्संसृष्टिः ॥ 5.57.3,4 ॥
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ 5.57.5 ॥
मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।
हनुमान् मेघजालानि विकर्षन्निव गच्छति ॥ 5.57.6 ॥
अथ तदेवोत्प्रेक्षया वर्णयति– ग्रसमान इवेत्यादिना ॥ 5.57.5,6 ॥
पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ 5.57.7 ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ 5.57.8 ॥
पाण्डरेति । व्यक्ताव्यक्तवाचित्वेन अरुणशब्दयोः कथंचिदपौनरुक्त्यमुन्नेयम् । यद्वा “अरुणः कृष्णलोहितः” इत्यमरशेषः । महाभ्राणि चकाशिरे, हनुमत्सम्पर्कादित्यर्थः । अन्यथा वाजपेयशरद्वर्णनवत् अभ्रवर्णनस्यासङ्गतत्वापातः । हनुमतस्तेजस्वीत्यनेन मेघानां नानावर्णत्वापत्तिः सूर्येन्दुसम्पर्कवत् ॥ 5.57.7,8 ॥
विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।
दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ॥ 5.57.9 ॥
विविधेष्वभ्रघनेषु मेघसङ्घातेषु । आपन्नगोचरः प्राप्तविषयः । लब्धमार्ग इति यावत् । धवलाम्बरः शुक्लवासाः । दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्क्रमणाभ्यामिति भावः । चन्द्रायते चन्द्र इवाचरति ॥ 5.57.9 ॥
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।
दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ॥ 5.57.10 ॥
नदन्नादेन महता मेघस्वनमहास्वनः ।
प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ 5.57.11 ॥
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।
अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ 5.57.12 ॥
आजगाम महातेजाः पुनर्मध्येन सागरम् ॥ 5.57.13 ॥
तार्क्ष्य इवाचरन् तार्क्ष्ययमाणः । उभयत्र ” उपमानादाचारे” ” कर्तुः क्यङ् स लोपश्च ” इति क्यङ् ॥ 5.57.1013 ॥
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।
ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ॥ 5.57.14 ॥
सुनाभं मैनाकम् ॥ 5.57.14 ॥
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।
महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ॥ 5.57.15 ॥
स पूरयामास कपिर्दिशो दश समन्ततः ।
नदन्नादेन महता मेघस्वनमहास्वनः ॥ 5.57.16 ॥
किंचिदनुसंप्राप्तः मैनाकात्परं कंचित् प्रदेशं प्राप्तः ॥ 5.57.15,16 ॥
स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।
ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ॥ 5.57.17 ॥
लालसः साभिलाषः । तं देशं सुद्धदावाससमीपप्रदेशम् ॥ 5.57.17 ॥
तस्य नानद्यमानस्य सुपर्णचरिते पथि ।
फलतीवास्य घोषेण गगनं सार्कमण्डलम् ॥ 5.57.18 ॥
नानद्यमानस्य पुनः पुनर्भृशं नदत इत्यर्थः । फलतीव दलतीव ॥ 5.57.18 ॥
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।
पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ॥ 5.57.19 ॥
महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।
शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ 5.57.20 ॥
वातनुन्नस्य वातसङ्घट्टितस्य । घोषम् उरुवेगमिति, ऊरुवेगजन्यं घोषमित्यर्थः ॥ 5.57.19,20 ॥
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।
वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥ 5.57.21 ॥
निशम्य नदतो नादं वानरास्ते समन्ततः ।
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ 5.57.22 ॥
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।
उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ॥ 5.57.23 ॥
सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ 5.57.24 ॥
ते दीनमनस इति । अनिष्टश्रवणशङ्कयेति भावः ॥ 5.57.2124 ॥
तस्य बाहूरुवेगं च निनादं च महात्मनः ।
निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥ 5.57.25 ॥
तस्येति । निशम्य ज्ञात्वेत्यर्थः । यद्वा दृष्ट्वा चेत्यध्याहार्यम् । अन्यथा बाहूरुवेगं पदानन्वयात् ॥ 5.57.25 ॥
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ 5.57.26 ॥
समुत्पेतुरित्युक्तं विवृणोतिते नगाग्रादिति । नगाग्रात् वृक्षाग्रात् । समपद्यन्त सङ्घीभूताः ॥ 5.57.26 ॥
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।
वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥ 5.57.27 ॥
गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।
एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥ 5.57.28 ॥
प्रीता इति हेतुगर्भं विशेषणम् । यथा मनुष्याः दूरस्थस्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चान्योन्याह्वानाय पुष्पितशाखाः गृहीत्वा प्रशाखाः प्रागग्रशाखाः समाविद्ध्यन्त पर्यभ्रामयन् ॥ 5.57.27,28 ॥
तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।
दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ 5.57.29 ॥
अभ्रधनसङ्काशम् अभ्रसमूहतुल्यम् ॥ 5.57.29 ॥
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।
निपपात महेन्द्रस्य शिखरे पादपाकुले ॥ 5.57.30 ॥
निपपात निर्भरमाक्रान्तवान् ॥ 5.57.30 ॥
हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।
छिन्नपक्ष इवाकाशात् पपात धरणीधरः ॥ 5.57.31 ॥
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।
हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।
परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ 5.57.32 ॥
पपाततेति । अच्छिन्नपक्षस्य पातासम्भवाच्छिन्नपक्ष इत्युक्तम् ॥ 5.57.31,32 ॥
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।
उपायनानि चादाय मूलानि च फलानि च ।
प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ॥ 5.57.33 ॥
प्रहृष्टवदनाः प्रसन्नमुखाः, आसन्निति शेषः । अरोगं कुशलिनमित्यर्थः । उपायनानि उपहारान् ॥ 5.57.33 ॥
हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।
कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ॥ 5.57.34 ॥
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।
दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ 5.57.35 ॥
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥ 5.57.36 ॥
हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ॥ 5.57.37 ॥
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥ 5.57.38 ॥
एकवेणीधरा बाला रामदर्शनलालसा ।
उपवासपरिश्रान्ता जटिला मलिना कृशा ॥ 5.57.39 ॥
हनुमांस्त्वित्यादि । कुमारमङ्गदं चेति, स्वामित्वादिति भावः ॥ 5.57.3439 ॥
ततो दृष्टेति वचनं महार्थममृतोपमम् ।
निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ 5.57.40 ॥
भवन् अभवन् । अनित्यत्वादडभावः ॥ 5.57.40 ॥
क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।
चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ॥ 5.57.41 ॥
क्ष्वेलन्ति सिंहनादं कुर्वन्ति । नदन्ति अव्यक्तशब्दं कुर्वन्ति । गर्जन्ति वृषभनादं कुर्वन्ति । किलिकिलां स्वजात्युचितकिलिकिलाशब्दम् ॥ 5.57.41 ॥
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।
अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ॥ 5.57.42 ॥
केचिदिति । अञ्चितायतदीर्घाणि अत्र दीर्घपदसन्निधानादायतपदं स्थूलपरम् । प्रविव्यधुः लाङ्गूलान्युद्धृत्य भूमावताडयन्नित्यर्थः ॥ 5.57.42 ॥
अपरे च हनूमन्तं वानरा वारणोपमम् ।
आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥ 5.57.43 ॥
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥ 5.57.44 ॥
अपरे चेति । संस्पृशन्ति आलिङ्गन्तीत्यर्थः ॥ 5.57.43,44 ॥
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ 5.57.45 ॥
[जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम ।
त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह ॥]
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ 5.57.46 ॥
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।
ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥ 5.57.47 ॥
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।
श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥ 5.57.48 ॥
दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।
तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ 5.57.49 ॥
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ 5.57.50 ॥
सत्त्व इति । अवप्लुत्य विस्तीर्णमित्यङ्गदेतरव्यावृत्तिः । पुनरागत इत्यङ्गदव्यावृत्तिः ॥ 5.57.4550 ॥
हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।
मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ॥ 5.57.51 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने
इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ 5.57 ॥
कीर्तिमतेति हनुमद्विशेषणम् । यशस्विनेत्यङ्गदविशेषणम् । भृत्यकीर्त्या स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा बुद्धिमत्त्वजन्या कीर्तिः । शौर्यजन्यं यशः ॥ 5.57.51 ॥
इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ 5.57 ॥