०४९ हनुमता रावणदर्शनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।

हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ॥ 5.49.1॥

ततः स इत्यादि । कर्मणा तस्य विस्मितः, युद्धार्थं रावणेनागन्तवन्यमिति यत्नः कृतः । स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवानित्यानयनकर्मणा जातविस्मय इत्यर्थः ॥ 5.49.1॥

भ्राजमानं महार्हेण काञ्चनेन विराजता ।

मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ॥ 5.49.2॥

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।

हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ 5.49.3॥

भ्राजमानमित्यादि । वज्रसंयोगसंयुक्तैः वज्रकीलनेन संबद्धैः । अत्र भ्राजमानमित्यनुषज्यते ॥ 5.49.23॥

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।

स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥ 5.49.4॥

विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।

दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ॥ 5.49.5॥

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।

नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥ 5.49.6॥

भक्तिभिः पङ्क्तिभिः । इत्थभूतलक्षणे तृतीया । यथा पङ्क्तयो भवन्ति तथा ऽनुलिप्त इत्यर्थः ॥ 5.49.46॥

नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।

पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ॥ 5.49.7॥

पूर्णचन्द्राभवक्त्रेण पूर्णचन्द्रतुल्यनायकरत्नेन । वक्त्रं नायकरत्नम् अभितोलग्नमुक्तामणिमण्डलम् ॥ 5.49.7॥

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।

भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ॥ 5.49.8॥

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।

उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥ 5.49.9॥

अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।

वालव्यजनहस्ताभिरारात् समुपसेवितम् ॥ 5.49.10॥

केयूरं भुजोपरि धार्यमाणमाभरणम् । अङ्गदं बाहुमध्यस्थाभरणम् ॥ 5.49.810॥

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।

मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥ 5.49.11॥

सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।

कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ॥ 5.49.12॥

सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।

अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ॥ 5.49.13॥

अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।

विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ 5.49.14॥

स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः ।

विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ॥ 5.49.15॥

भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।

मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ 5.49.16॥

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।

अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ 5.49.17॥

मन्त्रिभिः प्रशस्तमन्त्रैः । अतस्सचिवैरित्यपुनरुक्तिः ॥ 5.49.1117॥

यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।

स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ॥ 5.49.18॥

अयं रावणकृतः अधर्मः बलवान्न स्याद्यदि । तदा ऽयं राक्षसेश्वरः सशक्रस्य सुरलोकस्यापि रक्षिता स्यात् ॥ 5.49.18॥

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।

तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥ 5.49.19॥

अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।

इति चिन्तां बहुविधामकरोन्मतिमान् हरिः ।

दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ 5.49.20॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥ 5.49॥

अस्येति । तेन कर्मभिः कृतेन पूर्वोक्तेनाधर्मेण हेतुना ॥ 5.49.1920॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ 5.49॥