श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।
समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ॥ 5.47.1॥
सेनापतीनित्यादि । समीक्ष्य विज्ञाय ॥ 5.47.1॥
स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।
समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ 5.47.2॥
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।
रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ॥ 5.47.3॥
द्विजातिमुख्यैः हविषा उदीरितः अभिवर्धितः पावक इवेत्यन्वयः ॥ 5.47.23॥
ततस्तपःसंग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम् ।
पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ 5.47.4॥
ततो महदित्यनेनोक्तं विस्तरेणाह ततस्तपस्संग्रहेत्यादिना । तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम् ॥ 5.47.4॥
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ।
सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ 5.47.5॥
समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धुरम् अष्टासिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् । “बन्धुरं सुन्दरे नम्रे” इति विश्वः । यद्वा अष्टासिभिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासङ्घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः । तदानीम् अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः । यथाक्रमावेशितशक्तितोमरं पङ्क्तितया स्थापितशक्तितोमरम् ॥ 5.47.5॥
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।
दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ 5.47.6॥
प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनुः कवचादीन्युपकरणानि । प्रतिपूर्णमस्तिनेति पाठे अस्तिना घनेनेत्यर्थः । हेमदाम्ना हेममयाश्वादिबन्धनरज्जुना । शशिसूर्यवर्चसा दामसु किञ्चित्सितवर्णं किञ्चित्सूर्यवत्पीतवर्णमित्यर्थः । प्रतिपूर्णवस्तुना शशिसूर्यवर्चसा हेमदाम्ना च विराजमानमित्यन्वयः । यद्वा क्वचिच्छशिवर्चसा क्वचित्सूर्यवर्चसा च विराजमानमित्यन्वयः । वितानादिषु शशिवर्चसा हेममयरथाङ्गेषु सूर्यवर्चसा । दिवाकराभमित्याकाशचारित्वे दृष्टान्तः । अतो न रविप्रभमित्यनेन पुनरुक्तिः । तच्छब्दद्वयं च पूर्वानुस्मरणार्थम् ॥ 5.47.6॥
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।
बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ॥ 5.47.7॥
सः अक्षः । हिः प्रसिद्धौ ॥ 5.47.7॥
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।
अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ॥ 5.47.8॥
हरीक्षणः सिंहप्रेक्षणः । प्रजाक्षये अवस्थितं प्राणिनाशे प्रवृत्तम् । विस्मितश्चासौ जातसम्भ्रमश्च विस्मितजातसम्भ्रमः ॥ 5.47.8॥
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।
विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ 5.47.9॥
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् ।
समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ 5.47.10॥
ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।
अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ॥ 5.47.11॥
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् ।
तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ॥ 5.47.12॥
स तस्येति । विधारयन् निर्धारयन् । विचारयन्निति च पाठः ॥ 5.47.912॥
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥ 5.47.13॥
ररासेति । न तताप भानुमान् । सूर्योदयः पूर्वं सूचितः सः न ततापेत्युच्यते ॥ 5.47.13॥
ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् ।
समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ॥ 5.47.14॥
समाधिसंयोगविमोक्षतत्त्ववित् समाधिः लक्ष्यवेदनं संयोगः शरसन्धानं विमोक्षः तद्विसर्गः तेषां तत्त्ववित् यथार्थवित् ॥ 5.47.14॥
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।
नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ॥ 5.47.15॥
रक्तसिक्तत्वे दृष्टान्तः नवोदितेति । शराचितत्वे दृष्टान्तः आदित्य इवांशुमालिक इति ॥ 5.47.15॥
ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।
उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ 5.47.16॥
आपूर्यत व्यवर्धत ॥ 5.47.16॥
स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।
कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ 5.47.17॥
मन्दराग्रस्थः मन्दरो नाम भूमध्यपर्वतः । तदग्रे मध्याह्ने वर्तत इत्यौग्र्योक्तिः 5.47.17 ॥
ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।
शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ॥ 5.47.18॥
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।
कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ॥ 5.47.19॥
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।
समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ॥ 5.47.20॥
स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः ।
समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥ 5.47.21॥
समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।
रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ 5.47.22॥
ततस्स बाणासनेति । बाणासनचित्रकार्मुकः बाणाः अस्यन्ते क्षिप्यन्ते ऽनेनेति बाणासनः बाणविमोक्षकचित्रकार्मुक इत्यर्थः ॥ 5.47.1822॥
स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।
शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ॥ 5.47.23॥
स तानिति । विमोक्षयन् शरीरे असंयोजयन् । लाघवातिशयेनेति भावः ॥ 5.47.23॥
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः ।
अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ 5.47.24॥
आस्तृणन्तम् आच्छादयन्तम् । विशिखैः विविधशिखैः । चिन्तां जगाम कथमेतादृशमेनं वधिष्यामीत्येवम् ॥ 5.47.24॥
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् ।
महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ॥ 5.47.25॥
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।
न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ 5.47.26॥
इदमेवोपपादयति ततश्शरैरित्यादिना ॥ 5.47.25,26॥
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।
असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः ॥ 5.47.27॥
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।
पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ॥ 5.47.28॥
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।
प्रमापणं त्वेव ममास्य रोचते न वर्धमानो ऽग्निरुपेक्षितुं क्षमः ॥ 5.47.29॥
अतिसहः अतिसोढा । कर्मगुणोदयात् युद्धकर्मोत्कर्षाभिवृद्धेः ॥ 5.47.2729॥
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।
चकार वेगं तु महाबलस्तदा मतिं च चक्रे ऽस्य वधे महाकपिः ॥ 5.47.30॥
परस्य शत्रोः । प्रवेगम् तर्कयन् आलोचयन् । स्वकर्मयोगं विधाय युद्धक्रमं च सङ्कल्प्य । पूर्वमश्वान् हत्वा ततो रथं भङ्क्ष्यामीति निश्चित्येत्यर्थः ॥ 5.47.30॥
स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने ।
जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥ 5.47.31॥
विवर्तते सव्यापसव्यभ्रमणे ऽपि । भारसहान् रथभारसहान् ॥ 5.47.31॥
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।
प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ 5.47.32॥
तलेनाभिहतः अत एव पिङ्गाधिपमन्त्रिनिर्जितः, हनुमता निर्जित इत्यर्थः । प्रभग्ननीडः प्रभग्नरथाङ्गः । कूबरः युगन्धरः । वाजिरिति इकारान्तत्वमार्षम् ॥ 5.47.32॥
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।
तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ॥ 5.47.33॥
ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते ।
समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ॥ 5.47.34॥
मरुतामालयमुत्पतन् ऋषिरिव, अभवदिति शेषः ॥ 5.47.3334॥
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।
मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ 5.47.35॥
गृह्य इवेत्यत्र गुणाभाव आर्षः ॥ 5.47.35॥
स भग्नबाहूरुकटीशिरोधरः क्षसन्नसृङ्निर्मथितास्थिलोचनः ।
स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ।
महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ॥ 5.47.36॥
प्रविकीर्णबन्धनः प्रवीकीर्णकक्ष्यादिबन्धनः । प्रभिन्नसन्धिरिति सन्धिबन्धभङ्गस्योक्तत्वात् ॥ 5.47.36॥
महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।
सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ॥ 5.47.37॥
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।
तमेव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ 5.47.38॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ 5.47॥
चक्रचरैः ज्योतिश्चक्रचरैः,नभश्चक्रचरैर्वा ॥ 5.47.37,38॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ 5.47॥