श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ॥ 5.45.1॥
ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् । सप्तार्चिवर्चस इत्यत्र सप्तार्चीति इकारान्तत्वमार्षम् ॥ 5.45.1॥३
महाबलपरीवारा धनुष्मन्तो महाबलाः ।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ 5.45.2॥
कृतास्त्राः शिक्षिताश्त्राः । आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञानसिक्षे उभे अप्येषां स्त इति भावः । परस्परजयैषिणः प्रत्यकं हनुमज्जयैषिण इत्यर्थः ॥ 5.45.2॥
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ 5.45.3॥
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ॥ 5.45.4॥
जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥ 5.45.5॥
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ 5.45.6॥
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।
वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ॥ 5.45.7॥
अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ॥ 5.45.8॥
हेमजालपरिक्षिप्तैः सुवर्णजालविनिर्मितैः । स्वसाधारणचिह्नयुक्तं ध्वजम् । केवलचित्रवस्त्रालभ्कृता पताका । तोयदस्वननिर्घोषैः तोयदस्वनतुल्यनिर्घोषवद्भिः ॥ 5.45.38॥
स शरान् मोघयामास तेषामाशुचरः कपिः ।
रथवेगं च वीराणां विचरन् विमले ऽम्बरे ॥ 5.45.9॥
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ 5.45.10॥
स शरान् मोघयामास, यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः । यथा रथवेगास्स्वप्रहाराय न भवन्ति तथा समचरदित्यर्थः ॥ 5.45.910॥
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ॥ 5.45.11॥
वेगं संहारोद्योगम् ॥ 5.45.11॥
तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।
मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ॥ 5.45.12॥
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।
केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ 5.45.13॥
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।
तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ॥ 5.45.14॥
पादैः कांश्चिदिति बहुवचनं वानराणां द्विपात्सु चतुष्पात्सु च ग्रहणात् ॥ 5.45.1214॥
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।
भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ॥ 5.45.15॥
नीडं ध्वजावयवविशेषः ॥ 5.45.15॥
स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।
विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥ 5.45.16॥
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ॥ 5.45.17॥
इत्यर्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ 5.45॥
स्रवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्वानवती बभूव ॥ 5.45.16,17॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ 5.45॥