श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥ 5.42.1॥
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 5.42.2॥
ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ 5.42.3॥
स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ 5.42.4॥
ततः पक्षीत्यादि ॥ 5.42.14॥
ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ 5.42.5॥
को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ॥ 5.42.6॥
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ 5.42.7॥
ततस्तमित्यादि । उतशब्दो वार्थे । “उताप्यर्थविकल्पपयोः” इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण सम्बन्धः । कः किन्नामकः । कस्य कस्य सम्बन्धी पुरुषः । कुतः कस्माद्देशादागतः । किन्निमित्तं किं प्रयोजनमुद्दिश्य । संवादं किं कृतवान् किमुद्दिश्य कृतवान् । सर्वस्यापि पप्रच्छुरिति पूर्वेणान्वयः ॥ 5.42.57॥
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ 5.42.8॥
यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।
अहिरेव ह्यहेः पादान् विजानाति न संशयः ॥ 5.42.9॥
अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ 5.42.10॥
अथाब्रवीदित्यादि । अयं यः यादृशः । यद्वा कार्यं करिष्यति तद्यूयमेवाभिजानीतेति संबन्धः । नैनं जानामीति । “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । (विप्रस्य) मित्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥” इति स्मरणादसत्योक्तिः॥ 5.42.810 ॥
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ 5.42.11॥
रावणस्य समीपे तु राक्षस्यो विकृताननाः ।
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ 5.42.12॥
अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।
सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ॥ 5.42.13॥
न च तं जानकी सीता हरिं हरिणलोचना ।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ॥ 5.42.14॥
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।
प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ॥ 5.42.15॥
वैदेह्या इति । दिशः दिक्षु, वनस्य पार्श्वेष्वित्यर्थः । विद्रुताः विलीनाः । निवेदितुं निवेदयितुम् ॥ 5.42.1115॥
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ 5.42.16॥
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
यत्र सा जानकी सीता स तेन न विनाशितः ॥ 5.42.17॥
जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।
अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ 5.42.18॥
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।
प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ॥ 5.42.19॥
प्रमृष्टं भग्नमित्यर्थः ॥ 5.42.1619॥
तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।
सीता संभाषिता येन तद्वनं च विनाशितम् ॥ 5.42.20॥
मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।
कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ 5.42.21॥
तस्येति । हे उग्र । त्वम् आज्ञातुम् आज्ञापयितुम् ॥ 5.42.2021॥
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ 5.42.22॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ 5.42.23॥
संवर्तितेक्षणः परिवर्तितेक्षणः ॥ 5.42.2223॥
आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ 5.42.24॥
नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ॥ 5.42.24॥
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ॥ 5.42.25॥
किंकराणां सङ्ख्यां निर्दिशति तेषामिति ॥ 5.42.25॥
निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।
महोदरा महादंष्ट्रा घोररूपा महाबलाः ।
युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ॥ 5.42.26॥
निर्युरिति । सर्व इति विशेष्यम् । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्गरः द्रुघणः ॥ 5.42.26॥
ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।
अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ 5.42.27॥
अवस्थितं युद्धाय सन्नद्धमित्यर्थः ॥ 5.42.27॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ 5.42.28॥
परिघैः परिघपातनैः । काञ्चानाङ्गदैः काञ्चनपटैः ॥ 5.42.28॥
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ 5.42.29॥
मुद्गरैरिति । पट्टिशो नाम लोहदण्डः तीक्ष्णधारः क्षुरोपम आयुधविशेषः । अत्रेत्थंभूतलक्षणे तृतीया । प्रासः कुन्तः । तोमरः आयुधविशेषः । ॥ 5.42.29॥
हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।
क्षितावाविध्य लांगूलं ननाद च महास्वनम् ॥ 5.42.30॥
श्रीमानिति तात्कालिकहर्षकृतकान्तिरुच्यते ॥ 5.42.30॥
स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 5.42.31॥
धृष्टमिति क्रियाविशेषणम् ॥ 5.42.31॥
तस्यास्फोटितशब्देन महता सानुनादिना ।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ 5.42.32॥
तस्येत्यादि । सानुनादिना सप्रतिध्वनिना । यद्वा अनुनादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनिं कुर्वता । उच्चैश्चेदमघोषयदिति । स हनुमान् इदं वक्ष्यमाणं वचनमुच्चैरघोषयत् ॥ 5.42.32॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.42.33॥
घोषणवचनमाह जयतीत्यादि । अभिपालितः वालिवधेन ॥ 5.42.33॥
दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 5.42.34॥
अक्लिष्टकर्मण इत्यनेन स्वदास्यं न कर्मकृतम्, किन्तु स्वरूपप्रयुक्तमित्युच्यते ॥ 5.42.34॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 5.42.35॥
प्रतिबलं समानबलम् । प्रहरतः, राक्षसानिति शेषः । प्रहारमात्रेण वा हनुमद्विशेषणम् ॥ 4.42.35॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 5.42.36॥
अर्दयित्वेति । मिषतां पश्यताम् । अनादरे षष्ठी ॥ 542.36॥
तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ 5.42.37॥
सन्ध्यामेघमिवेति रक्तवर्णत्वात् ॥ 5.42.37॥
स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 5.42.38॥
स तैः परिवृतः शूरैः सर्वतः स महाबलः ।
आससादायसं भीमं परिघं तोरणाश्रितम् ॥
स तं परिघमादय जघान रजनीचरान् ॥ 5.42.39॥
ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता इत्यवगम्यते ॥ 5.42.38,39॥
स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ॥ 5.42.40॥
[सूदयामास वज्रेण दैत्यानिव सहस्रदृक्]
स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।
युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ॥ 5.42.41॥
स पन्नगमिति सपरिवत्वमात्रे दृष्टान्तः । परिगृह्य, परिघमिति शेषः । स्फुरन्तं पन्नगमादाय विनतासुत इव स वीरो मारुतिः परिघं परिगृह्याम्बरे विचचारेति सम्बन्धः ॥ 5.42.4041॥
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।
निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥ 5.42.42॥
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ॥ 5.42.43॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ 5.42॥
तस्मात् भयान्मुक्ताः दूरस्थाः इत्यर्थः ॥ 5.42.42,43॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ 5.42॥