०३७ अङ्गुलीयकं दृष्ट्वा सीतामोदनम्

श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।

हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ 5.37.1॥

सीतेत्यादि ॥ 5.37.1॥

अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।

यच्च नान्यमना रामो यच्च शोकपरायणः ॥ 5.37.2॥

अमृतमिति । यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्च शोकपरायण इति विषसंसृष्टत्वे ॥ 5.37.2॥

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ 5.37.3॥

रामवियोगो न स्वबुद्धिकृत इत्याह ऐश्वर्य इति । कृतान्तः दैवम् ॥ 5.37.3॥

विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।

सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ 5.37.4॥

शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।

प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥ 5.37.5॥

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।

लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ 5.37.6॥

स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।

अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ 5.37.7॥

विधिः दैवम् । असंहार्यः अनिवार्यः ॥ 5.37.47॥

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।

रावणेन नृशंसेन समयो यः कृतो मम ॥ 5.37.8॥

दशमो मासः दशममासान्तः ॥ 5.37.8॥

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।

अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ 5.37.9॥

मम प्रतिप्रदानं हि रावणस्य न रोचते ।

रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ॥ 5.37.10॥

ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।

तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ 5.37.11॥

[अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः ।

द्युतिमाञ्छीलवान् वृद्धो रावणस्य सुसंमतः ॥

रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।

न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥]

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।

अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ 5.37.12॥

निर्यातनं प्रत्यर्पणम् ॥ 5.37.912॥

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।

विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥ 5.37.13॥

चतुर्दश सहस्राणि राक्षसानां जघान यः ।

जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ 5.37.14॥

उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रूरत्वम् । कृतज्ञता उपकारज्ञत्वम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ॥ 5.37.1314॥

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।

अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ॥ 5.37.15॥

शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।

शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ 5.37.16॥

इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।

अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ॥ 5.37.17॥

कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ॥ 5.37.18॥

अथवा मोचयिष्यामि त्वामद्यैव वरानने ।

अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ 5.37.19॥

त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।

शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ 5.37.20॥

द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।

व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ॥ 5.37.22॥

न स इति । तुलयितु चालयितुम् ॥ 5.37.1522॥

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।

पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ॥ 5.37.23॥

त्वद्दर्शनेति । नाकराजस्य मूर्धनि नाकपृष्ठसंज्ञस्य मूर्धनि । नगराजस्येति पाठे मेरोरित्यर्थः ॥ 5.37.23॥

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।

योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ 5.37.24॥

मा विकाङ्क्षस्व मोपेक्षिष्ठाः ॥ 5.37.24॥

कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।

मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ॥ 5.37.25॥

न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।

अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ 5.37.26॥

यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।

यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ 5.37.27॥

कथयन्तीवेति । चन्द्रेण कथयन्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ॥ 5.37.2527॥

मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।

हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ 5.37.28॥

हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।

तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ 5.37.29॥

कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।

सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥ 5.37.30॥

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥ 5.37.31।.

मैथिली त्विति । हर्षविस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ॥ 5.37.2831॥

न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।

तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ॥ 5.37.32॥

न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा । तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः । इति पाठः । अन्यथापाठे वक्ष्यमाणेन विरोधस्स्यात् ॥ 5.37.32॥

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।

दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ॥ 5.37.33॥

स्वरूपं स्वस्य शरीरम् ॥ 5.37.33॥

स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।

ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ 5.37.34॥

एतदेवाह स तस्मादिति । अयं श्लोको वर्धनार्थं वृक्षादवरोहणं दर्शयति स्म । अनेन सो ऽवतीर्य द्रुमादिति पूर्वं द्रुमाग्रात्सीतासमीपस्थशाखायामवतरणमुक्तम्, अत्र भूमाविति बोध्यम् ॥ 5.37.34॥

मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।

अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ 5.37.35॥

हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।

वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ 5.37.36॥

सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।

लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ॥ 5.37.37॥

मेरुमन्दरेति । अग्रतो व्यवतस्थे, सम्भाषणाय वृक्षमूलगतो बभूवेत्यर्थः ॥ 5.37.3537॥

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।

विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ 5.37.38॥

तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।

पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ 5.37.39॥

तव सत्त्वं बलं चैव विजानामि महाकपे ।

वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ॥ 5.37.40॥

प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।

उदधेरप्रमेयस्य पारं वानरपुङ्गव ॥ 5.37.41॥

अवस्थाप्यतां निश्चलीक्रियताम् । विकाङ्क्षया उपेक्षया ॥ 5.37.3841॥

जानामि गमने शक्तिं नयने चापि ते मम ।

अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ॥ 5.37.42॥

संप्रधार्या विचारणीया ॥ 5.37.42॥

अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।

वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ 5.37.43॥

स्वप्रापणे प्रधानं दोषं हृदि कृत्वा आपाततो दोषमाह अयुक्तमिति ॥ 5.37.43॥

अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।

प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ॥ 5.37.44॥

उपर्युपरि सागरमिति । “उपर्यध्यधसस्समीप्ये” इति द्विर्वचनम् । “धिगुपर्यादिषु त्रिषु” इति द्वितीया ॥ 5.37.44॥

पतिता सागरे चाहं तिमिनक्रझषाकुले ।

भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥ 5.37.45॥

यादसां जलजन्तूनाम् ॥ 5.37.45॥

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।

कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ॥ 5.37.46॥

कलत्रवति रक्ष्यवति त्वयि सन्देहः स्यात्, मयि रक्ष्यायां त्वयि विपत्सन्देहः स्यादित्यर्थः ॥ 5.37.46॥

ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।

अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ 5.37.47॥

एतदेव प्रपञ्चयति ह्रियमाणामित्यादिना ॥ 5.37.47॥

तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।

भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ 5.37.48॥

त्वं तैः परिवृतो भवेः । कलत्रवान् रक्ष्यवान् त्वं संशयं प्राप्तश्च भवेरिति योजना ॥ 5.37.48॥

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।

कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ 5.37.49॥

सायुधा इति । संयातुं सम्यग्योद्धुम् ॥ 5.37.49॥

युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।

प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ॥ 5.37.50॥

पूर्वश्लोकोक्तं समर्थयति युद्ध्यमानस्येत्यादिना ॥ 5.37.50॥

अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।

कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ॥ 5.37.51॥

अथेति । सम्पराये युद्धे ॥ 5.37.51॥

अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।

पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ 5.37.52॥

मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।

अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ 5.37.53॥

अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।

त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ॥ 5.37.54॥

कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।

राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ 5.37.55॥

अथवेति । विमुखस्य युद्धपरवशस्येत्यर्थः ॥ 5.37.5255॥

अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।

यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।

आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ॥ 5.37.56॥

त्वया हि सह रामस्य महानागमने गुणः ॥ 5.37.57॥

संवते गूढप्रदेशे ॥ 5.37.5657॥

मयि जीवितमायत्तं राघवस्य महात्मनः ।

भ्रातृ़णां च महाबाहो तव राजकुलस्य च ॥ 5.37.58॥

तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।

सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥ 5.37.59॥

भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।

न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ॥ 5.37.60॥

मयीति । तव राजकुलस्य सुग्रीवराजकुलस्य ॥ 5.37.5860॥

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।

अनीशा किं करिष्यामि विनाथा विवशा सती ॥ 5.37.61॥

यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।

मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ 5.37.62॥

अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा विगतस्वामिका । विवशा विचेष्टा ॥ 5.37.6162॥

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।

न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥ 5.37.63॥

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।

सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ 5.37.64॥

सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।

सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ 5.37.65॥

श्रुता इति । प्रथमहिशब्दो गुणप्रसिद्धौ । द्वितीयो निस्समत्वप्रसिद्धौ ॥ 5.37.6365॥

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।

चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ 5.37.66॥

इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ 5.37॥

हर्षितां हर्षमासादिताम्, उत्तरोत्तरहर्षवतीमित्यर्थः । अनया भक्तिकया उपायान्तरं स्वरूपविरुद्धं भगवत्प्राप्तौ स एवोपाय इति दर्शितः ॥ 5.37.66॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः सर्गः ॥ 5.37॥