श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ॥ 5.32.1॥
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ 5.32.2॥ [साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।]
मैथिली चिन्तयामास विस्मयं परमं गता ।
अहो भीममिदं रूपं वानरस्य दुरासदम् ।
दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ॥ 5.32.3॥
विललाप भृशं सीता करुणं भयमोहिता ।
रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥ 5.32.4॥
ततः शाखान्तरे लीनमित्यादि श्लोकद्वयमेकान्वयम् । दृष्ट्वा पूर्वं सामान्यतो दृष्ट्वा भयाच्चलितमानसा सती विशेषतो ददर्श । वेष्टितार्जुनवस्त्रं वेष्टितधवलवस्त्रम् । तं पूर्वोक्तम् ॥ 5.32.14॥
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ 5.32.5॥
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् ।
मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ॥ 5.32.6॥
रुरोदेत्यर्द्धम् । मन्दं राक्षस्यः श्रुत्वा किमिदमिति विचारयिष्यन्तीति भयेनेति भावः ॥ 5.32.56॥
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ 5.32.7॥
सेति । वीक्षमाणा विचारयन्ती । ददर्श पुनरनुकूलो ऽयं स्यादिति ददर्शेत्यर्थः । भुग्नवक्त्रं वक्रमुखम् । यथोक्तकारम् आज्ञाकरम् ॥ 5.32.7॥
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।
चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ 5.32.8॥
सा तमिति । विसंज्ञा मूर्च्छिता । गतासुकल्पा मृतप्राया । इवशब्दो वाक्यालङ्कारे । चिरेण संज्ञां प्रतिलभ्य कालेनैव प्रबोधकेन प्रबुद्धवतीत्यर्थः । विकृतवानरवेषदर्शनेन मूर्च्छिता पुनः कालेन प्रबुद्धेत्यर्थः ॥ 5.32.8॥
स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ 5.32.9॥
स्वप्ने इति । स्वप्ने वानरदर्शनं बन्धुविनाशकरमिति भावः ॥ 5.32.9॥
स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ 5.32.10॥
एवं दर्शनस्य स्वप्नत्वं संभाव्य पुनर्याथार्थ्यमाह स्वप्नो ऽपीति । स्वप्नाभावे हेतुमाह नहि मे ऽस्ति निद्रेति । निद्राभावे हेतुः शोकेनेत्यादिः । एवं प्रतिबन्धकेन निद्राभावमुक्त्वा सुखरूपहेत्वभावाच्च न निद्रेत्याह सुखं हीति । इन्दुपूर्णप्रतिमाननेन पुर्णेन्दुप्रतिमाननेन ॥ 5.32.10॥
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ॥ 5.32.11॥
रामेति । सदैव बुद्ध्या विचिन्त्य तमेव राममेव वाचा ब्रुवती । तस्यानुरूपां विचिन्तितस्याभिवदनस्यानुरूपां कथां तथा श्रृणोमि । तमर्थं कथार्थमेवं प्रपश्यामि । एवम् उक्तप्रकारेण जानामीत्यन्वयः । तदर्थामिति पाठे अयमर्थः । तस्यानुरूपां रामकीर्तनस्यानुरूपाम् । तदर्थां स रामो ऽर्थो ऽभिधेयो यस्याः ताम् ॥ 5.32.11॥
अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।
विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ 5.32.12॥
उक्तमर्थं विवृणोति अहं हीति ॥ 5.32.12॥
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ 5.32.13॥
प्रथमम् इदं रामनामकथयितृदर्शनं मनोरथः अभिलाषमात्रमिति चिन्तयामि । तथापि तथा चिन्तायां सत्यामपि बुद्ध्या वितर्कयामि । मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं नास्ति । अयं वानरस्तु सुव्यक्तरूपश्च मां वदति च । तस्मान्मनोरथो न भवेदेवेत्यर्थः ॥ 5.32.13॥
नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ॥ 5.32.14॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ 5.32॥
अनेनोक्तं सत्यमस्त्विति देवताः प्रार्थयते नम इति । हुताशनाय च अग्नये च ॥ 5.32.14॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ 5.32॥