श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ 5.31.1॥
एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थं निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूचते ऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा “पाठ्ये गेये च मधुरम्” इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्सृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो जायते लोके, अत्र न तथा यत्र शब्दसंसर्गो जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञानमपि तद्द्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना स्वयं रसजलकम् । वैदेह्याः वैदेही निमित्तम् । कुलानुरोधेन देहे निस्स्पृहायाः देहमपि दत्त्वा रसावहत्वमुच्यते ॥ 5.31.1॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ॥ 5.31.2॥
राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।
चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥ 5.31.3॥
अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥ 5.31.4॥
राजेत्यादि । वितरणविक्रमादिजनितत्वेन कीर्तियशसोर्भेदो ऽवगन्तव्यः ॥ 5.31.24॥
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।
पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥ 5.31.5॥
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥ 5.31.6॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥ 5.31.7॥
पार्थिवव्यञ्जनैः राजलक्षणैः ॥ 5.31.57॥
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।
सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥ 5.31.8॥
तस्य पितुर्वचनाद्वनं प्रव्राजितः गतः । स्वार्थे णिच् ॥ 5.31.8॥
तेन तत्र महारण्ये मृगयां परिधावता ।
राक्षसा निहताः शूरा बहवः कामरूपिणः ॥ 5.31.9॥
मृगयां परिधावता मृगयामुद्दिश्य परिधावता । अनेन लीलया खरादिवधः सूच्यते ॥ 5.31.9॥
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।
ततस्त्वमर्षापहृता जानकी रावणेन तु ।
वञ्जयित्वा वने रामं मृगरूपेण मायया ॥ 5.31.10॥
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।
आससाद वने मित्रं सुग्रीवं नाम वानरम् । ॥ 5.31.11॥
ततः स वालिनं हत्वा रामः परपुरञ्जयः ।
प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ॥ 5.31.12॥
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ॥ 5.31.13॥
अहं संपातिवचनाच्छतयोजनमायतम् ।
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ॥ 5.31.14॥
जनस्थानवधं जनस्थानरक्षोवधम् । अमर्षेणापहृताः अमर्षपहृता । मृगरूपेण मृगसौन्दर्येण प्रशस्तमृगेण वा । “प्रशंसायां रूपप्” ॥ 5.31.1014॥
यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।
अश्रौषं राघवस्याहं सेयमासादिता मया ॥ 5.31.15॥
विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।
जानकी चापि तच्छृत्वा विस्मयं परमं गता ॥ 5.31.16॥
यथारूपां यादृशशरीराम् । यथावर्णां यादृशरूपाम् । यथालक्ष्मीं यादृशकान्तिम् । राघवस्य राघवात् ॥ 5.31.1516॥
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।
उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ॥ 5.31.17॥
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥ 5.31.18॥
तत इति । सुकेशी नीलसूक्ष्मकेशी, वक्रिम्णः पूर्वमुक्तत्वात् ॥ 5.31.1718॥
सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।
ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ 5.31.19॥
इत्यार्षे श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ॥ 5.31॥
सेति । पार्श्वम् आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा भूमिं भित्त्वा कश्चिन्नरः रामनामानि कीर्तयेत्तथा ऽन्यत्रापीत्यपिना संभावनोच्यते । शिंशुपावृक्षस्याधस्तात्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श । तद्वपुरवलोकनात्पूर्वं तस्य हृदयमेवं परिच्छिनत्ति स्म । इह लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतरमतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वरविशेषेणायं वानरः, तत्रापि न स्वतन्त्रः, किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्यो ऽयम्, तद्राज्यकार्यमेतद्धस्तगतमिति निश्चितवती । वातात्मजं रामप्राणहेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणनहेतुत्वेन वायुपुत्रो ऽयमित्यवगतवती । सूर्यमिवोदयस्थं रामदिवाकरस्योदयसूचकमुदयगिरिस्थमरुणमिव स्थितम् । सूरः सूर्यः । “सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः” इत्यमरः । “सूरसूतो ऽरुणो ऽनुरुः” इत्युक्तेस्सूरस्य सम्बन्धी सूर्यः । दिगादित्वाद्यत् । भवतापि सम्बन्धः विशेष एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते । “सूर्यो ऽरुणे च सूर्ये च” इति निघण्टुरस्तीत्याहुः । औचित्यादत्र सूर्यो ऽरुणः ॥ 5.31.19॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डाव्याख्याने एकत्रिंशः सर्गः ॥ 5.31॥