श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ 5.30.1॥
हनुमानपीत्यादि । विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च सर्वं सर्ववृत्तान्तम् । तर्जनं तर्जनवचनम् ॥ 5.30.1॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ 5.30.2॥
अवेक्षमाण इति । चिन्तां चिन्तयामास चिन्तां चकार ॥ 5.30.2॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ 5.30.3॥
यामिति, सर्ववानराभिलषितो ऽर्थो मयैकेन लब्ध इति विस्मितवान् ॥ 5.30.3॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ॥ 5.30.4॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ 5.30.5॥
इदं वक्ष्यमाणम् । तावत् कार्त्स्न्येन ॥ 5.30.4,5॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ॥ 5.30.6॥
समाश्वासयितुं युक्तं न्याय्यम् ॥ 5.30.6॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ॥ 5.30.7॥
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥ 5.30.8॥
अहमिति । आश्वासयामि “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ॥ 5.30.78॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ 5.30.9॥
दोषवत्त्वमुपपादयति गते हीति ॥ 5.30.9॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ 5.30.10॥
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।
कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥ 5.30.11॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ 5.30.12॥
समाश्वासयितुं न्याय्यः, सीतासन्देशकथनेनेति शेषः ॥ 5.30.1012॥
रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।
किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥ 5.30.13॥
सीतासन्देशरहितं मामितस्त्वरया गतम् ।
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ 5.30.14॥
सीता ऽब्रवीद्वच इत्यत्रेतिकरणं द्रष्टव्यम् ॥ 5.30.1314॥
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ 5.30.15॥
भर्त्तारं सुग्रीवम् । व्यर्थम् अनाश्वास्य गमने तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ 5.30.15॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ 5.30.16॥
राक्षसीनाम् अन्तरम् अवकाशं विच्छेदं वा, राक्षस्यासन्निधानसमयमित्यर्थः ॥ 5.30.16॥
अहं त्वति तनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् । 5.30.17 ॥
अहं त्विति । अतितनुः अतिसूक्ष्मतनुः । संस्कृतां प्रयोगसौष्ठवलक्षणसंस्कारयुक्ताम् ॥ 5.30.17॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ।
वानरस्य विशेषेण कथं स्यादभिभाषणम् ॥ 5.30.18॥
गीर्वाणभाषया व्यवहारे दोषमाह–यदीति ॥ 5.30.18॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ 5.30.19॥
अथ मानुषभाषया व्यवहर्तव्यत्वं निश्चिनोति– अवश्यमिति । अत्र वाक्यस्य मानुषत्वं कोसलदेशवर्तिमनुष्यसंबन्धित्वं विवक्षितम् । तादृग्वाक्यस्यैव देवीपरिचितत्वात् ॥ 5.30.19॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ॥ 5.30.20॥
एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य संप्रति तयापि भाषया ऽनेन वानररूपेण पुरः स्थित्वा ऽभिभाषणे दोषो ऽस्तीति विचारयति सेयमिति ॥ 5.30.20॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।
जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ 5.30.21॥
सीतया च कृते शब्दे सहसा राक्षसीगणः ।
नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ 5.30.22॥
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ 5.30.23॥
जानमाना जानाना । मुमागम आर्षः ॥ 5.30.2123॥
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥ 5.30.24॥
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ 5.30.25॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ 5.30.26॥
प्रशाखाः उपशाखाः । विपरिधावर्तं, मामिति शेषः ॥ 5.30.2426॥
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।
आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ॥ 5.30.27॥
उद्विग्नकारिणः उद्वेगकारिणः । 5.30.27 ॥
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।
शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ॥ 5.30.28॥
तैः परितः संरुद्धः अत एव रक्षसां बलं विधमन् प्रहरन् अहं महोदधेः परं पारं प्राप्तुं न शक्नुयामित्यन्वयः ॥ 5.30.28॥
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ 5.30.29॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥ 5.30.30॥
अगृहीतार्था अविदितरामसन्देशार्था ॥ 5.30.2930॥
उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।
सागरेण परिक्षिप्ते गुप्त वसति जानकी ॥ 5.30.31॥
उद्देश इति । उद्देश प्रदेशे । नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसति इत्यन्वयः ॥ 5.30.31॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ॥ 5.30.32॥
विशस्ते वेति । सहाय एव साहाय्यः तम् । कार्यसाधने
सीतादर्शननिवेदनलक्षणकार्यसाधने ॥ 5.30.32॥
विमृशंश्च न पश्यामि यो हते मयि वानरः ।
शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ॥ 5.30.33॥
कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।
नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ॥ 5.30.34॥
विमृशन्निति । यो लङ्घयेत तं न पश्यामीत्यन्वयः ॥ 5.30.3334॥
असत्यानि च युद्धानि संशयो मे न रोचते ।
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ 5.30.35॥
असत्यानि अनिश्चितजयापजयानि । क्लेशस्तु भूयानिति भावः । ततो नैतन्मम मतमित्याह संशय इति । संशयः संशयितार्थः । स च सङ्ग्रामः । अथापि तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं चेत्याशयोनाह कश्चेति । प्राज्ञः कः ससंशयं कार्यं निस्संशयं निर्विचारम् कुर्यात्? ॥ 5.30.35॥
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ॥ 5.30.36॥
अनभिभाषणे रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतीसंत्रासाक्रोशतन्निमित्तराक्षसागमनादिः । सीताभिभाषणे वानररूपेण पुरः स्थित्वा ऽभिभाषणे ॥ 5.30.36॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ 5.30.37॥
भूताश्चार्थाः निष्पन्नार्थाः । विक्लवम् अविवेकिनम् दूतमासाद्य देशकालविरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति तथा विनश्यन्तीति सम्बन्धः ॥ 5.30.37॥
अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ 5.30.38॥
अत्र विक्लवं दूतमासाद्येत्यनुषज्यते । अर्थानर्थान्तरे कार्याकार्यविषये । निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः विक्लवं दूतमासाद्य न शोभते । अकिंचित्करा भवतीत्यर्थः । एतदेवोपपादयति घातयन्तीति ॥ 5.30.38॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ 5.30.39॥
प्रागुक्ता दूतदोषाः स्वस्मिन्यथा न स्युस्तथा कर्तव्यमित्याह न विनश्येदिति । कार्यं स्वामिकार्यम् । कथं केन प्रकारेण न विनश्येत् । वैक्लव्यं बुद्धिहीनता मम कथं न भवेत् । समुद्रलङ्घनं कथं न वृथा भवेत्, तथा कर्तव्यमिति शेषः ॥ 5.30.39॥
कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ॥ 5.30.40॥
कथमिति । अत्र सीतेत्यध्याहार्यम् । हनुमान् मे वाक्यं सीता कथं केन प्रकारेण श्रृणुयात्कथं नोद्विजेतेति विचार्य मतिमान् प्रशस्तमतिः । मतिं तत्कालोचितकर्तव्यविषयाम् । चकार निष्पादयामास ॥ 5.30.40॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ॥ 5.30.41॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ 5.30.42॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ 5.30.43॥
राममिति । स्वबन्धुं राममनुकीर्तयन् “लक्षणहेत्वोः–” इति हेत्वर्थे शतृप्रत्ययः । नैनामुद्वेजयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेण रामस्य कीर्तनेनैवानुद्विग्नां करिष्यामीत्यर्थः । तद्बन्धुगतमानसां स चासौ बन्धुश्च तद्बन्धुः रामः तद्गतमानसाम् ॥ 5.30.4143॥
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ 5.30.44॥
इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः ॥ 5.30॥
इतीति । जगतिपतेः इति दीर्घाभाव आर्षः । जगादेति वक्ष्यमाणसर्गार्थसंग्रहः ॥ 5.30.44॥
इति श्रगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः ॥ 5.30॥