श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनत्रिंशः सर्गः
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ 5.29.1॥
तथागतामित्यादि । तथागतां “रहस्यं च प्रकाशं च” इत्युक्तरीत्या सर्वं यथावत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्थमिति परिच्छिद्य वक्तुमशक्यदुःखाम् । तां धर्मिस्वरूपातिरिक्तयत्किंचिदतिशयरहिताम् । व्यथिताम् । “आशंसायां भूतवच्च” इति निष्ठा । तथा च पूर्वोक्तं सर्वं धर्मिस्वरूपमात्रम् । इतः परमेव व्यसनानि भविष्यन्तीति मन्यमानाम् । “समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।” इत्युक्तं भोगजातं सर्वमकिंचित्करमासीत्, दुःखमेव निरूपकमासीत् । अनिन्दितां रामविरहे यथा स्थातव्यं तथा स्थिताम् । एवमनवस्थाने निन्दितैव भवति । व्यपेतहर्षां हर्षः पूर्वमस्यामुषित्वा गत इति न ज्ञातामित्यर्थः । व्यपाभ्यामुपसर्गाभ्यां तथा प्रतीयते । परिदीनमानसां हर्षे समागतेष्याश्रयरहिताम् । परीत्यनेन तथा ऽवगम्यते । शुभां गुणाधिकविषयविरहकृतविकृतित्वेन तद्दशाया एव नीराजना कर्तव्येत्येवं स्थिताम् । निमित्तानि शुभानि भेजिरे । निमित्तानि तद्विषये शुभानि सूचयित्वा स्वसत्तां लेभिरे । नरं श्रिया जुष्टमिवोपजीविनः । अर्थिनो हि लक्ष्मीकटाक्षवद्विषये किंचित्कृत्य स्वप्रयोजनं लभन्ते, इमानि तु साक्षाल्लक्ष्मीविषये किंचित्कृत्य निमित्तस्वामित्वं लेभिर इत्यर्थः ॥ 5.29.1॥
तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् ॥ 5.29.2॥
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः ।
अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ 5.29.3॥
शुभनिमित्तान्येवाह तस्या इत्यादिना । अरालं वक्त्रम् । कृष्णविशालशुक्लं मध्ये कनीनिकायां कृष्णं सर्वतो विशालं शुभ्रं च । अभिताम्रम् अभितस्ताम्रम्, प्रान्तरक्तमित्यर्थः । “प्रान्तरक्ते च नेत्रे” इति पद्मिनी लक्षणात् ॥ 2.29.23॥
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।
प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥ 5.29.4॥
गजेन्द्रेति । तयोः सुलक्षणवत्तया प्रसिद्धयोः । उरुः वाम इत्यनुषज्यते । सुजातः सुन्दरः ॥ 5.29.4॥
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।
वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः ॥ 5.29.5॥
शुभमिति । शिखराग्रदत्याः वृत्ताग्रदन्तयुक्तायाः । “शिखंरं निस्तुलं वृत्तम्” इत्यत्पुलमाला । “शिखरं दाडिमफलबीजम्” इत्यन्ये नैघण्टुकाः । यद्वा शिखराकाराग्रदन्तायाः “अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च” इति दन्तस्य दत्रादेशः । वासः वस्त्रम् । परिस्रंसत पर्यस्रंसत । अडभाव आर्षः । ऊरुकम्पादिति भावः । स्थितायाः तिष्ठन्त्या इति वस्त्रस्रंसनानुगुणावस्थोक्तिः । यद्वा वासस्स्रंसनं कान्तागमनसूचकमिति भावः । शिखरदन्तत्वे सामुद्रिकम् “स्निग्धास्समानुरूपाः सुपङ्क्तयः शिखरिणः श्लक्ष्णाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् ॥” इति, “यासां शिखरिणो दन्ता दीर्घं जीवन्ति ताः स्त्रियः” इति च॥ 5.29.5 ॥
एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः ।
वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥ 5.29.6॥
अपरैः पूर्वोक्तशकुनैः । सम्बोधिता सद्यः कान्तागमवार्ता भविष्यतीति बोधिता । वातातपक्लान्तं सम्यग्वातातपसंशोषितम् । प्रनष्टं भूमावदर्शनं गतम् । यद्वा प्रनष्टं प्रकर्षेण कृशीभूतम् । बीजं वर्षेणैव प्रतिसंजहर्ष । बीजस्य प्रहर्षो नाम अङ्कुरादिभावेन स्थूलीभूय बहिर्निर्गमः ॥ 5.29.6॥
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म ।
वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ 5.29.7॥
स्वक्षिभ्रुशोभनाक्षिश्रूयुक्तम् । केशाः अन्ते यस्य तत् केशान्तम् । उपरिभागप्रकीर्णालकमित्यर्थः । सितशुक्लदंष्ट्रम् अत्यन्तशुक्लदन्तम् । एकार्थे शब्दद्वयप्रयोगो ऽतिशयज्ञापनाय । यथा मुग्धमनोज्ञ इति । नीरन्ध्रत्वेन संसक्तशुक्लदंष्ट्रमिति वा ऽर्थः । “षिञ् बन्धने” इत्यस्माद्धातोर्निष्ठा ॥ 5.29.7॥
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥ 5.29.8॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ 5.29॥
सेति । व्यपनीततन्द्री निरस्तजाड्या । हर्षविवृद्धसत्त्वा हर्षविकसितचित्ता । शुक्ले शुक्लपक्षे ॥ 5.29.8॥
इति गोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ 5.29॥