०२४ सीता-राक्षसीसंवादः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः

ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।

परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥ 5.24.1॥

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।

महार्हशयनोपेते न वासमनुमन्यसे ॥ 5.24.2॥

तत इत्यादि ॥ 5.24.12॥

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ।

प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ 5.24.3॥

त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् ।

भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ॥ 5.24.4॥

मानुषी मानुषं तं तु राममिच्छसि शोभने ।

राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्वमनिन्दिते ॥ 5.24.5॥

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।

नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 5.24.6॥

मानुषीति । न त्वं जातु भविष्यसि, तस्येति शेषः । मानुषीति हेतुगर्भम् । मानुषी त्वं मानुषं तमिच्छसि ॥ 5.24.36॥

यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः ।

नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ॥ 5.24.7॥

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।

कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ 5.24.8॥

किस्पिषं पापावहम् ॥ 5.24.78॥

दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।

तं नित्यमनुरक्ता ऽस्मि यथा सूर्यं सुवर्चला ॥ 5.24.9॥

यथा शची महाभागा शक्रं समुपतिष्ठति ।

अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥ 5.24.10॥

लोपामुद्रा यथा ऽगस्त्यं सुकन्या च्यवनं चथा ।

सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥ 5.24.11॥

सौदासं मदयन्तीव केशिनी सगरं यथा ।

नैषधं दमयन्तीव भैमी पतिमनुव्रता ।

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ 5.24.12॥

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः ।

भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ 5.24.13॥

सुवर्चलेत्यादिबहुदृष्टान्तप्रदर्शनं स्वस्याः पातिव्रत्यदार्ढ्यद्योतनाय ॥ 5.24.913॥

अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे ।

सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः ॥ 5.24.14॥

अवलीनः छन्नः । राक्षसीरश्रृणोत् राक्षसीवाक्यान्यश्रृणोदित्यर्थः ॥ 5.24.14॥

तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः ।

भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ॥ 5.24.15॥

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।

नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ 5.24.16॥

नेयमर्हतीत्यत्रेतिकरणं बोध्यम् । अस्य ऊचुरुत्यनेन सम्बन्धः ॥ 5.24.1516॥

संभर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।

सा बाष्पमुपामार्जन्ती शिंशुपां तामुपागमत् ॥ 5.24.17॥

ततस्तां शिंशुपां सीता राक्षसीभिः समावृता ।

अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ 5.24.18॥

तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।

भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः ॥ 5.24.19॥

सा भर्त्स्यमानेति पाठे भर्त्सनोपगमनरूपक्रियाभेदात् तच्छब्दद्वयम् । तां

हनुमदधिष्ठितां शिंशुपाम् ॥ 5.24.1719॥

ततस्तां विनता नाम राक्षसी भीमदर्शना ।

अब्रवीत् कुपिताकारा कराला निर्णतोदरी ॥ 5.24.20॥

ततस्तां विनता नामेति । निर्णतोदरी उन्नतोदरी ॥ 5.24.20॥

सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः ।

सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ 5.24.21॥

अतिकृतम् अतिमात्रकृतम् ॥ 5.24.21॥

परितुष्टा ऽस्मि भद्रं ते मानुषस्ते कृतो विधिः ।

ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥ 5.24.22॥

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।

विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ 5.24.23॥

दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ 5.24.24॥

मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ 5.24.25॥

अद्यप्रभृति सर्वेषां लोकानामीश्वरीभव ।

अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ॥ 5.24.26॥

किं ते रामेण वैदेहि कृपणेन गतायुषा ।

एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।

अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ 5.24.27॥

अन्या तु विकटा नाम लम्बमानपयोधरा ।

अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥ 5.24.28॥

मानुषो विधिः कृतः, मनुष्यजात्युचितपातिव्रत्यप्रकटनं कृतम् एतावत्कालमित्यर्थः ॥ 5.24.2228॥

बहून्यप्रियरूपाणि वचनानि सुदुर्मते ।

अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥ 5.24.29॥

सोढानि, रावणेनेति शेषः ॥ 5.24.29॥

न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ॥ 5.24.30॥

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।

रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥ 5.24.31॥

रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम् ।

न त्वां शक्तः परित्रातुमपि साक्षात् पुरन्दरः ॥ 5.24.32॥

कुरुष्व हितवादिन्या वचनं मम मैथिलि ।

अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ॥ 5.24.33॥

न चेति । कालपुरस्सरं कालानुरूपम् ॥ 5.24.3033॥

भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।

सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ 5.24.34॥

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।

यावन्न ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ॥ 5.24.35॥

उद्यानानि च रम्याणि पर्वतोपवनानि च ।

सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ 5.24.36॥

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।

रावण भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ 5.24.37॥

प्रीतिं रावणविषयप्रीतिम् । प्रहर्षं कालकृतमनोविकासम् ॥ 5.24.3437॥

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।

यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ॥ 5.24.38॥

ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्च्छिता ।

भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ॥ 5.24.39॥

उत्पाट्य वा उत्पाट्यैव ॥ 5.24.3839॥

इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम् ।

रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ॥ 5.24.40॥

दौर्हृदः इच्छा ॥ 5.24.40॥

यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।

अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ॥ 5.24.41॥

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।

कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ॥ 5.24.42॥

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।

नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ॥ 5.24.43॥

कुक्षिदक्षिणभागस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । “स्नायुस्स्त्रियां कालखण्डयकृती तु समे इमे” इत्यमरः । प्लीहा तु गुल्माख्यो वामभागस्थो मांसपिण्डविशेषः । नकारान्तस्य प्लीहन् शब्दस्य अकारान्तत्वमार्षम् । “अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंसि”इत्यमरः । उत्पीडं तस्योपरि स्थितं मांसम् । हृदयम् पद्मकोशप्रतीकाशं मांसम् । बन्धनं तस्य धारणमधोमांसम् । उत्क्रोडमिति पाठे उत्क्रोडो हृदयस्य स्थानम् । अन्त्रं पुरीतत् ॥ 5.24.4143॥

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।

विशस्येमां ततः सर्वाः समान् कुरुत पीलुकान् ॥ 5.24.44॥

ततस्त्वजामुखी नामेत्यादि । पीलुकान् मांसखण्डान् ॥ 5.24.44॥

विभजाम ततः सर्वा विवादो मे न रोचते ।

पोयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ॥ 5.24.45॥

ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।

अजामुख्या यदुक्तं हि तदेव मम रोचते ॥ 5.24.46॥

पेयं लेह्यं चास्यां उपदंशत्वेनोच्यते ॥ 5.24.4546॥

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।

मानुषं मांसमास्वाद्य नृत्यामो ऽथं निकुम्भिलाम् ॥ 5.24.47॥

निकुम्भिला नाम लङ्कायाः पश्चिमद्वारप्रदेशवासिनी भद्रकाली ॥ 5.24.47॥

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा ।

राक्षसीभिः सुघोराभिर्घैर्यमुत्सृज्य रोदिति ॥ 5.24.48॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः ॥ 5.24॥

एवमिति । रोदिति अरुदत् ॥ 5.24.48॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ 5.24॥