श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोविंशः सर्गः
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।
संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ 5.23.1॥
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ 5.23.2॥
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः ।
परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥ 5.23.3॥
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।
दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ 5.23.5॥
इत्युक्त्वेत्यादि ॥ 5.23.15॥
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ 5.23.6॥
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ 5.23.7॥
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ 5.23.8॥
मयोक्तं चारुसर्वाङ्गि वाक्यं किन्नानुमन्यसे ।
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।
विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा ॥ 5.23.9॥
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः ।
भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत् ॥ 5.23.10॥
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः ।
बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे ॥ 5.23.12॥
प्रजापतीनामिति । “मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः” इति षट् प्रजापतयः । तेषां चतुर्थः पुलस्त्य ॥ 5.23.612॥
प्रियां बहुमतां भर्यां त्यक्त्वा राजा महाबलः ।
सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ 5.23.13॥
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ 5.23.14॥
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ 5.23.15॥
असकृद्देवता युद्धे नागगन्धर्वदानवाः ।
निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ 5.23.16॥
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः ।
किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसे ऽधमे ।
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ॥ 5.23.17॥
प्रियामिति । सर्वासां प्रियां बहुमताम् महाभागां च भार्यां मन्दोदरीं त्यक्त्वा त्वामुपैष्यति ॥ 5.23.1317॥
यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।
न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ 5.23.18॥
यस्य यस्मात् । तस्य न तिष्ठसि तस्मै न तिष्ठसे । प्रकाशनार्थेप्यार्षत्वात्परस्मैपदं षष्ठी च ॥ 5.23.18॥
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।
शैलाश्च सुभ्रूः पानीयं जलदाश्च यदेच्छति ॥ 5.23.19॥
तस्य नैर्ऋतराजस्य राजराजस्य भामिनि ।
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ 5.23.20॥
पुष्पवृष्टिमित्यादि । शैलाश्च पानीयं रावणः यदेच्छति तदा मुञ्चन्तीति विपरिणम्यते ॥ 5.23.1920॥
साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ 5.23.21॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ 5.23॥
साधु ते कथितम् साधु गृहाणेति साधुशब्दद्वयस्य निर्वाहः ॥ 5.23.21॥
इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ 5.23॥