०२१ सीतायाः कटूत्तरम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।

आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥ 5.21.1॥

तस्येत्यादि ॥ 5.21.1॥

दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।

चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ॥ 5.21.2॥

निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।

न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ॥ 5.21.3॥

दुःखार्तेत्यादि । तृणमिति । रावणस्य साक्षात्संभाषणानर्हत्वात्तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषकथनार्थम् । दुःखार्ताया अपि शुचिस्मितत्वाभिधानं वस्तुस्वभावेन सस्मितवत् प्रतीयमानत्वात् ॥ 5.21.23॥

अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।

कुलं संप्राप्तया पुण्यं कुले महति जातया ॥ 5.21.4॥

अकार्यमिति । एकः पतिर्यस्यास्सा एकपत्नी तया । “नित्यं सपत्न्यादिषु” इति ङीप् ॥ 5.21.4॥

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।

राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ 5.21.5॥

एवमिति । पृष्ठतः कृत्वा अनादृत्येर्थः ॥ 5.21.5॥

नाहमौपयिकी भार्या परभार्या सती तव ।

साधुधर्मवेक्षस्व साधु साधुव्रतं चर ॥ 5.21.6॥

नाहमिति । सती अहं तव औपयिकी युक्ता भार्या न किन्तु परिहार्या । साधूनां सतां धर्मं साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । साधु सम्यक् चर ॥ 5.21.6॥

यथा तव तथा ऽन्येषां दारा रक्ष्या निशाचर ।

आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । 4.21.7 ॥

आत्मानमुपमां कृत्वा यथा तव दारा रक्ष्यास्तथा ऽन्येषां दारा रक्ष्याः । तस्मात् स्वेषु दारेषु रम्यताम् ॥ 5.21.7॥

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रितम् ।

नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ 5.21.8॥

अतुष्टम् अतृप्तम् । निकृतिप्रज्ञम् निकृतौ शाठ्ये प्रज्ञा यस्य तम् । पराभवम् । आयुरैश्वर्यादिक्षयरूपम् ॥ 5.21.8॥

इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।

तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥ 5.21.9॥

इह अतिविशाले ऽपि दुर्जनसङ्कुले देशे । सन्तः त्वामनर्थान्निवारयन्तः । न सन्ति वा न सन्ति किम्? सन्त्येव । श्रीविभीषणप्रभृतीनां सम्भवान्न सन्तीति कथं वक्तुं शक्यम्? सतो वा नानुवर्तसे । “तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥” इत्युक्तरीत्या प्रणिपातमन्तरेण न ते उपदिशन्ति। त्वं च तत्पादेषु कदाचिदपि न प्रणतवानसि। कथमिदं भवती जानातीत्याशङ्क्याह तथाहीति। तथाहि विपरीता ते बुद्धिः तव बुद्धिवैपरीत्यमेव तव शिष्टाननुवर्तनं सूचयतीत्यर्थः। परबुद्धेरप्रत्यक्षत्वात् कथं मदीया बुद्धिस्त्वया ज्ञायत इत्यत्राह आचारवर्जितेति। आचारवर्जिता, तव दुरनुष्ठानमेव तव बुद्धिं द्योतयतीति भावः॥ 5.21.9 ॥

वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।

राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ॥ 5.21.10॥

अकृतात्मानमासाद्य राजानमनये रतम् ।

समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ 5.21.11॥

तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला ।

अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ 5.21.12॥

वच इति । पूर्वश्लोके रावणस्याभाव उपन्यस्तः । अनेन राक्षसाभावपक्ष उपन्यस्यते । मिथ्याप्रणीतात्मा मिथ्यास्निग्धात्मा, स्नेहीति भावयन्निवेति यावत् । त्वं विचक्षणैः साधुभिरुक्तं पथ्यं हितं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा । राक्षसेषु स्नेहं भावयन् तद्विनाशमेव हृदि कृत्वा साधुवचनं न श्रृणोषीत्यर्थः ॥ 5.21.1012॥

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।

अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ 5.21.13॥

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।

दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ 5.21.14॥

रावणादीर्घदार्शिन इत्यत्र रावणेति संबुद्धिः । निकृताः त्वया वञ्चिताः ॥ 4.21.1314॥

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।

अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ 5.21.15॥

शक्येति । अनेन रावणोक्तप्रलोभनानामुत्तरमुच्यते । ऐश्वर्येण अन्तःपुरस्त्रीणामीश्वरत्वेन । धनेन आभरणादिना वा । लोभयितुं वञ्चयितुम् । अहं न शक्या । अत्र हेतुमाह अनन्येति । अहं नित्यानपायिनी । राघवेण रघुकुलावतीर्णेन विष्णुना अनन्या अविभक्ता । यत्र यत्र कुले विष्णुरवतरति तत्र तत्रावतीर्णा लक्ष्मीरित्यर्थः । तृतीयया तत्परतन्त्रा चास्मीति द्योत्यते । न केवलं तस्य परतन्त्रा ऽहम्, प्रत्युत तस्याप्यतिशयावहेति दृष्टान्तेन द्योतयति भास्करणेति । प्रभा हि भास्करस्याप्यतिशयमावहति, तथैव हि मारीचो भवन्तं प्रति निवेदितवान् “अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इति । किं तद्धितवचनमपि मोहेन विस्मृतो ऽसीति तत्त्वमाह ॥ 5.21.15॥

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।

कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ 5.21.16॥

उपधायेति । लोकनाथस्य सर्वैर्ब्रह्मादिदेवगणैः स्वस्वपदप्राप्तये नाथ्यमानस्य याच्यमानस्य । “नाथृ याञ्चायाम्”इति धातुः । तस्य रामस्य । सत्कृतं भुजं दक्षिणं भुजमित्यर्थः उपधाय उपधानीकृत्य । तेन तत्परिष्वक्तत्वं गम्यते । एवं श्लाघिता ऽहम् अन्यस्य ततो भोगं याचमानस्य कस्यचिदनामदेयस्य क्षुद्रस्य त्वादृशः भुजम् असत्कृतं कथं नामोपधास्यामि? न कथंचिदपीत्यर्थः ॥ 5.21.16॥

अहमौपयिकी भार्या तस्यैव वसुधापतेः ।

व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः ॥ 5.21.17॥

अहं तु शीलवयोवृत्ता तस्यैव तुल्यशीलवयोवृत्तस्य वसुधापतेः औपयिकी उचिता भार्या । “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”इति भूमिनाथस्याहं लक्ष्मीदेव्युचितेति हृदयम् । कथमिव? व्रतस्नातस्य वेदव्रतैः स्नातस्य । धीरस्य धीमतः ब्राह्मणस्य । विदितात्मनः आत्मज्ञानवतः विद्येव योगाभ्यासरूपविद्येव ॥ 5.21.17॥

साधु रावण रामेण मां समानय दुःखिताम् ।

वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥ 5.21.18॥

पथिचोरं पानीययाचकवद्रावणमर्थयते साध्विति । साधु रावण मद्वियोगेन त्वत्क्रौर्यमधिकं जातमिति भावः । एवमुत्कटक्रौर्यं प्रति याचनात् स्वस्यातिशयो व्यज्यते । रामेण सर्वाङ्गसुन्दरेण । मां तस्यानन्यार्हाम्, तद्वियोगे जीवितं धारयितुमशक्ताम् “नच सीता” इत्यादि । समानय सङ्गमय । तत्र हेतुः दुःखितामिति । करेण्वागजवध्वा । वाशितया यौवनं गतया । “वाशिता युवतिः प्रोक्ता कलभः करिपोतकः” इति वचनात् । यद्वा वासितयेति पाठः । वने वासितया बद्धया । अत्र विभक्तिव्यत्यासः कार्यः, वने वासितां करेणुं गजाधिपेनेवेति । वस्तुतस्तु यथान्यास एवान्वेति । रामेण सङ्गमनं नाम रामाह्वानम् । नहि पुनरपि रामस्थानं तेन नेतुमीष्टे. किंत्वित्र राममाहूय समर्पणमेव । अत एव करेण्वा गजाधिपमित्युक्तम् ॥ 4.21.18॥

मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।

वधं चानिच्छता घोरं त्वया ऽसौ पुरुषर्षभः ।

विदितः स हि धर्मज्ञः शरणागतवत्सलः ॥ 5.21.19॥

तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।

प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ 5.21.20॥

मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ 5.21.21॥

एवं रावणे जननीत्वप्रतिपत्तिं विहाय कानिचिदसङ्गतानि जल्पति, देवी खिन्ना सती को ऽयमस्य स्वभावः कथमस्य को ऽप्युपदेष्टा सेत्स्यतीति इह सन्तो न वा सन्तीत्यादिना विचिन्त्य दयावती स्वयमेवोपदिशति मातृत्वप्रयुक्तवात्सल्येन– मित्रमिति । रामं शरणं गच्छेत्युक्ते तन्न रावणस्सहेत दुर्मानितया, आत्मसद्बुद्ध्यनुसारेण मित्रमित्याह । किंच शरणागतं स्वस्याधीनं मन्यते देवी देवश्च । अत एव रामो वक्ष्यति “मित्रभावेन संप्राप्तं न त्यजेयं कथंचन” इति । इयं च तथा ऽ ऽह मित्रमिति । रामः मित्रं कर्तुं युक्तमित्यर्थः । मित्रशब्दापेक्षया औपयिकमिति नपुंसकनिर्देशः । स्थानं परीप्सता मार्गचोरस्यापि भूमौ पदानि स्थापयित्वा चौर्यं कर्तव्यम् । तवापि यदि स्थानमभीप्सितं तर्हि तमेव भजेत्यर्थः । शरणागतिदैन्यादपि । मरणमेव वरमिति यदि मन्यसे तदानीं तद्भजनं कर्तव्यमित्याह वधं चानिच्छता घोरम् । तव सम्यङ् मरणं न दास्यति त्वां संस्थाप्य त्वत्समक्षं त्वत्सन्तानजान् हिंसित्वा ततस्ते चित्रवधं करिष्यति, तं यदि नेच्छसि तदा प्रपत्तव्य इत्यर्थः । त्वया तत्प्रतीकारावलोकनेन त्वया ऽवश्यं तच्छरणागतिः कर्तव्या । एवं स रक्षक इत्यत्र किं प्रमाणम्? तत्राह असौ निरन्तरप्रत्ययेनास्या रामः प्रत्यक्ष इव भासते । रावणस्यापि मायामृगानुसरणसमये तदाकारदर्शनजभयेन वृक्षेवृक्षे च पश्यामि’ इत्युक्तरीत्या पुरःस्थित इव भासते । पुरषर्षभः मत्कृतापराधेन कथं मामङ्गीकरिष्यतीत्येवं त्वया न चिन्तनीयम्, आनुकूल्यलेशे सति सर्वमपराधं विस्मरिष्यति पुरुषधौरेयत्वात् । मित्रकरणप्रकारमाह प्रसादयस्वेति । त्वं चेत्यनेनाहमपि प्रसादयिष्यामीति सिद्धम् । प्रयतो भूत्वा मनःकालुष्यं त्यक्त्वेत्यर्थः । निर्यातयितुं प्रत्यर्पयितुम् ॥ 5.21.1921॥

एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे ।

अन्यथा त्वं हि कुर्वाणो वधं प्राप्यसि रावण ॥ 5.21.22॥

एवमिति । सम्प्रदाय, स्थितायेति शेषः ॥ 5.21.22॥

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ।

त्वद्विधं तु न संक्रुद्धौ लोकनाथः स राघवः ॥ 5.21.23॥

उत्सृष्टम् इन्द्रमुक्तं वज्रम्, अन्तकश्च त्वद्विधं वर्जयेत् । राघवस्त्वद्विधं न वर्जयेदिति सम्बन्धः ॥ 5.21.23॥

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।

शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ 5.21.24॥

महास्वनं महानादम्, नादो नाम स्वरावयवविशेषः । ॥ 5.21.24॥

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।

इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥ 5.21.25॥

रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः ॥ 5.21.25॥

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।

असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ 5.21.26॥

असम्पातम् अनवकाशम् ॥ 5.21.26॥

राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् ।

उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ 5.21.27॥

राक्षसेन्द्रमहासर्पानिति रूपकोक्तमेवोपमयाप्याह वैनतेय इति ॥ 5.21.27॥

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।

असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ 5.21.28॥

न चापि मम हस्तात्त्वां प्राप्तुमर्हतीत्युक्तस्योत्तरमाह अपनेष्यतीति ॥ 5.21.28॥

जनस्थाने हतस्थाने निहते रक्षसां बले ।

अश्क्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ 5.21.29॥

जनस्थान इति । एतत् युद्धं विना चौर्येणापहरणम् ॥ 5.21.29॥

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।

गोचरं गतयोर्भ्रात्रोरपनीता त्वया ऽधम ॥ 5.21.30॥

नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।

शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥ 5.21.31॥

गोचरं गतयोः बाह्यदेशं गतयोः ॥ 5.21.3031॥

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।

वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ 5.21.32॥

तस्य ते असमर्थतया चोरवृत्तेस्तव ताभ्यां रामलक्ष्मणाभ्यां विग्रहे सति युद्धे सति । युगग्रहणं संयुगे जयग्रहणम् । अस्थिरम् असम्भावितम् । यद्वा युगग्रहणं युद्धारम्भः । अस्थिरम् अध्रुवम् । किंतु ताभ्यां प्रसह्य वधस्ते सिद्ध इति दृष्टान्तेनाह वृत्रस्येवेति । वृत्रस्य एकस्य बाहोर्द्वाभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव जय इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाह्वोरिव एकेन त्वया तयोर्द्वयोर्जयो न शक्य इत्यर्थः ॥ 5.21.32॥

क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।

तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ 5.21.33॥

सः नाथ इति पदच्छेदः ॥ 5.21.33॥

गिरिं कुबेरस्य गतो ऽपधाय वा सभां गतो वा वरुणस्य राज्ञः ।

असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतो ऽशनेरिव ॥ 5.21.34॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः ॥ 5.21॥

गिरिमिति । अपधाय अपक्रम्य । कुबेरस्य गिरिं कैलासम् । “कैलासः स्थानमलका” इत्यमरः ॥ 5.21.34॥

इति श्रीगौविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकविंशः सर्गः ॥ 5.21॥