श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः
स तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् ।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ 5.20.1॥
स तामित्यादि । साकारैः सेङ्गितैः । “आकाराविङ्गिताकृती ” इत्यमरः । न्यदर्शयत, स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ॥ 5.20.1॥
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ।
अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ 5.20.2॥
अदर्शनं अदृश्यत्वम् ॥ 5.20.2॥
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये ।
सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ 5.20.3॥
मां दृष्ट्वा भीतिर्न कर्तव्येत्याह कामय इति ॥ 5.20.3॥
नेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः ।
व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ 5.20.4॥
अन्ये च भयहेतवो ऽत्र न सन्तीत्याह– नेहेति ॥ 5.20.4॥
स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः ।
गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ 5.20.5॥
एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि ।
काम कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ 5.20.6॥
परदारेच्छादोष इत्याशङ्क्याह स्वधर्म इति । संप्रमथ्य बलात्कृत्य । कामम् अत्यन्तम् । यथाकामं यथेच्छम् ॥ 5.20.56॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ।
प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ 5.20.7॥
देवीति । प्रणयस्व स्नेहं कुरु ॥ 5.20.7॥
एकवेणी धराशय्या ध्यानं मलिनमम्बरम् ।
अस्थाने ऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ 5.20.8॥
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च ।
विविधानि च वासांसि दिव्यान्याभरणानि च ॥ 5.20.9॥
महार्हाणि च पानानि शयनान्यासनानि च ।
गीतं नृत्त च वाद्यं च लभ मां प्राप्य मैथिलि ॥ 5.20.10।
एकवेणीति । एकवेणी असीमन्तितवेणी । धराशश्या भूशयनम् । औपयिकानि युक्तानि । ” युक्तमौपयिकम्” इत्यमरः ॥ 5.20.810॥
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।
मां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ 5.20.11॥
इदं ते चारु संजातं यौवनं व्यतिवर्तते ।
यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ 5.20.12॥
स्त्रीरत्नमिति । मां प्राप्य हीति । हिः पादपूरणे अप्योर्थो वा । हे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ॥ 5.20.1112॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् ।
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ 5.20.13॥
उपरतः निवृत्तः । अत्र इतिकरणं द्रष्टव्यम् । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतःपरं सातिशयं रूपं स्रष्टुं न शक्यत इति धिया सृष्टेरुपरत इति मन्य इत्यर्थः ॥ 5.20.13॥
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।
कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ 5.20.14॥
यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने ।
तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते ॥ 5.20.15॥
भव मैथिलि भार्या मे मोहमेनं विसर्जय ।
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 5.20.16॥
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै ।
तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ 5.20.17॥
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ।
जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ 5.20.18॥
नेह पश्यामि लोके ऽन्यं यो मे प्रतिबलो भवेत् ।
पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ 5.20.19॥
त्वामिति । कः अतिवर्तेत? न को ऽपीत्यर्थः ॥ 5.20.1419॥
असकृत् संयुगे भग्ना मया विमृदितध्वजाः ।
अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ 5.20.20॥
असकृदिति । विमृदितध्वजाः भग्नव्यजाः । प्रत्यनीकेषु शत्रुषु मध्ये ॥ 5.20.20॥
इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ 5.20.21॥
सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ।
साधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा ॥ 5.20.22॥
इच्छयेति । प्रतिकर्म अलङ्कारः । “प्रतिकर्म प्रसाधनम्” इत्यमरः । अवसज्यन्ताम् अर्प्यन्ताम् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयम् ॥ 5.20.2122॥
प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ।
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ॥ 5.20.23॥
प्रतिकर्मेति । दाक्षिण्येन सरलत्वेन । भुङ्क्ष्व अनुभव । “दक्षिणे सरलोदारौ”इत्यमरः ॥ 5.20.23॥
यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ।
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ।
मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ 5.20.24॥
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ 5.20.25॥
यथेष्टमिति । ललस्व प्रीतिं कुरु । “लल ईप्सायाम्” इति धातुः ॥ 5.20.2425॥
किं करिष्यसि रामेण सुभगे चीरवाससा ।
निक्षिप्त विजयो रामो गत श्रीर्वनगोचरः ।
व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ 5.20.26॥
एवमात्मानं प्रशस्य रामं निन्दति किं करिष्यसीत्यादिना । निक्षिप्तविजयः त्यक्तविजय इत्यर्थः । स्थण्डिलशायी भूतलशायी ॥ 4.20.26॥
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ।
पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ 5.20.27॥
नहीति । वाशब्दो ऽवधारणे, द्रष्टुमपि नोपलप्स्यत एवेत्यर्थः । दर्शनमात्रफलमपि दर्शनं (च) न प्राप्स्यतीत्यर्थः पुरो ऽग्रे बलाका येषां ते पुरोबलाकाः तैः । अनेन मेघानामतिविपुलतोच्यते । महामेघेष्वेव बलाकासञ्चारवर्णनात् ॥ 5.20.27॥
न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ।
हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ 5.20.28॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।
मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ 5.20.29॥
क्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम् ।
त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ 5.20.30॥
न चापीति । हिरण्यकशिपुः कार्तिमिन्द्रहस्तगतामिवेति वैधर्म्यदृष्टान्तः । अत्र कीर्तिशब्देन भार्या लक्ष्यते । हिरण्यकशिपुरिन्द्रहस्तगतां भार्यां पुनः प्राप्तवानित्येतत् भागवते प्रसिद्धम् । “व्यलुम्पन् राजशिबिरममरा राज्यकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥”इत्यादिप्रह्लादवचनात्॥ 5.20.2830 ॥
अन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ।
यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ 5.20.31॥
मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ।
तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ 5.20.32॥
अन्तः पुरेति । ऐश्वर्यम् अन्तःपुरैश्वर्यम् । स्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः ॥ 5.20.3132॥
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ।
तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ 5.20.33॥
न रामस्तपसा देवि न बलेन न विक्रमैः ।
न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ 5.20.34॥
भुङ्क्ष्व स्वाधीनं कुरु ॥ 5.20.3334॥
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च ।
मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ 5.20.35॥
कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि ।
कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ 5.20.36॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः ॥ 5.20॥
पिब, मद्यमिति शेषः । विहर सञ्चर । विहारशब्दस्य सञ्चारे ऽपि प्रयोगात् ॥ 5.20.3536॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने विंशः सर्गः ॥ 5.20॥