०१९ रावणेन सीतादर्शनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंश सर्गः

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता ।

रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥ 5.19.1॥

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।

प्रावेपत वरारोहा प्रवाते कदली यथा ॥ 5.19.2॥

आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ।

उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ 5.19.3॥

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।

ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ 5.19.4॥

असंवृतायामासीनां धरण्यां संशितव्रताम् ।

छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ 5.19.5॥

तस्मिन्नित्यादिश्लोकद्वयमेकान्वयम् । ततः रावणागमनानन्तरम् । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसम्पन्नं रावणं ततो दृष्ट्वैव तत्र दूरदेश एव दृष्ट्वा प्रावेपतेति संबन्धः ॥ 5.19.15॥

मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम् ।

मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥ 5.19.6॥

समीपं राजसिंहस्य रामस्य विदितात्मनः ।

सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ 5.19.7॥

शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् ।

दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥ 5.19.8॥

मलमण्डनचित्राङ्गीं मलरूपमण्डनेन चित्राङ्गीम्, मलावृतामप्याश्चर्यावहदेहामित्यर्थः । मृणाली पङ्कदिग्धेवेत्यत्र येत्यध्याहार्यम् ॥ 5.19.68॥

वेष्टमानां तथा ऽ ऽविष्टां पन्नगेन्द्रवधूमिव ।

धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ 5.19.9॥

आविष्टां मणिमन्त्राद्यभिभूताम् । धूप्यमानां सन्तप्यमानाम् । धूमः केतुरिव धूमकेतुः , केतुना ग्रहेणेत्यर्थः । यद्वा ग्रहेण ग्राहकेण आच्छादकेनेति धूमकेतुर्विशिष्यते ॥ 5.19.9॥

वृत्तशीलकुले जातामाचारवति धार्मिके ।

पुनः संस्कारमापन्नां जातामिव च दुष्कुले ॥ 5.19.10॥

अभूतेनापवादेन कीर्तिं निपतितामिव ।

आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ 5.19.11॥

वुत्तेति । वृत्तं दृढं शीलं स्वाभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिके यज्ञादिधर्मप्रधाने एवंभूते कुले जाताम् । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नाम् । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थिताम् । कुमाराणामुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म । “वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः” इति स्मृतेः ॥ 5.19.1011॥

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् ।

पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ 5.19.12॥

सन्नां क्षीणाम् । श्रद्धामिव विमानिताम् अवमानितामित्यर्थः । अवमाने हि कृते अवमन्तरि श्रद्धा मन्दी भवति । पूजामिव परिक्षीणां स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां निष्फलाम् ॥ 5.19.12॥

आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव ।

दीप्तामिव दिशं काले पूजामपहृतामिव ॥ 5.19.13॥

आयतीं धनलाभम् । विध्वस्तां मन्दीभूताम् । प्रतिहताम् अननुष्ठिताम् । दीप्तां दाहयुक्ताम् । काले उत्पातकाले । पूजामपहृतामिव । अत्र पूजाशब्देन पूजाद्रव्यमुच्यते ॥ 5.19.13॥

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।

प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ 5.19.14॥

विध्वस्तां हिमादिहताम् । तमोध्वस्तां तमस्संवृताम् । उपक्षीणां स्वल्पजलामित्यर्थः । 5.19.14 ॥

वेदीमिव परामृष्टां शान्तामग्निशिखामिव ।

पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥ 5.19.15॥

परामृष्टां, शूद्रादिभिरिति शेषः ॥ 5.19.15॥

उत्कृष्टापर्णकमलां वित्रासितविहङ्गमाम् ।

हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ॥ 5.19.16॥

उत्कृष्टपर्णकमलाम् उद्धृतपत्रकमलाम् ॥ 5.19.16॥

पतिशौकातुरां शुष्कां नदीं विस्रावितामिव ।

परया मृजया हीनां कृष्णपक्षनिशामिव ॥ 5.19.17॥

विस्रावितां रोधोभङ्गादिना अन्यनिर्गमितजलामित्यर्थः । मृजया उद्वर्तनाद्यङ्गशोधनेन ॥ 5.19.17॥

सुकुमारीं सुजाताङ्गी रत्नगर्भगृहोचिताम् ।

तप्यभानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ 5.19.18॥

सुजाताङ्गी सुन्दराङ्गीम् ॥ 5.19.18॥

गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ।

निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ 5.19.19॥

एकया दीर्घया वेण्या सोभमानामयत्नतः ।

नीलया नीरदापाये वनराज्या महीमिव ॥ 5.19.20॥

आलितां बद्धाम् ॥ 5.19.1920॥

उपवासेन शोकेन ध्यनेन च भयेन च ।

परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ 5.19.21॥

अल्पाहारां तोयमात्राहारामित्यर्थः । यद्वा अल्पाहारां मितभोजिनीमित्युत्तमस्त्रीलक्षणमुच्यते ॥ 5.19.21॥

आयाचमानां दःखार्तां प्राञ्जलिं देवतामिव ।

भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ 5.19.22॥

आयाचमानामिति । रघुमुख्यस्य कर्तुः दशग्रीवपराभवं भावेन मनसा आयाचमानां प्रार्थयन्तीमिव स्थिताम् ॥ 5.19.22॥

समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायलोचनाम् ।

अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ 5.19.23॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंश सर्गः ॥ 5.19॥

समीक्षमाणां रक्षकं समीक्षमाणाम् । सुपक्ष्मेति अन्ते ताम्रं मध्ये शुक्लमस्या लोचनमित्युच्यते ॥ 5.19.23॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ 5.19॥