०१४ अशोकवाटिकाप्रवेशः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः

स मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।

अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ 5.14.1 ॥

सु मुहूर्तमित्यादि । इवशब्दो वाक्यालङ्कारे । प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः रावणस्य गृहात् । अवलुप्तः प्राप्तः ॥ 5.14.1 ॥

स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।

पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ॥ 5.14.2 ॥

स त्विति । संहृष्टसर्वाङ्गः पुलकितसर्वाङ्गः । वसन्तादौ “पौर्णमास्या मासान् संपाद्य” इति पक्षमनुसृत्य फाल्गुनपौर्णमासीप्रपूर्वदिनत्वेन वसन्तादावित्युक्तम् ॥ 5.14.2 ॥

सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् ।

उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि ॥ 5.13.3॥

अथाम्रवणसंछन्ना लताशतसमावृताम् ।

ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ 5.14.4॥

सालान् सर्जकान् । भव्यान् शभानित्यशोकविशोषणम् । यद्वा भवं रुद्रमर्हन्तीति भव्यान् रुद्रप्रियपुष्पान् वृक्षविशेषान् । उद्दलाकान् बहुवारकान् । नागवृक्षान् नागकेसरवृक्षान् । कपिमुखान् मर्कटकान् ॥ 5.14.34॥

स प्रविश्य विचित्रां तां विहगैरभिनादिताम् ।

राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ 5.14.5॥

स प्रविश्येत्यादि । काञ्चनैः काञ्चनमयैरिव स्थितैः ॥ 5.14.5॥

विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।

उदितादित्यसङ्काशां ददर्श हनुमान् कपिः ॥ 5.14.6॥

चित्रकाननां चित्रावन्तरवनाम्, चम्पकवनं चूतवनमित्येवंविधवनवतीम् ॥ 5.14.6॥

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।

कौकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ 5.14.7॥

पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः तैः, फलोपगैः फलसंपन्नैः ॥ 5.14.7॥

प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।

मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ 5.14.8॥

मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।

सुखप्रसुप्तान् विहगान् बोधयामास वानरः ॥ 5.14.9॥

प्रहृष्टमनुजे काले वनन्ते । वसन्तस्य प्रचुरमन्मथत्वात् प्रहृष्टमनुजत्वम् ॥ 5.14.89॥

उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः ।

अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ 5.14.10॥

पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः ।

अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ 5.14.11 ॥

दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ।

दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ 5.14.12 ॥

वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ।

रराज वसुधा तत्र प्रमदेव विभूषिता ॥ 5.14.13॥

तरस्विना ते तरवस्तरसा ऽभिप्रकम्पिताः ।

कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ 5.14.14॥

सालाः वृक्षाः । “अनोकहः कुटः सालः”इत्यमरः । पुष्पवृष्टयः पुष्पवृष्टीः ॥ 5.14.1014॥

निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः ।

निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ 5.14.15॥

हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।

पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ 5.14.16॥

धूर्ताः अक्षधूर्ताः ॥ 5.14.1516॥

विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।

बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ 5.14.17॥

स्कन्धमात्राश्रयाः पुष्पादीनामनाश्रया इत्यर्थः । अत एव अगमाः अगम्यः, असेव्या इत्यर्थः । निर्धूताः कम्पिताः ॥ 5.14.17॥

निर्धूतकेशी युवतिर्यथा मृदितवर्णका ।

निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षिता ॥ 5.14.18॥

तथा लांगूलहस्तैश्च चरणाभ्यां च मर्दिता ।

बभूवाशोकवनिका प्रभग्नवरपादपा ॥ 5.14.19॥

निर्धूतेति । मृदितवर्णका मृष्टाङ्गरागा । “अङ्गरागस्समालम्भो वर्णकश्च विलेपनम्” इत्युक्तेः । निष्पीतशुभदन्तोष्ठी निष्पीततया शुभदन्ततुल्योष्ठी ॥ 5.14.1819॥

महालतानां दामानि व्यधमत्तरसाकपिः ।

यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ 5.14.20॥

स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।

तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः ॥ 5.14.21 ॥

वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।

महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ 5.14.22 ॥

मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः ।

काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ 5.14.23॥

महालतानामिति । लतानां दामानि प्रतानाति ॥ 5.14.2023॥

फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।

नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ 5.14.24॥

दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ।

अमुतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ 5.14.25॥

नत्यूहाः दात्यूहाः ॥ 5.14.2425॥

लताशतैरवतताः सन्तानकसमावृताः ।

नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ 5.14.26॥

ततो ऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।

विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ 5.14.27॥

सन्तानकाः कल्पवृक्षास्तैस्समावृताः । घनाः निबिडाः । नानागुल्मावृताश्च ताः घनाश्चेति समासः । करवीरकृतान्तराः करवीरैः कृतविशेषाः ॥ 5.14.2627॥

शिलागृहैरवततं नानावृक्षैः समावृतम् ।

ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ 5.14.28॥

जगति लोके रम्यम्, एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । पर्वतं ददर्शेत्यन्वयः ॥ 5.14.28॥

ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।

अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ 5.14.29॥

जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।

वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ 5.14.30॥

पुनरावृत्ततोयां च ददर्श स महाकपिः ।

प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ 5.14.31 ॥

अथ नद्याः कुपितया निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति ददर्श चेति । पुनरावृत्ततोयां वृक्षाग्रप्रतिहत्या पुनः पर्वताभिमुखतोयप्रवाहाम् । उपमाने उपमेये चान्वयाय ददर्शेति पदद्वयम् ॥ 5.14.2931॥

तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः ।

ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः ॥ 5.14.32 ॥

तस्येति । तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥ 5.14.32॥

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।

मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ 5.14.33॥

विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।

प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ 5.14.34॥

काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ॥ 5.14.35॥

कृत्रिमां क्रियया निर्वृत्ताम्, निर्मितामित्यर्थः ॥ 5.14.3335॥

ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः ।

सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ 5.14.36॥

लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।

काञ्चनीं शिंशुपामेकां ददर्श हनुमान् कपिः ।

वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ 5.14.37॥

सो ऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।

सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान् ॥ 5.14.38॥

तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः ।

अमन्यत तदा वीरः काञ्चनो ऽस्मीति वानरः ॥ 5.14.39॥

ये केचिदिति । सच्छात्राः सविताना इत्यर्थः । सवितर्दिकाः सवेदिकाः । सौवर्णवेदिकाः विदर्दिकारोहणार्थं सुवर्णमयसोपानवेदिकायुक्ताः ॥ 5.14.3639॥

तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।

किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ 5.14.40॥

तामिति । काञ्चनैस्तरुगणैः उपलक्षितां तां शिंशुपाम् । किङ्किणीशतनिर्घोषाम्, किङ्किण्यः क्षुद्रघण्टिकाः तासां निर्घोषो यस्याः । यद्वा किङ्किणीभिः शतमनन्ताः निर्घोषा यस्याः सा ताम् ॥ 5.14.40॥

स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।

तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ॥ 5.14.41 ॥

स पुष्पिताग्रामित्याद्यासर्गसमाप्त्येकं वाक्यम् ॥ 5.14.41 ॥

इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।

इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥ 5.14.42 ॥

इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ॥ 5.14.42 ॥

अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।

चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता ॥ 5.14.43॥

इयं च नलिनी रम्या द्विजसङ्घनिषेविता ।

इमां सा राममहिषी नूनमेष्यति जानकी ॥ 5.14.44॥

सा रामा राममहिषी राघवस्य प्रिया सती ।

वनस़ञ्चारकुशला नूनमेष्यति जानकी ॥ 5.14.45॥

दुरात्मनः रावणस्य ॥ 5.14.4345॥

अथवा मृगशावाक्षी वनस्यास्य विचक्षणा ।

वनमेष्यति सा ऽ ऽर्येह रामचिन्तानुकर्शिता ॥ 5.14.46॥

अथेवेति पक्षान्तरे । विचक्षणा तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनम् । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतद्वनप्रदेशमागमिष्यतीत्यर्थः । सा आर्येति पदच्छेदः ॥ 5.14.46॥

रामशोकाभिसंतप्ता सा देवी वामलोचना ।

वनवासे रता नित्यमेष्येत वनचारिणी ॥ 5.14.47॥

एष्यते एष्यति ॥ 5.14.47॥

वनेचराणां सततं नूनं स्पृहयते पुरा ।

रामस्य दयिता भार्या जनकस्य सुता सती ॥ 5.14.48॥

वनेचराणां स्पृहयते वनेचरेभ्यस्स्पृहयते ॥ 5.14.48॥

सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।

नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ 5.14.49॥

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।

शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥ 5.14.50॥

यदि जीवति सा देवी ताराधिपनिभानना ।

आगमिष्यति सा ऽवश्यमिमां शिवजलां नदीम् ॥5.14.51 ॥

सन्ध्याकाले मनः यस्यास्सा सन्ध्याकालमनाः, सन्ध्योपासनतत्परेत्यर्थः । सन्ध्यार्थे एष्यति, प्रतिदिनमिति शेषः ॥ 5.14.4951 ॥

एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।

अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ 5.14.52 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः ॥ 5.14॥

पर्णघने पर्णसमूहे । महात्मा स हनुमान् । पुष्पिताग्रत्वादिविशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य आगमिष्यति सा ऽवश्यमिमां शिवजलां नदीमित्यन्तेन यः प्रकार उक्तः एवमुक्तप्रकारेण मत्वा मनुजेन्द्रपत्नीं प्रतीक्षमाणः अवेक्षमाणः मार्गमाणः सुपुष्पिते पर्णघने निलीनश्च सन् सर्वं ददर्शेत्यन्वयः ॥ 5.14.52 ॥

इत्यार्षे श्रीगोविन्दराजाविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ 5.14॥