०१३ अशोकवाटिकाप्रस्थानम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ।

हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे ॥ 5.13.1 ॥

विमानादित्यादि । इदानीं विमानादवतरणोक्त्या मध्ये विमानमधिरुढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाहविद्युदिति ॥ 5.13.1 ॥

सम्परिक्रम्य हनुमान् रावणस्य निवेशनात् ।

अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ 5.13.2 ॥

सम्परिक्रम्येति । सम्परिक्रम्य, प्राकारमिति शेषः । अब्रवीत्, स्वयमिति शेषः ॥ 5.13.2 ॥

भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ।

नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनम् ॥ 5.13.3॥

लोलिता बहुशो ऽन्विष्टेत्यर्थः ॥ 5.13.3॥

पल्वलानि तटाकानि सरांसि सरितस्तथा ।

नद्यो ऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।

लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ॥ 5.13.4॥

इह सम्पतिना सीता रावणस्य निवेशने ।

आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ 5.13.5।

सरितः क्षुद्रनद्यः । अनूपवनान्ताः जलप्रायवनप्रदेशाः ॥ 5.13.4,5॥

किन्नु सीता ऽथ वैदेही मैथिली जनकात्मजा ।

उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ॥ 5.13.6॥

किंन्विति । सीता अयोनिजा । वैदेही जन्मभूमिप्रयुक्तातिशयवती । मैथिली आचारप्रधानकुलोत्कर्षवती । अथशब्दस्समुच्चये । एवंभूता जनकात्मजा दुष्टचारिणं रावणं विवशा कामपरवशा सती उपतिष्ठेत किंनु? नेत्यर्थः ॥ 5.13.6॥

क्षिप्रमुत्पततो मन्ये सातामादाय रक्षसः ।

बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ 5.13.7॥

अथास्या अदर्शने हेतूनुत्प्रेक्षते क्षिप्रमित्यादिना । रामबाणानां रामबाणेभ्यः ॥ 5.13.7॥

अथवा ह्रियमाणायाः पथि सिद्धनिषेविति ।

मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ 5.13.8॥

अथवेति । सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ 5.13.8॥

रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ।

तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ 5.13.9॥

पीडितेन पीडनेन ॥ 5.13.9॥

उपर्युपरि वा नूनं सागरं क्रमतस्तथा ।

विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ 5.13.10॥

उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । “उपर्यध्यधसस्सामीप्ये” इति द्विर्वचनम् । “धिगुपर्यादिषु त्रिषु” इति द्वितीया ॥ 5.13.10॥

अहो क्षुद्रेण वा ऽनेन रक्षन्ती शीलमात्मनः ।

अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ 5.13.11 ॥

अहो इति खेदे ॥ 5.13.11 ॥

अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ।

अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ 5.13.12 ॥

सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ।

रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ 5.13.13॥

दुष्टभावाभिः सापत्न्यप्रयुक्तक्रोधाभिः ॥ 5.13.12,13॥

हा राम लक्ष्मणेत्येवं हा ऽयोध्ये चेति मैथिली ।

विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ 5.13.14॥

हा रामेति । न्यस्तरदेहा त्यक्तदेहा । भविष्यति भवेदित्यर्थः ॥ 5.13.14॥

अथवा निहिता मन्ये रावणस्य निवेशने ।

नूनं लालप्यते सीता पञ्जरस्थेव शारिका ॥ 5.13.15॥

निहिता भूगृहादौ गूढं स्थापिता । लालप्यते मुहुर्मुहुः प्रलपति ॥ 5.13.15॥

जनकस्य सुता सीता रामपत्नी सुमध्यमा ।

कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ 5.13.16॥

एवं निरुद्ध्यमानापि सीता रावणस्य वशं न व्रजेदित्याह जनकस्येति कथं व्रजेत्? न व्रजेदेवेत्यर्थः ॥ 5.13.16॥

विनष्टा वा प्र(ण)नष्टा वा मृता वा जनकात्मजा ।

रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ 5.13.17॥

ननु किं चिन्तया, गत्वा यथावृत्तं निवेद्यतामित्याशङ्क्य तदनुचितमित्याह विनष्टेति । विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । “णश अदर्शने” इति धातोर्निष्ठा । प्रनष्टा समुद्रपतनादिना त्यक्तजीविता । (“उपसर्गादसमासेपि णोपदेशस्य ” इति णत्वम् ॥) मृता रामविरहदुःखासहिष्णुतया स्वयं मृता॥ 5.13.17 ॥

निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ।

कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ 5.13.18॥

निवेद्यमाने वक्ष्यमाणो दोषः स्यात् । दोषः स्यादनिवेदने यथावृत्तानिवेदने स्वामिवञ्चनदोषः स्यात् । विषमं परस्परविरुद्धम् ॥ 5.13.18॥

अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ।

भवेदिति मतं भूयो हनुमान् प्रविचारयत् ॥ 5.13.19॥

यदि सीतामदृष्ट्वा ऽहं वानरेन्द्रपुरीमितः ।

गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ 5.13.20॥

अस्मिन्निति । हनुमान् अस्मिन्कार्ये एवं गते एवं विषमत्वं प्राप्ते सति । किं प्राप्तकालं कालोचितं क्षमं समर्थं च भवेदिति मतं पक्षम् । भूयः प्रविचारयत् ॥ 5.13.19,20॥

ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ।

प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ॥ 5.13.21 ॥

किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ।

किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ॥ 5.13.22 ॥

पुरुषार्थाभावमाह ममेदमिति ॥ 5.13.2122 ॥

गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ।

न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ 5.13.23॥

निवेद्यमाने दोषः स्यादित्येतदुपपादयति गत्वेत्यादिना । अप्रियमिति च्छेदः ॥ 5.13.23॥

परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ।

सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ 5.13.24॥

परुषं श्रवणकटुकम् । दारुणं भयंकरम् । क्रूरम् उग्रम् । तीक्ष्णम् असह्यम् । इन्द्रियतापनम् इन्द्रियक्षोभकम् । सीतानिमित्तं सीताविषयम् ॥ 5.13.24॥

तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ।

भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ॥ 5.13.25॥

विनष्टौ भ्रातरौ श्रुत्वा भरतो ऽपि मरिष्यति ।

भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ 5.13.26॥

पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः ।

कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ 5.13.27॥

कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ।

रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ 5.13.28॥

दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ।

पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ 5.13.29॥

वालिजेन तु दुःखेन पीडिता शोककर्शिता ।

पञ्जत्वं च गते राज्ञि तारापि न भविष्यति ॥ 5.13.30॥

मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ।

कुमारो ऽप्यङ्गदः कस्माद्धारयिष्यति जावितम् ॥ 5.13.31 ॥

भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः ।

शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ 5.13.32 ॥

तं त्विति । पञ्चत्वगतमानसं मरणे कृतनिश्चयम् ॥ 5.13.2532 ॥

सान्त्वेनानुप्रदानेन मानेन च यशस्विना ।

लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ 5.13.33॥

सान्त्वेनेति । मानेन प्रत्युत्थानादिना ॥ 5.13.33॥

न वनेषु न शैलेषु न निरोधेषु वा पुनः ।

क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ 5.13.34॥

सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः ।

शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ 5.13.35॥

न वनेष्विति । निरोधेषु गृहादिसंवृतप्रदेशेषु ॥ 5.13.34,35॥

विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ।

उपवासमथो शास्त्रं प्रचरिष्यन्ति वानराः ॥ 5.13.36॥

विषमिति । प्रचरिष्यन्ति करिष्यन्तीत्यर्थः । शस्त्रं शस्त्रपतनम् ॥ 5.13.36॥

घोरमारोदनं मन्ये गते मयि भविष्यति ।

इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ 5.13.37॥

सो ऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ।

न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ 5.13.38॥

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ।

आशया तौ धरिष्येते वानराश्च मनस्विनः ॥ 5.13.39॥

घोरमिति । आरोदनम् आ समन्ताद्रोदनम् ॥ 5.13.3739॥

हस्तादानो मुखादानो नियतो वृक्षमूलिकः ।

वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥ 4.13.40॥

हस्तेति । हस्तादानः हस्तपतितभोजी । मुखादानः मुखपतितभोजी । वृक्षमूलिकः वृक्षमूलवासी ॥ 5.13.40॥

सागरानूपजे देशे बहुमूलफलोदके ।

चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥ 5.13.41 ॥

सागरानूपज इति । बहुमूलफलोदक इति स्वरूपकथनम् । अरणीसुतम् अरण्युत्पन्नम् ॥ 5.13.41 ॥

उपविष्टस्य वा सम्यग् लिङ्गिनीं साधयिष्यतः ।

शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ 5.13.42 ॥

उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीम्, लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी ताम् साधयिष्यतः । लिङ्गिनमिति क्वचित्पाठः । तत्र लिङ्गं शरीरं तद्वान् लिङ्गी आत्मा तं साधयिष्यतः, शरीरादात्मानां मोचयिष्यत इत्यर्थः । श्वापदानि श्वापदाः व्याघ्रादयः ॥ 4.13.42 ॥

इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ।

सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ 5.13.43॥

न चैवमात्मत्यागे दोष इत्याह इदमिति । निर्याणं मरणम् । आपः अपः ॥ 5.13.43॥

सुजातमूला सुभगा कीर्तिमाला यशस्विनी ।

प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥ 5.13.44॥

सुजातेति । सुजातमूला आदौ लङ्काधिदेवताजयेन शोभनप्रारम्भा । सुभगा चन्द्रोदयेन रम्या । कीर्तिमाला मम कीर्तिमयमाला । यशस्विनी हनुमतो लङ्काप्रवेशरात्रिरिति लोके विख्याता । चिररात्री जागरणेन दीर्घभूता रात्रिः । प्रभग्ना

समाप्ता । एवं कल्याणीयं रात्रिः सीतामपश्यतो मे व्यर्थैव जातेत्यर्थः । “कृदिकारादक्तिनः” इति दीर्घः ॥ 5.13.44॥

तापसो वा भविष्यामि नियतो वृक्षमूलिकः ।

नेतः प्रतिगमिष्यामि तामदृष्ट्वा ऽसितेक्षणाम् ॥ 5.13.45॥

आत्मत्यागापेक्षया तापसभाव एव ज्यायानित्याह तापस इति । वाशब्दो ऽवधारणे । “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः ॥ 5.13.45॥

यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ।

अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति ॥ 5.13.46॥

मा भूत् सुग्रीवसमीपगमनम् । अङ्गदादिभिस्संयुज्यतामित्याशङ्क्याह यदीत इति ॥ 5.13.46॥

विनाशे बहवो दोषा जीवन् भद्राणि पश्यति ।

तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ॥ 5.13.47॥

एवं बहुविधं दुःखं मनसा धारयन् मुहुः ।

नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ 5.13.48॥

विनाश इति । बहवो दोषाः पूर्वोक्तास्सर्वविनाशादयः । संगम श्रेयस्संगमः ॥ 5.13.4748॥

रावणं वा वधिष्यामि दशग्रीवं महाबलम् ।

काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ 5.13.49॥

रावणमिति । प्रत्याचीर्णं प्रत्याचरितम्, प्रतिकृतमिति यावत् ॥ 5.13.49॥

अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् ।

रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ 5.13.50॥

पशुपतेः अग्नेः पशुम् अजमिव । “इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे” इति श्रुतेः । अनेन सुप्रापत्वमुक्तम् ॥ 5.13.50॥

इति चिन्तां समापन्नः सीतामनधिगम्य ताम् ।

ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ 5.13.51 ॥

इतीति । प्रथमं चिन्ताविचारः । ततो ध्यानं ज्ञातव्यविषयनिरन्तरप्रत्ययः । तत्तश्चिन्तेति दुरन्तचिन्तोच्यते ॥ 5.13.51॥

यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ।

तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥ 5.13.52 ॥

चिन्ताप्रकारमाह यावदिति ॥ 5.13.52॥

संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ।

अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् ॥ 5.13.53॥

इहैव नियताहारो वत्स्यामि नियतेन्द्रियाः ।

न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ 5.13.54॥

अशोकवनिका चेयं दृश्यते या महाद्रुमा ।

इमामधिगमिष्यामि न हीयं विचिता मया ॥ 5.13.55॥

वसून् रुद्रांस्तथा ऽ ऽदित्यानश्विनौ मरुतो ऽपि च ।

नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ 5.13.56॥

यदि पूर्वमेव सम्पातिवचनप्रामाण्येन रामो ऽत्रानीयेत तदा महान् प्रमादः स्यादित्याह सम्पातीति ॥ 5.13.5356॥

जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम् ।

संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने ॥ 5.13.57॥

स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः ।

उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः ॥ 5.13.58॥

सिद्धिं तपःफलम् ॥ 5.13.57,58॥

नमो ऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।

नमो ऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमो ऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ 5.13.59॥

“सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः” इत्युक्तरीत्या अभिमतलाभत्वरया सर्वान्नमस्करोति नमो ऽस्त्विति ॥ 5.13.59॥

स तेभ्यस्तु नमस्कृत्य सुग्रीवस्य च मारुतिः ।

दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ॥ 5.13.60॥

स गत्वा मनसा पूर्वमशोकवनिकां शूभाम् ।

उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ 5.13.61 ॥

स तेभ्यस्त्वित्यादिश्लोकद्वयमेकान्वयम् । नमस्कृत्यालोकनरूपक्रियाभेदावच्छब्दद्वयम् । नमस्कृत्य अशोकवनिकां प्रति उद्दिश्य सर्वा दिशस्समालोक्य परिच्छेत्तुं तस्यास्सर्वा दिशो दृष्ट्वा तां स मनसा गत्वा उत्तरं चिन्तयामासेति योजना । अशोकशब्दः संक्षेपे व्याख्यातः ॥ 5.13.60,61॥

ध्रुवं तु हक्षोबहुला भविष्यति वनाकुला ।

अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ॥ 5.13.62 ॥

ध्रुवमिति । रक्षोबहुला रक्षकराक्षसबहुला । वनाकुला जलावृता द्रुमषण्डमण्डिता वा । सर्वसंस्कारैः कर्षणतृणनिरसनादिभिः संस्कृता कृतातिशयाधाना अशोकवनिका ध्रुवं चिन्त्या भविष्यति । अवश्यमन्वेषणीया भवेदित्यर्थः ॥ 5.13.62॥

रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।

भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ 5.13.63॥

रक्षिण इति । अत्र अशोकवनिकायाम् । विहिताः नियुक्ताः । सर्वात्मा सर्वमाप्नोतीति सर्वात्मा वायुः । सोपि नातिक्षोभं प्रवाति । अतिकम्पनपूर्वकं नात्र सञ्चरतीत्यर्थः ॥ 5.13.63॥

संक्षिप्तो ऽयं मया ऽ ऽत्मा च रामार्थे रावणस्य च ।

सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ 5.13.64॥

एवंभूतप्रदेशे भवतः कथं गमनमित्याशङ्क्याह संक्षिप्त इति । मया अयमात्मा देहः । रामार्थे रामप्रयोजनसिद्ध्यर्थम् । रावणस्य चार्थे रावणादृश्यत्वार्थं च संक्षिप्तः अल्पीकृतः । एवं मया कार्यानुकूलो यत्नः कृतः कार्यसिद्धिं तु देवाः विधास्यन्तीत्याह सिद्धिमिति । संविधास्यन्ति ददत्वित्यर्थः ॥ 5.13.64॥

ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे ।

सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ 5.13.65॥

वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ।

अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥ 5.13.66॥

ब्रह्मेत्यादि । शर्वः रुद्रः ॥ 5.13.65,66॥

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।

दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ 5.13.67॥

उक्तमर्थं पुनः संग्रहेणाह सिद्धिं सर्वाणि भूतानीति । भूतानां प्रभुः उक्तब्रह्मरुद्राद्यधिपतिः, परिशेषाद्विष्णुरित्यवगम्यते । पन्थाः गोचरः येषां ते पथिगोचराः मार्गवर्तिनः ॥ 5.13.67॥

तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।

द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ 5.13.68॥

तदिति । तत्तस्मात् कारणात् । उन्नता नासिका यस्य तदुन्नम् । “उपसर्गाच्च” इति समासान्तो ऽच् प्रत्ययः नासादेश्च । अव्रणम् अनवद्यम् । तत् अभिज्ञातत्वेन रामेण निवेदितम् ॥ 5.13.68॥

क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ।

बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथे ऽद्य सा भवेत् ॥ 5.13.69॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः ॥ 5.13॥

सुदारुणालङ्कृतवेषधारिणा सुदारुणत्वे ऽप्यापातप्रसन्नवेषधारिणा ॥ 5.13.69॥

इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोदशः सर्गः ॥ 5.13॥