०१२ हनूमन्निर्वेदः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः

स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् ।

जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ 5.12.1 ॥

स तस्येत्यादि । निशागृहान् । रात्रिनिवासयोग्यगृहान् । “गृहाः पुंसि च भूम्न्येव” इति पुँल्लिङ्गत्वम् । पश्यति अपश्यत् ॥ 5.12.1 ॥

स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम् ।

ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिला ॥ 5.12.2 ॥

स इति । यथा यस्मात् कारणात् । विचिन्वतो मे मैथिली दर्शनं नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयम् । तदा अपश्यन्निति हेतुगर्भम् । अदर्शनात् मृता वा अथवा दर्शनं नैति । कुत्रचित् गहने प्रदेशे स्थिता वेत्यर्थः ॥ 5.12.2 ॥

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती ।

अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥ 5.12.3॥

सेति । प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । “प्रति प्रतिनिधौ वीप्सालक्षणादौ” इत्यमरः । परे उत्कृष्टे । आर्यपथे सन्मार्गे ॥ 5.12.3॥

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।

समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥ 5.12.4॥

विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यासां ताः । विकृताः विकृतवेषाः । विवर्चसो निस्तेजस्काः । महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षूंषि यासां ता । राक्षसराजयोषितः रावणस्याज्ञाकारिणीः स्त्रियः ॥ 5.12.4॥

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।

न मे ऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ 5.12.5॥

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः ।

न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ 5.12.6।

सीतामिति । पौरुषं शत्रुविषयपराक्रमम् । चिरं कालं विहृत्य अतिक्रम्येत्यर्थः । एवम्भूतस्य मे सुग्रीवसमीपगा तत्समीपगामिनी गतिः मार्गः नास्ति । सुग्रीवसमीपगतिः लममायोग्येत्यर्थः । तत्र हेतुमाह सुतीक्ष्णेति । त इति शेषः ॥ 5.12.5,6॥

किन्नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः ।

गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ।

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ 5.12.7॥

किंन्विति समान्येन निर्वेदोक्तिः । विशेषतश्चाह गत्वेति । इत्युक्त इति शेषः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । यद्वा किन्त्विति पाठः । पूर्ववदर्धत्रयमेकं वाक्यम् । किन्त्विति पूर्वस्माद्विशेषोक्तिः । मां वानराः वदस्वः नः इति वक्ष्यन्ति तदा अदृष्ट्वा किं प्रवक्ष्यामीति योजना ॥ 5.12.7॥

ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने ॥ 5.12.8॥

तर्हि अत्रैव कालविलम्बः क्रियतां तत्राह ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनकाले ऽतीते प्रायमुपैष्यन्ति, जाम्बवत्प्रभृतय इति शेषः ॥ 5.12.8॥

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ।

गतं पारं समुद्रस्य वानराश्च समागताः ॥ 5.12.9॥

समान्येन निर्वेदं प्रतिवक्ति किं वेति । समुद्रलङ्घनरूपं महत् कर्म कृतवन्तं मां ते किं वक्ष्यन्ति किमपि वक्ष्यन्ति । यद्वा मद्वृत्तान्तं प्रशंसन् जाम्बवान् तदुत्साहको ऽङ्गदस्तदुपशृण्वन्तो ऽन्ये च मां किं वा जुगुप्सितं वक्ष्यन्ति ॥ “किं पृच्छायां जुगुप्सने” इत्यमरः ॥ 5.12.9॥

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 5.12.10॥

करोति सफलं जन्तोः कर्म यत्तत्करोति सः ।

तस्मादनिर्वेदकृतं यत्नं चेष्टे ऽहमुत्तमम् ॥ 5.12.11 ॥

चिरं निर्वेद कार्यहानिः स्यादिति मत्वा अनिर्वेदमवलम्बते अनिर्वेद इति । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं यत्नम् । चेष्टे, करोमीत्यर्थः । यत्करोति जन्तुरिति सिद्धम् । जन्तोस्सम्बन्धि तत्सर्वं कर्म सः अनिर्वेद एव सफलं करोतीत्यन्वयः ॥ 5.12.10,11॥

भूयस्तावद्विचेष्यामि देशान् रावणपालितान् ।

आपानशाला विचितास्तथा पुष्पगृहाणि च ॥ 5.12.12॥

आपानेति । एता विचिताः अथापि पुनर्विचेष्यामीत्यनुषज्यते ॥ 5.12.12॥

चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ।

निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ॥ 5.12.13॥ [भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ।]

निष्कुटाः गृहारामाः, अन्तररथ्याः अवान्तरवीथ्यः ॥ 5.12.13॥

इति संचिन्त्य भुयो ऽपि विचेतुमुपचक्रमे ।

भूमीगूहांश्चैत्यगृहान् गृहातिगृहकानपि ॥ 5.12.14॥

भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान् गृहानतीत्य दूरे स्वैरविहारार्थं निर्मितान् गृहान् ॥ 5.12.14॥

उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः ।

अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन् ॥ 5.12.15॥

उत्पतन्निपतन् पूर्वमुच्चस्थानान्यधिरुह्य ततो ऽवरोहन् । अवघाटयन् पाटयन् ॥ 5.12.15॥

प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ।

सर्वमप्यवकासं स विचचार महाकपिः ॥ 5.12.16॥

चतुरङ्गुलमात्रो ऽपि नावकाशः स विद्यते ।

रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥ 5.12.17॥

निष्पतन् निर्गच्छन् । प्रपतन्नुत्पतन् बिलगृहादीनि नीचस्थानानि प्रथममधिरुह्य ततः समुद्गच्छन् ॥ 5.12.16,17॥

प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः ।

दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ 5.12.18॥

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।

दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥ 5.12.19॥

रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः ।

दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ 5.12.20॥

नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः ।

दृष्टा हनुमता तत्र न तु सीता सुमध्यमा ॥ 5.12.21 ॥

प्राकारान्तरथ्याः प्राकारमध्यवर्तिवीथ्यः । वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः ॥ 5.12.1821 ॥

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः ।

दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥ 5.12.22 ॥

सो ऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।

विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः ॥ 5.12.23॥

उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ।

व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ॥ 5.12.24॥

अवतीर्य विमानाच्च हनुमान् मारुतात्मजः ।

चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ 5.12.25॥

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः ॥ 5.12 ॥

प्रमथ्य प्रसह्य । बलाद्धृता नागकन्या इत्यभिधानादत्र बन्दीकृतानां ग्रहणम् । पूर्वश्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ॥ 5.12.2225॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ॥ 5.12 ॥