श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः
स निकामं विमानेषु विषण्णः कामरूपधृक् ।
विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥ 5.6.1॥
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ 5.6.2॥
स निकाममित्यादि विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेन वेगेन ॥ 5.6.1,2॥
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ 5.6.3॥
रक्षितमिति । चकाशे जहर्षेत्यर्थः ॥ 5.6.3॥
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।.
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ 5.6.4॥
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥ 5.6.5॥
रूप्येकेत्यादि । पूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः. असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ॥ 5.6.4,5॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ 5.6.6॥
बहुरत्नसमाकीर्णं परार्घ्यासनभाजनम् ।
महारथसमावासं महारथमहास्वनम् ॥ 5.6.7॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ 5.6.8॥
सिंव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः । महारथसमावासं महारथानां रक्षसामाकरम् । महारथामहास्वनं महतां रथानां महान् स्वनः यस्मिन् ॥ 5.6.68॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ 5.6.9॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ।
वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ॥ 5.6.10॥
अन्तपालैः बाह्यरक्षिभिः । राक्षसेन्द्रनिवेशननं राक्षसेन्द्रा राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिः स्यात् । संहादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ॥ 5.6.9,10॥
तद्राजगुणसंपन्नं मुख्यैश्चागुरुचन्दनैः ।
महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ॥ 5.6.11॥
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ 5.6.12॥
तत् प्रसिद्धम् । राजगुणसंपन्नं राजोपचारैर्धूपादिभिः संपन्नम् । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते । पर्वसु हुतं होमो यस्मिन् तत् पर्वहुतम् ॥ 5.6.11,12 ॥
समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ।
महात्मनो महद्वेश्म महारत्नपरिच्छदम् ।
महारत्नसमाकीर्णं ददर्श स महाकपिः ॥ 5.6.13॥
विराजमानं वपुषा गजाश्वरथसङ्कुलम् ।
लङ्काभरणमित्येव सो ऽमन्यत महाकपिः ॥ 5.6.14॥
समुद्रमिव निःस्वनं निःशब्दम्, रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वननिस्वनमिति तु बाह्यकक्ष्यापेक्षया ॥ 5.6.13,14॥
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ 5.6.15॥
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ 5.6.16॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ 4.6.17॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥ 5.6.18॥
शुकस्य च महातेषाः सारणस्य च धीमतः ।
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥ 5.6.20॥
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ।
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ॥ 5.6.21 ॥
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ।
धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ॥ 5.6.22 ॥
चचारेति । रावणस्य रावणगृहस्य ॥ 5.6.1522 ॥
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ 5.6.23॥
शुकनासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 5.6.24॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ 5.6.25॥
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ॥ 5.6.26॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ 5.6.27॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ 5.6.28॥
विद्युद्रूपपस्येत्यादि । विद्युज्जिह्वेन्द्रजिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्वात् ॥ 5.6.2328॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।
शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ॥ 5.6.29॥
ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे ।
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥ 5.6.30॥
रावणस्येति । उपशायिन्यः पर्यायशायनीः । रावणे शयाने जाग्रतीरित्यर्थः ॥ 5.6.29,30॥
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ।
कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् ॥ 5.6.31॥
निष्ठितान् गजशिक्षायामैरावतसमान् युधि ।
निहन्तृ़न् परसैन्यानां गहे तस्मिन् ददर्श सः ॥ 5.6.32 ॥
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ।
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः ॥ 5.6.33॥
सितान् बद्धान् । “षिञ् वन्धने” इत्यस्मात् क्तः । हरीन् अश्वान् । परगजानारुजन्ति पीडयन्तीति परगजारुजान् । क्षरतश्चेति श्लोकः पूर्वोक्तगजविशेषकः । क्षरतः किंचिद्वर्षतःस्रवन्मदत्वे दृष्टान्तः । स्रवतः निर्झरिणः ॥ 5.6.3133॥
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।
हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ॥ 5.6.34॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ 5.6.35॥
सहस्रमिति । वाहिनीः सेनाः, पदातीनित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । हेम केवलस्वर्णम्, उभयविधस्वर्णमयाभरणयुक्ता इत्यर्थः ॥ 5.6.34,35॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।
लतागृहाणि चित्राणि चित्रशाला गृहाणि च ॥ 5.6.36॥
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।
कामस्य गृहकं रम्यं दिवागृहकमेव च ।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ 5.6.37॥
शिबिका इत्यादि । दारुपर्वतकान् क्रीडापर्तकान् । कामस्य गृहकं रतिगृहम् । दिवागृहकं दिवाविनोदस्थानम् । रावणस्य निवेशने इति पाठः ॥ 5.6.3637॥
स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम् ।
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ॥ 5.6.38॥
अनेकरत्नसङ्कीर्णं निधिजालं समन्तत ।
धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ॥ 5.6.39॥
स इत्यादि । मयूरस्थानं क्रीडामयूरविश्रमस्थानम् । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धम् । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकम् । भूतपतेः प्रमथाधिपस्य ॥ 5.6.38,39॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ।
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ॥ 5.6.40॥
जाम्बूनदमयान्येव शयनान्यासनानि च ।
भाजनानि च मुख्यानि ददर्श हरियूथपः ॥ 5.6.41 ॥
अर्चिर्भिरिति । रश्मिमान् सूर्यः ॥ 5.6.40,41॥
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् ।
मनोरममसम्बाधं कुबेरभवनं यथा ।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ॥ 5.6.42॥
मृदङ्गतलघोषैश्छ घोषवद्भिर्विनादितम् ।
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ॥ 5.6.43॥
सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ॥ 5.6.44॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः ॥ 5.6॥
मध्वसवकृतक्लेदं मघ्वासवैः मधुविकारमद्यैः कृतक्लेदं कृतसेकम् । घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विरामसमयसम्भवो ध्वनिः । व्यूढकक्ष्यं विशालप्रकोष्ठम् । अस्मिन् सर्गे सार्द्धचतुश्चत्वारिंशच्छ्लोकाः ॥ 5.6.4244॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्ठः सर्गः ॥ 5.6॥