श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः
ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम् ।
ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ 5.5.1 ॥
ततः स मध्यमित्यादि । दिवि आकाशे मध्यं गतम् आकाशमध्यगतमित्यर्थः । लङ्काप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्लोके अभियान्तमित्यनेन नाभिगमनमुच्यते । दक्षिणां दिशं गच्छतो ऽभिमुखत्वासंभवात्, किन्तु गमनमात्रम् । सप्तदेशे सर्गेपि “प्रजगाम नभश्चन्द्रः” इति प्रकर्षेण गमनवचनं नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमानं दीप्तिमन्तम् । वृषं श्वेतम् । अस्मिन्सर्गे छेकानुप्रासः न तु यमकम्, अर्थभेदाभावात् । तदुक्तं काव्यप्रकाशे– “भिन्नार्थानां त्र्यादीनां वर्णानां विवृत्तिर्यमकम्” इति ॥ 5.5.1 ॥
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ 5.5.2 ॥
पापानि दुःखानि ॥ 5.5.2॥
या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ 5.5.3॥
भुवि मन्दरो लक्ष्मीवान् । प्रदोषेषु सागरः । तोयेषु पद्मं श्रीमत् । तद्वत्तदानीं चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यत्रासम्बन्धान्मन्दरादिलक्ष्मीरिवास्य लक्ष्मीरिति सादृश्याक्षेपान्निदर्शनालङ्कारः । तदुक्तं काव्यप्रकाशे निदर्शनायाम्–“अभिमान्यस्तु सम्बन्ध उपमापरिकल्पकः” इति ॥ 5.5.3॥
हंसो यता राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः ।
वीरो यथा गर्वितकृञ्जरस्थश्चन्द्रो विबभ्राज तथा ऽम्बरस्थः ॥ 5.5.4॥
हंस इति । राजतपञ्जरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात् । मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुञ्जरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कारः ॥ 5.5.4॥
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः ।
हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः ॥ 5.5.5॥
स्थित इति । परिपूर्णशृङ्गः परिपूर्णकलः । अत्र शृङ्गशब्दस्य विषाणाद्यर्थभेदे ऽपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥ 5.5.5॥
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः ।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः ॥ 5.5.6॥
विनष्टेति । शीताम्बु हिमाम्बु, तुषाराः पृषताः, पङ्कः तमः, विनष्टाः शीताम्बुतुषारा एव पङ्काः यस्मिन् तथा । “तुषारः शीकरे हिमे” इति विश्वः । महाग्राणां शुक्रबृहस्पत्यादीनां ग्राहेण ग्रहणेन आच्छादनेन विनष्टः पङ्को मलं यस्य सः महाग्रहग्राहविनष्टपङ्कः, स्वतेजसा महाग्रहतिरस्कारेण व्यक्तनैर्मल्य इत्यर्थः । यद्वा महाग्रहः सूर्यः तस्य ग्राहेण किरणपरिग्रहेण विनाशितः पङ्कः तमः येन सः । तदा तरणिकिरणसङ्क्रमणेन देदीप्यमानमण्डल इत्यर्थः । तदुक्तं वराहमिहिरेण–“सलिल (सम)मये शशिनि रवेदीर्धितयो मूर्च्छतास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥” इति। प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः तेजस्समृद्धियोगात्स्पष्टकलङ्कः। अतिधवले चन्द्रे परभागयोगेन कलङ्कस्याप्यौज्ज्वल्यं भवतीत्यर्थः। शशाङ्कः इति। भूच्छायामयः शशरूपः अङ्कः यस्य स तथा। “लोकच्छायामयं लक्ष्म तवाङ्के शशसन्निभम्” इति हरिवंशोक्तेः। भगवान्महाप्रभाववान्॥ 5.5.6 ॥
शिलातलं प्राप्य यता मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः ।
राज्य समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ॥ 5.5.7॥
शिलेति । प्रकाशः प्रकाशमानः ॥ 5.5.7॥
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षः पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥ 5.5.8॥
प्रकाशेन चन्द्रोदयेन नष्टः दोषः तिमिरं यस्मिन् सः । प्रवृद्धः रक्षसां पिशिताशनानां च दोषः सञ्जारूपो यस्मिन् स तथा । रामाभिः अभिरामैः कान्तैश्च ईरितः त्यक्तः चित्तदोषः कोपाभिमानरूपः यस्मिन् । स्वर्गप्रकाशः स्वर्गतुल्यः, तद्वदानन्दावह इत्यर्थः । भगवान् श्रीमान् । “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः । प्रदोषः गत इति शेषः । 5.5.8 ॥
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिस्सुवृत्ताः ।
नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ 5.5.9॥
तन्त्रीति स्पष्टम् ॥ 5.5.9॥
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि ।
वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥ 5.5.10॥
मत्ताः मधुमदक्षीबाः । प्रमत्ताः प्रस्तुतकार्यविस्मारिणः । मत्तप्रमत्तजनयोगात् कुलान्यपि तथोच्यन्ते । कुलानि गृहाणि । समाकुलानि समाकुलजनानि । वीरश्रिया वीरलक्ष्म्या । वीरः इति भिन्नं पदं वा कपिविशेषणम् ॥ 5.5.10॥
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिनिक्षिपन्ति ।
मत्तप्रलापानधिकं त्रिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ 5.5.11॥
रक्षंसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षपन्ति ।
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ 5.5.12 ॥
परस्परं चेत्यादिश्लोकद्वमेकान्वयम् । ददर्शेति सम्बध्यते । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षोविशेषणानि । आक्षिपन्ति अपहसन्ति । अधिनिक्षिपन्ति अन्योन्यस्योपरि दधन्ति । अधिविक्षिपन्ति अधिकं मुञ्चन्ति । अधिक्षिपन्ति भर्त्सयन्ति । विक्षिपन्ति विवृण्यन्ति । चित्राणि विविधान् वेषान् । विक्षिपन्ति वितन्वन्ति । चापानि चापान् विक्षिपन्ति विस्फारयन्ति ॥ 5.5.11,12॥
ददर्श कान्ताश्च समालभन्त्यस्तथा ऽपरास्तत्र पुनः स्वपन्त्यः ।
सुरूपवक्त्राश्च तता हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः ॥ 5.5.13॥
ददर्शेति । समालभन्त्यः अङ्गरागेणानुलिम्पन्त्यः । समालपन्त्य इति च पाठः । सर्वत्र व्यत्ययेन द्वितीयार्थे प्रथमा ॥ 5.5.13॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः ।
रराज वीरैश्च विनःश्वसद्भिर्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥ 5.5.14॥
महागजैरिति । सा पुरीति शेषः । सुसद्भिः सुतरां सद्भिः । विनिःश्वसद्भिः युद्धयोग्यवीरालाभात् ॥ 5.5.14॥
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान् ।
नानाविधानान् रुचिराभिधानन् ददर्श तस्यां पुरि यातुधानान् ॥ 5.5.15॥
बुद्धिप्रधानान् बुद्थ्या श्रेष्ठान् प्रधानबुद्धीन्वा, उत्तमबुद्धीनित्यर्थः । रुचिराभिधानान् शोभनव्यवहारान् । संश्रद्धधानान् आस्तिकान् । नानाविधानान्नानाकारान् । रुचिराभिधानान् हृद्यनाम्नः ॥ 5.5.15॥
ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान् स तदा ऽनुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ॥ 5.5.16॥
आत्मगुणानुरूपान् आत्मगुणानुरूपव्यवहारान् ॥ 5.5.16॥
ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः ।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ 5.5.17॥
वराणां श्रेष्ठानाम् अर्हाः वरार्हाः । सुविशुद्धभावाः कान्तेषु निर्मलहृदया । महानुभावाः पातिव्रत्यरूपमहाप्रभावाः । यद्वा महानुभावाः अनुभावाः कटाक्षभुजक्षेपादयः सुप्रभावाः । शोभनवैभवाः ॥ 5.5.17॥
श्रिया ज्वलन्तीस्त्रयोपगूढा निशीथकाले रमणोपगूढाः ।
ददर्शकाश्चित्प्रमदोपकूढा यथा विहङ्गाः कुसुमोपगूढाः ॥ 5.5.18॥
श्रियेति । प्रमदोपगूढाः । विहङ्गाः विहङ्गीः ॥ 5.5.18॥
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः ॥ 5.5.19॥
निविष्टाः ऊढाः पाणिगृहीता इत्यर्थः । “निवेशः शिबिरोद्वाहविन्यासेषु” इति विश्वः ॥ 5.5.19॥
अप्रावृत्ताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः ।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ 5.5.20॥
अप्रावृताः अनवकुण्ठिताः । काञ्चनराजिवर्णाः कनकरेखाकाराः । तपनीयवर्णाः
तप्तकाञ्चनवर्णाः । शशलक्ष्मवर्णाः चन्द्रपाण्डुराः । कान्तप्रहीणाः विरहिण्यः ॥ 5.5.20॥
ततः प्रियान् प्राप्य मनोभिरामान् सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः ।
गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥ 5.5.21॥
प्रियान्प्राप्य अभिसृत्य सुप्रीतियुक्ताः मनोभिरामाः रामाः प्रसमीक्ष्य गृहेषु रामाश्च ददर्श । अभिसारिकाः कुलपालिकाश्च ददर्शेत्यर्थः ॥ 5.5.21॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ 5.5.22॥
चन्द्रेति । वक्त्रनेत्रदर्शनं मानुषीत्वराक्षसीत्वविवेकार्थम् । आभरणदर्शनं स्वदृष्टसीताभरणतुल्याभरणदर्शनार्थम् ॥ 5.5.22॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ।
लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसा ऽभिजाताम् ॥ 5.5.23॥
न त्विति । परमाभिजाताम् अत्यन्ताभिरामाम् । साधुजातां सुरूपाम् । मनसा ऽभिजाताम् अयोनिजामित्यर्थः ॥ 5.5.23॥
सनातने वर्त्मनि सन्निविष्टां रामेक्षणान्तां मदनाभिविष्टाम् ।
भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ 5.5.24॥
सनातन इति । सानातने अविच्छिन्ने वर्त्मनि पातिव्रत्यधर्मे । रामेक्षणे अन्तो निश्चयो यस्यास्ताम् । श्रीमत् सीताचिन्तनश्रीमत् । विशिष्टाम् उत्कृष्टाम् ॥ 5.5.24॥
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् ।
सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम् ॥ 5.5.25॥
उष्णेति । सानुसृतास्रकण्ठीम् अनुगतास्रेण अनुगतबाष्पेन कण्ठेन सह वर्तमानाम् । पुरा रामपार्श्वावस्थानकाले । वरार्होत्तमनिष्ककण्ठीं वरार्हः उत्तमश्च निष्कः कण्ठे यस्याः ताम् । उरः कण्ठसम्बन्धी भूषणविशेषो निष्कः । अभिरक्तकण्ठीं स्निग्धकण्ठीम् ॥ 5.5.25॥
अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् ।
क्षतप्रूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ 5.5.26॥
अव्यक्तेति । अव्यक्तरेखाम् अव्यक्तस्वरूपां चन्द्ररेखां चन्द्रकलामिव स्थिताम् । अत्यन्तकृशत्वे कान्तिहीनत्वे च दृष्टान्तो ऽयम् । पांसुप्रदिग्धां पांसुकलुषितां हेमरेखां कनकशलाकामिव स्थिताम् । स्वतः शुद्धस्वभावस्य आगन्तुकमालिन्ये दृष्टान्तोयम् । क्षतप्ररूढां क्षतेन प्ररूढाम् औषधादिना समाहिताम् । अन्तःशल्यदोषवतीं बहिस्समाहिताम् । बाणरेखां बाणक्षतिमिव स्थिताम् । अन्तर्वेदनातिशये दृष्टान्तो ऽयम् । वायुप्रभिन्नामिव मेघरेखाम्, पुनरसमाधेयशैथिल्ये दृ़ष्टन्तो ऽयम् ॥ 5.5.26॥
सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ।
बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥ 5.5.27॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः ॥ 5.5॥
सीतामिति । चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण, सपदीत्यर्थः । मन्दो मुग्ध दुःखाभिहतो बभूव । “मुग्धो मन्दो विवर्णश्च” इति हलायुधः ॥ 5.5.27॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चमः सर्गः ॥ 5.5॥