॥ श्रीमते रामानुजाय नमः ॥
॥ सुन्दरकाण्डः ॥
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः
विस्तारः (द्रष्टुं नोद्यम्)
तत्त्व-ज्ञान-समुच्चयो घन-दया-सारस्य, सारो महान्,
निष्कर्षः कमला-निवास-चरण-द्वन्द्वानुराग-स्मृतेः ।
अक्लेशः परिपाक एष जगताम् अक्षय्य-पुण्यावलेर्,
अस्माकं निधिर् अक्षयो विजयते श्रीमान् शठारिर् गुरुः ॥1 ॥
श्रीरामायण-भूषायै
प्रवृत्तो रामभक्तितः ।
व्याख्यां सुन्दरकाण्डस्य
तिलकं कलयाम्य् अहम् ॥2 ॥
ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 5.1.1 ॥
उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । अत्र सर्वसंहर्तृत्वमुच्यते, वक्ष्यति हि तत् “ब्रह्मा स्वयंभूः” इत्यादिना ॥ यद्वा पूर्वस्मिन् काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युक्तम् । अत्र दूतेन पतिव्रतया चैवं वर्तितव्यमित्यर्थः प्रतिपाद्यते । यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्यरूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे सर्गे शिक्षणीयशिष्यान्वेषणमुपपाद्यते–तत इत्यादि । ततः जाम्बवत्प्रोत्साहनानन्तरम् । चारणाः सङ्घचारिणो देवगायकाः तैराचरिते पथि आकाशे रावणनीतायास्सीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधिनिरसनसमर्थः । यद्वा चारणाचरिते पथि गत्वा सीतीयाः पदमन्वेष्टुमियेष । यद्वा यथापाङ्क्तमेवान्वयः । आकाशे ऽपि पदन्यासान्वेषणसमर्थो ऽयमिति बुद्धिचातुर्यातिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानपूर्वकभगवदनुज्ञालाभानन्तरम् । शत्रुकर्शनः”गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ।” इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः । चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि “महाजनो येन गतस्स पन्थाः” इत्युक्तसदाचारे, स्थित इति शेषः । रावयति असत्प्रलापान्कारयतीति रावणः अविवेकः, तेन नीतायाः स्ववशं प्रापितायाः सीतायाः अनादिभगवत्परतन्त्रचेतनस्य । सीताशब्देनायोनिजत्वोक्तेः स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च “स्त्रीप्रायमितरत्सर्वम्” इति ह्युक्तम् । पदं स्थानं संसारमण्डलमन्वेष्टुम्, सात्त्विकसंभाषणादिचिह्नं वा । तथोक्तम् “विष्णोः कटाक्षश्चाद्वेष आभिमुख्यं च सात्त्विकैः । सम्भाषणं षडेतानि त्वाचार्यप्राप्तिहेतवः” इति । यद्वा पदं व्यवसायमन्वेष्टुं कस्य चेतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुम् इयेष । “पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु” इत्यमरः । अत्रैकादशसहस्रश्लोका गताः । द्वादशसहस्रस्यादिमो ऽयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं तदवलोकनीयं विद्वद्भिः ॥ 5.1.1॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ।
समुदग्रशीरोग्रीवो गवां पतिरिवा ऽ ऽबभौ ॥ 5.1.2 ॥
दुष्करमिति । निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदग्रशिरोग्रीवः समुन्नतशिरोग्रीवः गवां पतिः वृषभः ॥ 5.1.2॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥ 5.1.3॥
अथेति । शाद्वलानां सलिलकल्पत्वं वैडूर्यवर्णतया ॥ 5.1.3॥
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ॥ 5.1.4॥
द्विजानिति । केसरीव बभाविति शेषः ॥ 5.1.4॥
नीललोहितमाञ्जिष्ठपत्रवर्णैस्सितासितैः ।
स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ॥ 5.1.5॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।
यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ 5.1.6॥
स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठते कपिवरस्तस्य ह्रदे नाग इवाबभौ ॥ 5.1.7॥
नीलेति, अत्र यच्छब्दो ऽध्याहार्यः । यदेवंविधं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवर्णैः पत्रश्यामैः । “पलाशो हरितो हरित्” इति हलायुधः । सितासितैः कल्माषैः । स्वभावविहितैः स्वतस्सिद्धैः ॥ 5.1.57॥
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ 5.1.8॥
स सूर्यायेति । स्वयम्भुवे चतुर्मुखाय । भूतेभ्यः देवयोनिभ्यः ॥ 5.1.8 ॥
अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये ।
ततो ऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ 5.1.9 ॥
अञ्जलिमिति । आत्मयोनये स्वकारणभूताय । दक्षिणः समर्थः । हनुमान् प्राङ्मुखः सन् आत्मयोनये पवनाय अञ्जलिं कृत्वा ततो दक्षिणां दिशं गन्तुं ववृध इत्यन्वयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्निति पाठस्त्वयुक्तः, शतृप्रत्ययेन प्राङ्मुखत्वविशेष्टाञ्जलिकरणदक्षिणदिग्गमनोद्योगयेरेककालिकत्वप्रतीत्या विरोधात् । नहि प्राङ्मुखस्यैव सत्तो दक्षिणदिग्गमनोद्योगो युज्यते ॥ 5.1.9 ॥
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ 5.1.10॥
प्लवङ्गेति ॥ रामवृद्ध्यर्थं रामप्रयोजनार्थम् ॥ 5.1.10॥
निष्प्रमाणशरीरस्सन् लिलङ्घयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ 5.1.11॥
निष्प्रमाणशरीरः निर्मर्यादशरीरः ॥ बाहुभ्यामित्युक्तिर्वानरस्य चतुर्भिः सञ्चारात् ॥ 5.1.11॥
स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ 5.1.12॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।
सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥ 5.1.13॥
तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः ।
सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥ 5.1.14॥
स चचालेति । चापीत्येकमव्ययमप्यर्थकम् । अशातयत् अगच्छत् । स्वर्थे णिच् ॥ 5.1.1214॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।
रीतिर्निर्वर्तयामास कगाञ्चनाञ्जनराजतीः ॥ 5.1.15॥
पीड्यमान । रीतीः रेखाः काञ्चनाञ्जनरजतगर्भासु शिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ 5.1.15॥
मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः ।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ 5.1.16॥
मुमोचेति । समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा मध्यमया ज्वालया, पार्श्वज्वाला हि न धूमनिवर्तिका ॥ 5.1.16॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः ॥ 5.1.17॥
गिरिणेति । विकृतैः विकृतिमद्भिः, दैन्यव्यञ्जकैरित्यर्थः ॥ 5.1.17॥
स महासत्त्वसन्नादश्शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ 5.1.18॥
स इति । सत्त्वसन्नादः भूतसन्नादः ॥ 5.1.18॥
शिरोभिः पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ॥ 5.1.19॥
शिरोभिरिति ॥ स्वस्तिकं नाम फणोपरि दृश्यमानार्धचन्द्रकम् । ददंशुरिति । दंशनं कोपव्यापारः ॥ 5.1.19॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।
जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ 5.1.20॥
ता इति । बिभिदुः भिन्नाः ॥ 5.1.20॥
यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शकुश्शमितुं विषम् ॥ 5.1.21॥
यानीति । अत्र तानीत्यध्याहार्यम् । शमितुं शमयितुम् ॥ 5.1.21॥
भिद्यते ऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥ 5.1.22॥
भिद्यत इत्यर्धमेकम् । उत्पेतुरित्यनुषज्यते ॥ 5.1.22॥
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैस्सह ।
पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ 5.1.23॥
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ 5.1.24॥
त्रस्ता इत्यादिसार्दश्लोकद्वमेकान्वयम् । आसवभाजनं मद्यपात्रम् । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनम् ॥ 5.1.23,24॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ 5.1.25॥
कृतेति । कृतकण्ठगुणाः कृतकण्ठस्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ 5.1.25॥
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥ 5.1.26॥
हारेति । पारिहार्यं वलयम् । तस्थुः तस्थुश्च ॥ 5.1.26॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ॥ 5.1.27॥
दर्शयन्तः प्रयोजयन्तः । महाविद्याम् अणिमाद्यष्टमहासिद्धिम् । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमितसमासः । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः । विद्याधरा महर्षयश्चेति द्वन्द्वसमासो न युक्तः, इति विद्याधराः श्रुत्वेत्युपरितनश्लोके विद्याधराणामेवोपादानात् ॥ 5.1.27॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मानम् ।
चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे ॥ 5.1.28॥
एष पर्वतसङ्काशो हनूमान् मारुतात्मजः ।
तितीर्षति महावेगस्समुद्रं मकरालयम् ॥ 5.1.29॥
रामार्थं वानरार्थं च चिकार्षन् कर्म दुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ 5.1.30॥
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ 5.1.31॥
दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।
ननाद सुमहानादं सुमहानिव तोयदः ॥ 5.1.32 ॥
समुद्रं तितीर्षतीत्युक्तम् । तस्य प्रयोजनकथनायोक्तमनुवदति रामार्थमिति ॥ 5.1.3032 ॥
आनुपूर्व्येण वृत्तं च लाङ्गूलं रोमभिश्चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ 5.1.33॥
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ 5.1.34॥
आनुपूर्व्येणेति । आनुपूर्व्येण वृत्तं क्रमेण वृत्तम् ॥ 5.1.3334॥
बाहू संस्तम्भयामास महापरिघसन्निभौ ।
ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ 5.1.35॥
लङ्घनोद्योगकालिकावस्थां वर्णयति बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चलीचकार । कट्यां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकोच च ॥ 5.1.35॥
संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम् ।
तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ 5.1.36॥
संहृत्येति । संहृत्य संकोच्य ॥ 5.1.36॥
मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ 5.1.37॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ 5.1.38॥
यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः ।
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ 5.1.39॥
मार्गमिति । प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थम् ॥ 5.1.3739॥
नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ 5.1.40॥
नहीति । हिशब्दः पादपूरणे ॥ 5.1.40॥
यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ 5.1.41 ॥
सर्वथा कृकार्यो ऽहमेष्यामि सह सीतया ।
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ 5.1.42 ॥
एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ॥ 5.1.43॥
उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ 5.1.44॥
यदीति । अकृतश्रमः अप्राप्तश्रमः । पाक्षप्तराजावमित्यत्र टजभाव आर्षः । आनयिष्यामि आनेष्यामि ॥ 5.1.4144॥
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुस्समन्ततः ॥ 5.1.45॥
समुत्पततीति । तस्मिन् हनुमति वेगात्समुत्पतति सति । नगरोहिणः शैलरुहा वृक्षाः विटपान् संहृत्य आदाय, समुत्पेतुरित्यर्थः ॥ 5.1.45॥
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमले ऽम्बरे ॥ 5.1.46॥
उरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दार्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ 5.1.47॥
संग्रहणोक्तं विवृणोति स मत्तेत्यादिना । कोयष्टिभकः कोयष्टिः ॥ 5.1.46,47॥
तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः ।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ 5.1.48॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥ 5.1.49॥
तमिति । तमूरुवेगेति पाठः । ऊरुवेगेन उन्मथिताः सालाः सावृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः ।सैन्याः सेनायां समवेताः पुरुषाः । “सेनायां समवेता ये सैन्यास्ते नैनिकाश्च ते” इत्यमरः ॥ 5.1.48,49॥
सारवन्तो ऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ 5.1.50॥
सारवन्तः स्तिरांशवन्तः । “सारो बले स्थिरांशे च ” इत्यमरः ॥ 5.1.50॥
स नानाकुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः ।
शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥ 5.1.51॥
स नानाकुसुमैरिति । मेघसङ्काशः स कपिरित्यन्वयः । खद्योतैः रात्राविति शेषः ॥ 5.1.51॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ 5.1.52॥
विमुक्ता इति ॥ अवशीर्यन्त अवाशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य निवृत्ताः । सुहृत्पक्षे सलिल सामीप्ये सप्तमी । “उदकान्तात् स्निग्धो बन्धुव्रजेत्” इत्युक्तेः ॥ 5.1.52॥
लघुत्वेनोपन्नं तद्विचित्रं सागरे ऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ 5.1.53॥
लघुत्वेनोपपन्नं लघुत्वेन युक्तम् ॥ 5.1.53॥
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ 5.1.54॥
तारेत्यर्धमेकं वाक्यम् । ताराचितमिव आकाशं प्रबभौ स महार्णवः ॥ 5.1.54॥
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥ 5.1.55॥
तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ।
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ 5.1.56॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ 5.1.57॥
पुष्पौघेणेति । अनुबद्धेन व्याप्तेन ॥ 5.1.5557॥
पिबन्निव बभौ चापि सोर्मिजालं महर्णवम् ।
पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ 5.1.58॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।
नयने विप्रकाशेते पर्वतस्ताविवानलौ ॥ 5.1.59॥
पिबन्निवेति । अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्सूच्यते । लङ्घनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एवमम्बरं च । ततो ऽतिवेगेन गच्छन् स महार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः ॥ 5.1.58,59॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ।
चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ॥ 5.1.60॥
पिङ्गे पिङ्गलवर्णे । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे चन्द्रसूर्याविवेत्यभूतोपमा ॥ 5.1.60॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।
सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ॥ 5.1.61 ॥
मुखमिति । तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलम् ॥ 5.1.61 ॥
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ।
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ 5.1.62 ॥
लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रो ऽनिलात्मजः ।
व्यरोचतमाहाप्राज्ञः परिवेषीव भास्करः ॥ 5.1.63॥
लाङ्गूलमिति । समाविद्धम् उन्नतीकृतम् ॥ 5.1.6263॥
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ।
महता दारितेनेव गिरिर्गैरिकधातुना ॥ 5.1.64॥
स्फिग्देशेन वालमूलप्रदेशेन ॥ 5.1.64॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ 5.1.65॥
गर्जति अगर्जत् ॥ 5.1.65॥
खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ।
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ 5.1.66॥
खे यथेति । सानुबन्धा, सपुच्छा उल्का हि पुच्छयुक्ता निपतति ॥ 5.1.66॥
पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः ।
प्रवृद्ध इव मातङ्गः कक्ष्यया बद्ध्यमानया ॥ 5.1.67॥
पतदिति । पतङ्गः सूर्यः । व्यायतो दीर्घः । प्रवृद्ध इव दीर्घ इव, कक्ष्यायां बद्ध्यमानायां हि मातङ्गो दीर्घो भवति ॥ 5.1.67॥
उपरिष्टाच्छरीरेण च्छायया चावगाढया ।
सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ 5.1.68॥
उपरिष्टादिति । नौर्जलावगाढेनाधोभागेन व्योमावगाढेन चेर्ध्वभागेन गच्छति । अयं च उपरिगतशरीरेणाधोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ॥ 5.1.68॥
यं यं देशं सुमुद्रस्य जगाम स महाकपिः ।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ 5.1.69॥
यं यमिति । सोन्माद इव समुद्धर्ष इव, समुद्धतजल इत्यर्थः ॥ 5.1.69॥
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ 5.1.70॥
कपिवातश्च बलवान् मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ 5.1.71॥
सागरस्येति । शैलवर्ष्मणां शैलतुल्यानाम् । “वर्ष्म देहप्रमाणयोः” इति सज्जनः ॥ 5.1.70,71॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ 5.1.72॥
विकरन्निव विभजन्निव । रोदसी द्यावापृथिव्यौ ॥ 5.1.72 ॥
मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे ।
अतिक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ 5.1.73॥
मेर्विति । अतिक्रामत् अत्यक्रामत् ॥ 5.1.73॥
तस्य वेगसमुद्धूतं जलं सजलदं तदा ।
अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ 5.1.74॥
तस्येति । तस्य हनूमतः । वेगेन ऊरुवातेन । समुद्धूतं समुत्तापतम् । सजलदं जलं जलदो जलं चोद्दूतमित्यर्थः ॥ 5.1.74॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ 5.1.75॥
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ 5.1.76॥
तिमीति । तिमयो महामत्स्याः, नक्राः ग्राहाः, झषाः मकराः । विवृताः जलविभेदेन प्रकाशिताः ॥ 5.1.75,76॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जले चारुतरा ऽभवत् ॥ 5.1.77॥
दशयोजनविस्तीर्णेति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुद्ध्येत । न हि बिम्बादधिकपरिमाणत्वं प्रतिबिम्बस्य सम्भवतीति न शङ्कनीयम्, छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः । प्रातरेव हि समुद्रतरणमुक्तम्, तदा तस्य छाया तथाप्रमाणा दृश्येतैव ॥ 5.1.77॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ 5.1.78॥
शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ 5.1.79॥
श्वेतभ्रेति अभ्रघनः अभ्रमूर्तिः ॥ 5.1.78,79॥
येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।
तेन मार्गेण सहसा द्रोणाकृत इवार्णवः ॥ 5.1.80॥
येनेति । द्रोणी कटाहः ॥ 5.1.80॥
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् ।
हनुमान् मेधजालानि प्रकर्षन् मारुतो यथा ॥ 5.1.81॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
कपिना ऽ ऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ 5.1.82 ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नस्य प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ 5.1.83॥
प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।
ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ 5.1.84॥
आपात इति । आपाते मार्गे ॥ 5.1.8184॥
तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ 5.1.85॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ 5.1.86॥
ततापेति । रामकार्यं सीतान्वेषणम् तदेवार्थः प्रयोजनं सिद्धये लाभाय, तद्धेतुभूतहनुमच्छ्रमनिवर्तनायेत्यर्थः ॥ 5.1.85,86॥
नागाश्चतुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ 5.1.87॥
नागा इति । रक्षांसि दिक्पालकरक्षस्सम्बन्धीनि ॥ 5.1.87॥
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ 5.1.88॥
तस्मिन्निति । मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः ॥ 5.1.88॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ 5.1.89॥
अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः ।
इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ 5.1.90॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ।
शेषं च मयि विश्रान्तस्सुखेनातिपतिष्यति ॥ 5.1.91॥
साहाय्यमिति । सर्ववाच्यः सर्वप्रकारेण निन्द्यः । विवक्षतां वक्तुमिच्छताम् ॥ 5.1.8991॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ 5.1.92॥
इतीति । हिरण्यनाभं हिरण्यश्रृङ्गम् नाभिशब्दो ह्यध्यक्षवाची, शृङ्गं च पर्वतस्याध्यक्षमेव । “नाभिरध्यक्षकस्तूर्योः”इति दर्पणः ॥ 5.1.92॥
त्वमिहासुरसङ्घानां पातालतलवासिनाम् ।
देवराज्ञा गिरश्रेष्ठ परिघः सन्निवेशितः ॥ 5.1.93॥
त्वमिति । परिघः अर्गलम् । “परिघो मुद्गरे ऽर्गले ” इति दर्पणः ॥ 5.1.93॥
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ।
पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ 5.1.94॥
परिघत्वमेवाह त्वमेषामिति ॥ 5.1.94॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्द्धितुम् ।
तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ 5.1.95॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।
हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ 5.1.96॥
तिर्यगिति । शक्तिः अस्तीति शेषः ॥ 5.1.95,96॥
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ 5.1.97॥
अस्येति । इक्ष्वाकोः कुले वंशे वर्तते शुश्रूषत इति इक्ष्वाकुकुलवर्ती तस्य पूज्यतमास्तव मत्सम्बन्धादिति भावः । यद्वा त्वदुपकारकवायुपुत्रमुद्दिश्य ॥ 5.1.97॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ।
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ 5.1.98॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ 5.1.99॥
कुर्विति । कार्यं प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्युं कोपम् उदारयेत् प्रेरयेत् उत्पादयेत् ॥ 5.1.98,99॥
चामीकरमहानाभ देवगन्धर्वसेवित ।
हनुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति ॥
[स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्] ॥ 5.1.100॥
चामीकरोति । चमीकरमहानाभ स्वर्णमयमहाशृङ्ग ॥ 5.1.100॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ 5.1.101 ॥
काकुत्स्थस्येति । काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां दयाम् ॥ 5.1.101 ॥
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ।
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ 5.1.102 ॥
स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ।
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ 5.1.103॥
स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ।
दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ 5.1.104॥
हिरण्यनाभ इति । निशम्य, वचनमिति शेषः ॥ 5.1.102104॥
शातकुम्भनिभैश्श्रृङ्गैस्सकिन्नरमहोरगैः ।
आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ 5.1.105॥
शातकुम्भेति । शातकुम्भनिभैः स्वर्णसदृशैः आदित्योदयसङ्काशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षितः शृङ्गाणि दर्शयामासेति योजना ॥ 5.1.105॥
तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य समुत्थितैः ।
आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम् ॥ 5.1.106॥
जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयंप्रभैः ।
आद्त्यशतसङ्काशस्सो ऽभवद्गिरिसत्तमः ॥ 5.1.107॥
तप्तेति । शस्त्रसङ्काशं नीलमित्यर्थः । “शस्त्रमायुधलोहयोः” इति विश्वः ॥ 5.1.106,107॥
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ।
मध्ये लवणतोयस्य विघ्नो ऽयमिति निश्चितः ॥ 5.1.108॥
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।
उरसा पातयामास जीमूतमिव मारुतः ॥ 5.1.109॥
तमिति । निश्चितः निश्चितवान् । कर्तरि निष्ठा ॥ 5.1.108,109॥
स तदा पातितस्तेन कपिना पर्वतोत्तमः ।
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ 5.1.110॥
जहर्ष विसिष्मिये ॥ 5.1.110॥
तमाकाशगतं वीरमाकाशे समुपस्थितः ।
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।
मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः ॥ 5.1.111 ॥
दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ।
निपत्य मम श्रृङ्गेषु विश्रमस्व यथासुखम् ॥ 5.1.112 ॥
राघवस्य कुले जातैरुदधिः परिवर्द्धितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ 5.1.113॥
तमिति । प्रीतः प्रीतिद्योतकव्यापारः ॥ 5.1.111113॥
कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ।
सो ऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ 5.1.114॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।
तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ 5.1.115॥
कृते इति । कृते उपकारे त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी । त्वत्तः संमानमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमानमित्यर्थः ॥ 5.1.114,115॥
योजनानां शतं चापि कपिरेष समाप्लुतः ।
तव सानुषु विश्रान्तश्शेषं प्रक्रमतामिति ॥ 5.1.116॥
चोदनाप्रकारमाहयोजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वेणान्वयः ॥ 5.1.116॥
तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु ।
तदास्वाद्य हरि श्रेष्ठ विङन्तो ऽनुगमिष्यसि ॥ 5.1.117॥
तदिति । तत्प्रसिद्धम् । कन्दः करहाटः । मूलं पादः । तत्तस्मात् ॥ 5.1.117॥
अस्माकमपि सम्बन्धः कपिमुख्य त्वया ऽस्ति वै ।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ 5.1.118।
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ 5.1.119॥
अतिथिः किल पूजार्हः प्राकृतो ऽपि विजानता ॥
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ 5.1.120॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ 5.1.121 ॥
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।
तस्मात्त्वं पूजनीयो मे श्रृणु चाप्यत्र कारणम् ॥ 5.1.122 ॥
अस्माकमिति । प्रख्यात इति सम्बन्धविशेषणम् । महागुणानां परिग्रहां यस्मिन्स तथा ॥ 5.1.118122 ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणो ऽभवन् ।
ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ 5.1.123॥
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः ।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ 5.1.124॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।
पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशुः ॥ 5.1.125॥
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततो ऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ 5.1.126॥
संबन्धं विवृणोति पूर्वमित्यादिना । पक्षिणः पक्षवन्तः । हिः पादपूरणे ॥ 5.1.123126॥
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
गुप्तपक्षसमग्रश्च तव पित्रा ऽभिरक्षितः ॥ 5.1.127॥
ततो ऽहं मानयामि त्वां मान्यो हि मम मारुतः ।
त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ 5.1.128॥
तस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।
प्रीतिं प्रीतमानाः कर्तुं त्वमर्हसि महाकपे ॥ 5.1.129॥
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहु मन्यस्व प्रीतो ऽस्मि तव दर्शनात् ॥ 5.1.130॥
एवमुक्तः कपिश्रष्ठस्तं नगोत्तममब्रवीत् ॥ 5.1.131 ॥
अस्मिन्निति । समग्रः समग्रपक्षः, गुप्तसमग्रपक्षश्च यथा भवामि तथा अभिरक्षितो ऽस्मीत्यर्थः ॥ 5.1.127131॥
प्रीतो ऽस्मि कृतमातिथ्यं मन्युरेषो ऽपनीयताम् ।
त्वरिते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ॥ 5.1.132 ॥
प्रीतोस्मीति । कृतमातिथ्यं तव दर्शनादिनेति भावः । मन्युः कोपः, मत्कृता पूजा गृहीतेति कोपो निरस्यतामित्यर्थः । कार्यकालः त्वरते शीघ्रं गच्छेति मां प्रेरयति । अहश्चाप्यतिवर्तते, अत्र विलम्बः क्रियते चेदिदमहो ऽतिवर्तते इत्यर्थः । इह समुद्रे
अन्तरे मध्ये मया न स्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ॥ 5.1.132 ॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ 5.1.133॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ 5.1.134॥
इत्युक्त्वेति । प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ॥ 5.1.133,134॥
अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ।
पितुः पन्थानमास्थाय जगाम विमले ऽम्बरे ॥ 5.1.135॥
भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ।
वायुसूनुर्निरालम्बे जगाम विमले ऽम्परे ॥ 5.1.136॥
अथेति । हित्वा शैलमहार्णवौ मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रो ऽपि मूर्तिमत्तया तत्रादृश्यतेति सूचितम् ॥ 5.1.135,136॥
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ 5.1.137॥
देवताश्चाभवन् हृष्टास्तत्रस्तास्तस्य कर्मणा ।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ 5.1.138॥
उवाच वचनं धीमान् परितोषात् सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ 5.1.139॥
हिरण्यनाभ शैलेन्द्र परितुष्टो ऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ 5.1.140॥
तद्द्वितीयमिति । द्वितीयं समुद्रलङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपं कर्म । 5.1.137140 ॥
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति ॥ 5.1.141॥
रामस्यैष ह दूत्येन याति दाशरथेर्हरिः ।
सत्क्रियां कुर्वतां तस्य तोषितो ऽस्मि दृढं त्वया ॥ 5.1.142॥
ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ 5.1.143॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ 5.1.144॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् ॥ 5.1.145॥
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ 5.1.146॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्रा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम् ॥ 5.1.147॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ 5.1.148॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ 5.1.149॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ 5.1.150॥
मम भक्ष्यः(क्षः) प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ 5.1.151 ॥
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ 5.1.152 ॥
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 5.1.153॥
साह्यमिति । भये सति समुद्रलङ्घने ऽस्य किं भविष्यतीत्यस्माकं भये सतीत्यर्थः ॥
5.1.141153 ॥
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ 5.1.154॥
अन्येति । अन्यकार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ॥ 5.1.154॥
तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ 5.1.155॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ 5.1.156॥
तस्या इति । विषयवासिनी रामराज्यवासिनी ॥ 5.1.155,156॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ 5.1.157॥
एवमिति । नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्षम् । अत्र इतिकरणं द्रष्टव्यम् । अब्रवीन्नातिवर्तेन्मां कश्चिदेषवरो ममेत्यस्यानन्तरं तद्दृष्ट्वा व्यादितं वक्त्रं वायुपुत्रः सुबुद्धिमानित्यादिश्लोका द्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्गताश्च, शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्च ज्ञातः स्यादिति विरोधात् । त इमे प्रत्रिप्तश्लोकाः ः”तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः । प्रविश्य वदनं मे ऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा । व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सरसया क्रुद्धो वारपुङ्गवः । अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सरसां क्रुद्धो दशयोजनमायतः । दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् । चकार सुरसा चास्यं विशद्योजनमायत् । हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजमायतः । चकार सुरसा वक्त्रं चत्वारिशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः । चकार सुरसा वक्त्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनामायतम्” इति ॥ 5.1.157॥
[तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना वै नागमाता हनूमतः ॥1 ॥
प्रविश्य वदनं मे ऽद्य गन्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥2 ॥
व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥3॥
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे ।
इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ॥ 5॥
दशयोजनविस्तारो बभूव हनुमांस्तदा ।
तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ॥5॥
चकार सुरसा चास्यं विंशद्योजनमायतम् ।
तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ॥6॥
हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजमायतः ।
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥7॥
बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः ।
चकार सुरसा वक्त्रं षष्टियोनमायतम् ॥8॥
तथैव हनुमान् वीरः सप्ततीयोजनोच्छ्रितः ।
चकार सुरसा वक्त्रमशीतीयोजनायतम् ॥9॥
हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ।
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥10॥]
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।
[दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ।]
सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ 5.1.158॥
सो ऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ 5.1.159॥
प्रकृतं विलिख्यते– तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठामात्रकः ॥ 5.1.158,159॥
प्रविष्टो ऽस्मि हि ते वक्त्रं दाक्षायणि नमो ऽस्तु ते ।
गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव ॥ 5.1.160॥
तं दृष्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ 5.1.161॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानयस्व वैदेहीं राघवेण महात्मना ॥ 5.1.162॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ 5.1.163॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ 5.1.164॥
प्रविष्टोस्मीति । दक्षस्यापत्यं दाक्षायणी, तत्त्वं च पूर्वं वरप्रदानकथनसमये तयैव कथितमित्यनुवादात् कल्प्यते ॥ 5.1.160164॥
सेविते वारिधाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ 5.1.165॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः संपतद्भिश्च विमलैः समलङ्कृते ॥ 5.1.166॥
वज्राशनिसमाघातैः पावकैरुपशेभिते ।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृतै ॥ 5.1.167॥
वहता हव्यमत्यर्थं सेविते चित्रभानुना ।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ 5.1.168॥
महर्षिगणगन्धर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ 5.1.169॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥ 5.1.170॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।
जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ 5.1.171 ॥
प्रदृश्यमानस्सर्वत्र हनुमान् मारुतात्मजः ।
भेजे ऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥ 5.1.172 ॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ 5.1.173॥
आकाशगमनमतिदुष्करमित्यमुमर्थं कथयितुम् आकाशस्वरूपं वर्ण्यते–सेवित इत्यादिना श्लोकसप्तकेन । कैशिकाचार्यैः कैशिके रागविशेषे आचार्यैः विद्याधरविशेषैरित्यर्थः । वज्राशनिसमाघातैः पावकैः वज्राशनिसमाघातैर्हेतुभिर्जातैः पावकैः । हव्यं वहता देवेभ्यो हव्यवाहनार्थं गतेन चित्रभानुना वह्निना । विश्वे विश्वगते, व्यापक इत्यर्थः । देवराजगजाक्रान्ते ऐरावतभिन्नदिग्गजाक्रान्ते । विताने वितानतुल्ये । वितत इति वितानविशेषणम् ॥ 5.1.165173॥
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥ 5.1.174॥
अद्येति । दीर्घस्य कालस्य दीर्घकाले गेत सति अद्य आशिता आशित्री भुक्तवती भविष्यामि ॥ 5.1.174॥
इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ 5.1.175॥
इतीति । समाक्षिपत् सम्यग्गृहीतवती ॥ 5.1.175॥
समाक्षिप्तो ऽस्मि सहसा पङ्गूकृतपराक्रमः ।
प्रतिलोमेन वातेन महानौरिव सागरे ॥ 5.1.176॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।
ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥ 5.1.177॥
तदृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ 5.1.178॥
समाक्षिप्त इति । पङ्गूकृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकूलेन ॥ 5.1.176178॥
छायाग्राहि महावीर्यं तदिदं नात्र संशयः ।
स तां बुद्ध्वा ऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः ।
व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ 5.1.179॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।
वक्त्रं प्रसारयामास पातालान्तरसन्निभम् ॥ 5.1.180॥
छायाग्राहीति । तदिदं छायाग्राहि कपिराजेन कथितं नात्र संशय इति योजना ॥ 5.1.179,180॥
घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ 5.1.181 ॥
घनराजीवेति । समभिद्रवत् समभ्यद्रवत् ॥ 5.1.181 ॥
स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।
कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ 5.1.182॥
स ददर्शेति । कायमात्रं देहप्रमाणम् ॥ 5.1.182॥
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।
संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ 5.1.183॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ 5.1.184॥
स इति । मुहुस्संक्षिप्य संनिकर्षानुगुणं सङ्कुच्य ॥ 5.1.183,184॥
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।
उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ 5.1.185॥
तत इति । ततः तेन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ 5.1.185॥
तां तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य च ।
स कपिप्रवरो वेदाद्ववृधे पुनरात्मवान् ॥ 5.1.186॥
तामिति । दृष्ट्या दूरादेव दर्शनेन । धृत्या अस्य नियमनजननधार्ष्ट्येन । दाक्षिण्येन पाटवेन ॥ 5.1.186॥
हृतहृत् सा हनुमता पपात विधुरा ऽम्भसि ।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ॥ 5.1.187॥
हृतहृदिति । विधुरा आर्ता ॥ 5.1.187॥
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ।
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ 5.1.188॥
यस्य त्वेतानि चत्वारि वानरेन्द्र चथा तव ।
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ 5.1.189॥
भीममित्यादि । अरिष्टं शुभं यथा भवति तथा । यस्य सिंहिकारूपसत्त्वस्य । दृष्टिः आयतिक्षमसूक्ष्मेक्षणम् । मतिः अर्थतत्त्वनिश्चयः । क्रियावत्त्वं दाक्ष्यम् । यथा तव तथा यस्य चत्वारि सन्ति तत्त्वया हतम् । तान्येव चत्वार्याह धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति या दृष्टिर्नावसीदति या मतिर्नावसीदति यद्दाक्ष्यं नावसीदति एतानि चत्वारि यसय सन्ति तत्त्वया हतमिति यजना ॥ 5.1.188,189॥
स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः ।
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ 5.1.190॥
स इति. संभावितः पूजितः । प्रतिपन्नप्रयोजनः प्राक्प्रतिभासितकार्यसारः, स च स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ॥ 5.1.190॥
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ।
योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ 5.1.191॥
प्राप्तेति । प्राप्तभूयिष्ठपारः प्राप्तप्रायतीरः ॥ 5.1.191॥
ददर्श च पतन्नेव विविधद्रुमभूषितम् ।
द्वीपं शाकामृगश्रेष्ठो मलयोपवनानिच ॥ 5.1.192 ॥
ददर्शेति । मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलयः तस्योपवनानि ॥ 5.1.192॥
सागरं सागरानूपं सागरावनूपजान् द्रुमान् ।
सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ 5.1.193॥
स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् ।
निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ 5.1.194॥
सागरमिति । सागरस्य पत्नीनां नदीनां त्रिकूटोत्पन्नानाम् । आत्मानं स्वशरीरम् । मतिं चकार मेन इति यावत् ॥ 5.1.193,194॥
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।
मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ 5.1.195॥
कथं मेन इत्यत्राहकायवृद्धिमिति ॥ 5.1.195॥
ततः शरीरं संत्रिप्य तन्महीधरसन्निभम् ।
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ 5.1.196॥
तत इति । पुनः प्रकृतमिमापेदे पुनर्निजाकारं प्राप्तवान् ॥ 5.1.196॥
तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ।
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥ 5.1.197॥
उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति–तद्रूपमिति ॥ 5.1.197॥
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।
परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ 5.1.198॥
स चार्विति । प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः, अभूदिति शेषः । समीक्षितात्मा समीक्षितदेहः । समवेक्षितार्थः निरूपितकार्यः । पूर्वोक्तोपसंहारश्लोक एषः ॥ 5.1.198॥
ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे ।
सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ 5.1.199॥
तत इति । लम्बस्य लम्बमानस्येव स्थितस्य, अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । “कूटस्त्वस्त्रियां पुञ्जपालयोः” इति दर्पणः । उद्दालकाः श्लेष्मातकाः ॥ 5.1.199॥
ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।
कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान् ॥ 5.1.200॥
व्यथयन् मृगद्विजानित्यादिविशेषं वक्तुमुक्तमर्थमनुवदति– ततस्त्विति । समुद्रतीरं तीरोपर्याकाशम् । विधूय रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ॥ 5.1.200॥
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।
निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ 5.1.201॥
॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः ॥ 5.1॥
अस्मिन् सर्गे सार्द्धैकाधिकद्विशतश्लोकाः ॥ 5.1.201 ॥
इति श्रीगोविराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प्रथमः सर्गः ॥ 5.1 ॥