श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः॥67॥
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ 4.67.1 ॥
सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः ।
विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ॥ 4.67.2 ॥
प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः ।
त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ 4.67.3 ॥
संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।
समाविध्य च लाङ्गूलं हर्षाच्च बलमोयिवान् ॥ 4.67.4 ॥
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः ।
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ 4.67.5 ॥
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।
मारुतस्यौरसः पुत्त्रस्तथा सम्प्रति जृम्भते ॥ 4.67.6 ॥
तं दृष्ट्वेत्यादि । जृम्भमाणं वर्धमानम् ॥ 4.67.16 ॥
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।
अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ 4.67.7 ॥
हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः ।
अभिवाद्य हरीन्वृद्धान् हनुमानिदमब्रवीत् ॥ 4.67.8 ॥
अशोभतेति । आदिप्तमम्बरीषमिव स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावक इव अशोभत । अम्बरीषं भ्राष्ट्रम् । “क्लीबे ऽम्बरीषं भ्राष्टो ना” इत्यमरः ॥ 4.67.7,8 ॥
अरुजत्पर्वताग्राणि हुताशनसखो ऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ 4.67.9 ॥
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।
मारुतस्यौरसः पुत्त्रः प्लवने नास्ति मत्समः ॥ 4.67.10 ॥
अरुजदित्यादि । अनिलः गमनशीलः । “अन प्राणने” इत्यस्मादौणादिक इलप्रत्ययः । शीघ्रवेगस्य शीघ्राः वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । तत्साम्यमसहमानस्ततो ऽप्याधिक्यमाह शीघ्रगस्येति । यद्वा शीघ्रवेगस्य अत एव शीघ्रगस्य ॥ 4.67.9,10 ॥
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ 4.67.11 ॥
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ 4.67.12 ॥
ममोरुजङ्घवेगेन भविष्यति समुत्थितः ।
समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः ॥ 4.67.13 ॥
उत्सहेयमिति । विस्तीर्णमिति मेरुविशेषणम् । वानरसेनाभयनिवृत्यर्थं स्वोत्कर्षंमपि स्वयं निवेदयति ॥ 4.67.1113 ॥
पन्नगाशनमाकाशे पतन्तं पक्षिसेविते ।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ 4.67.14 ॥
पन्नगाशनं स्वोचिताहारलाभाय निरवधिकत्वरामसम्पन्नम् । यद्वा आहारग्रहणत्वरया सर्वेषां भयावहम् । पतन्तं न तु वर्तमानम् । आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति स्वपरिकरसम्पत्तिरुच्यते । वैनतेयं विनतापुत्रम् । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं तस्यापि प्राणदातुः पुत्रः । परिगन्तुं परितो गन्तुं प्रदक्षिणीकर्तुम् । सहस्रशः एकयत्नेन सहस्रशः परिगन्तुं शक्तः । आजानसिद्धसामर्थ्यो ऽस्मि ॥ 4.67.14 ॥
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।
अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ 4.67.15 ॥
उदयात् प्रस्थितम् उदयगिरेर्निर्गच्छन्तम् आदित्यं स्वस्थानात् प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्यानस्तमितं ज्वलन्तं रश्मिमालिनमादित्यमभिगन्तुं प्रत्युद्गन्तुं समुत्सहे । ज्वलन्तमित्यनेन मध्याह्न एवाभिगमनं सूच्यते ॥ 4.67.15 ॥
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ 4.67.16 ॥
ततः सूर्यप्रत्युद्गमनानन्तरम् । भूमिमसंस्पृश्य कुत्राप्यविश्रम्य भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुनरप्येकवारं सूर्यमभिगन्तुमुत्सह इत्यर्थः । शतयोजनस्थां लङ्कां गन्तुं किमुत? इति भावः ॥ 4.67.16 ॥
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।
सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ 4.67.17 ॥
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः ।
हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ 4.67.18 ॥
उत्सहेयमिति । आकाशगोचरान् ग्रहनक्षत्रादीन् ॥ 4.67.17,18 ॥
लतानां विविधं पुष्पं पादपानां च सर्वशः ।
अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ 4.67.19 ॥
लतानामिति । पुष्पमिति जात्येकवचनम् ॥ 4.67.19 ॥
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ॥ 4.67.20 ॥
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ।
महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ॥ 4.67.21 ॥
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ।
विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ।
सागरं क्षोभयिष्यामि प्लवमानः समाहितः ॥ 4.67.22 ॥
भविष्यतीति । स्वातेः पन्थाः परिपूर्णताराच्छायापथः ॥ 4.67.2022 ॥
वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥ 4.67.23 ॥
ऋते सुपर्णराजानं मारुतं वा महाजवम् ।
न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ 4.67.24 ॥
निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ 4.67.25 ॥
भविष्यति हि मे रूपं प्लवमानस्य सागरे ।
विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव ॥ 4.67.26 ॥
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ 4.67.27 ॥
मारुतस्य समो वेगे गरुडस्य समोजवे ।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ 4.67.28 ॥
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।
विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ 4.67.29 ॥
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ।
तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ॥ 4.67.30 ॥
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ।
तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ 4.67.31 ॥
उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम् ।
वीरकेसरिणः पुत्र हनुमन् मारुतात्मज ॥ 4.67.32 ॥
ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः ।
तव कल्याणरुचयः कपिमुख्याः समागताः ॥ 4.67.33 ॥
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ।
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ 4.67.34 ॥
वैनतेयस्येति । मम या शक्तिः सा मारुतस्य वैनतेयस्य वेति सम्बन्धः ॥ 4.67.2334 ॥
स्थास्यामश्चैकपादेन यावदागमनं तव ।
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ।
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ 4.67.35 ॥
स्थास्यामश्चैकपादेन, तथा सत्वराः स्मेत्यर्थः ॥ 4.67.35 ॥
नेयं मम मही वेगं लङ्घने धारयिष्यति ।
एतानीह नगस्यास्य शिलासङ्कटशालिनः ।
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥ 4.67.36 ॥
एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् ।
नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु ॥ 4.67.37 ॥
एतानि मम निष्पेषं पादयोः प्लवतां वराः ।
प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ 4.67.38 ॥
ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः ।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ 4.67.39 ॥
वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ॥ 4.67.40 ॥
नेयमित्यादि । शिलासङ्कटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । “सङ्कटो दन्तुरे तुङ्गे विपद्रोगविशेषयोः” इति विश्वः ॥ 4.67.3640 ॥
सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ।
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ॥ 4.67.41 ॥
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।
विचचार हिरश्रेष्ठो महेन्द्रसमविक्रमः ॥ 4.67.42 ॥
पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ।
रराज सिंहाभिहतो महान्मत्त इव द्विपः ॥ 4.67.43 ॥
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ॥ 4.67.44 ॥
सलिलोत्पीडैः सलिलप्रवाहैः सङ्कुलम् ॥ 4.67.4144 ॥
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ।
नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ 4.67.45 ॥
उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ।
त्यज्यमानमहासानुः सन्निलीनमहोरगः ॥ 4.67.46 ॥
पानसंसर्गकर्कशैः पानसंसर्गदृढैः । “कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्” इत्यमरः । पानप्रवृत्तौ दृढाभिनिवेशैरित्यर्थः ॥ 4.67.45,46 ॥
चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ।
निःश्वसद्भिस्तदा ऽ ऽर्तैस्तु भजङ्गैरर्धनिस्सृतैः ॥ 4.67.47 ॥
सपताक इवाभाति स तदा धरणीधरः ॥ 4.67.48 ॥
उद्धातः समूहः ॥ 4.67.47,48 ॥
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः ।
सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ 4.67.49 ॥
ऋषिभिरिति । सार्थहीनः, अभूदिति शेषः ॥ 4.67.49 ॥
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।
मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ 4.67.50 ॥
इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ 67 ॥
स इति । वेगसमाहितात्मा वेगविषये समर्पितमनाः । मनः समाधाय मनः समाहितं कृत्वा ॥ 4.67.50 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ 67 ॥
इत्थं शठारिगुरुवर्यपदारविन्द
सेवारसाधिगतसर्वरहस्यबोधः ।
गोविन्धराजविबुधः प्रमुदे बुधानां
कैष्किन्धकाण्डविषयां विततान टीकाम् ॥
॥ इति किष्किन्धाकाण्डः समाप्तः ॥