श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ 4.66.1 ॥
वीर वानरलोकस्य सर्वशास्त्रविशारद ।
तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ॥ 4.66.2 ॥
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ 4.66.3 ॥
अनेकेत्यादि ॥ 4.66.13 ॥
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥ 4.66.4 ॥
बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजगानुद्धरन् पक्षी महावेगो महायशाः ॥ 4.66.5 ॥
अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमार्षम् ॥ 4.66.4,5 ॥
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ॥ 4.66.6 ॥
पक्षयोरिति । अत्र समानपदमध्याहार्यम् । विक्रमादिकं तेन गरुत्मना समानम् । नावहीयते न न्यूनं भवति । तेनेति पञ्चम्यर्ते तृतीया ॥ 4.66.6 ॥
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ 4.66.7 ॥
विशिष्टं श्रेष्ठम् ॥ 4.66.7 ॥
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ 4.66.8 ॥
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ॥ 4.66.9 ॥
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी ॥ 4.66.10 ॥
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ।
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ।
अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥ 4.66.11 ॥
अप्सरेति निर्देश आर्षः ॥ 4.66.811 ॥
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।
स्थितायाः पर्वतस्याग्रे मारुतो ऽपहरच्छनैः ॥ 4.66.12 ॥
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ 4.66.13 ॥
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ।
दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ॥ 4.66.14 ॥
रक्तदशं रक्ताग्रम् ॥ 4.66.1214 ॥
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ।
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ 4.66.15 ॥
सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् ।
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ।
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ 4.66.16 ॥
स तामिति । तां गतात्मा तद्गतचित्तः । तां पर्यष्वजतेति सम्बन्धः ॥ 4.66.15,16 ॥
न त्वां हिंसामि सुश्रोणि माभूत्ते सुभगे भयम् ।
मनसा ऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥ 4.66.17 ॥
नेति । न हिंसामि पातिव्रत्यान्न प्रच्यावयामि ॥ 4.66.17 ॥
वीर्यवान् बुद्धिसम्पन्नस्तव पुत्त्रो भविष्यति ।
महासत्त्वो महातेजा महाबलपराक्रमः ।
लङ्घने प्लवने चैव भविष्यति मया समः ॥ 4.66.18 ॥
एवमुक्ता ततस्तुष्टा जननी ते महाकपे ।
गुहायां त्वं महाबाहो प्रजज्ञे प्लवगर्षभम् ॥ 4.66.19 ॥
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ॥ 4.66.20 ॥
न केवलं पातिव्रत्यभङ्गाभावः, श्रेयो ऽपि भविष्यतीत्याह वीर्यवानिति ॥ 4.66.1820 ॥
शतनि त्रीणि गत्वा ऽथ योजनानां महाकपे ।
तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥ 4.66.21 ॥
तावदापततस्तूर्णमन्तरिक्षं महाकपे ।
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ॥ 4.66.22 ॥
तदा शैलाग्रशिखरे वामो हनुरभज्यत ।
ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ 4.66.23 ॥
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।
त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः ॥ 4.66.24 ॥
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति ।
प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ॥ 4.66.25 ॥
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।
अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ 4.66.26 ॥
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ 4.66.27 ॥
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ।
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥ 4.66.28 ॥
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।
[ ईदृशस्य हि ते तात वर्णयामः कथं बलम् ।
कार्यं च लोकसम्मान्यं कर्तुं शक्तस्त्वमेव हि ।
भवान् जीवातवे ऽस्माकमञ्जनागर्भसम्भवः ।]
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ 4.66.29 ॥
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।
दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः ॥ 4.66.30 ॥
शतानि त्रीण्येतदनेकशतयोजनानामुपलक्षणम् । “बहुयोजनसाहस्रं क्रामत्येषः” इत्युत्तरकाण्डे वक्ष्यमाणत्वात् ॥ 4.66.2130 ॥
त्रिविक्रमे मया तात सशैलवनकानना ।
त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ 4.66.31 ॥
तथा चौषधयो ऽस्माभिः सञ्चिता देवशासनात् ।
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ 4.66.32 ॥
स इदानीमहं वृद्धः परिहीनपराक्रमः ।
साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ॥ 4.66.33 ॥
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।
त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहीनी ॥ 4.66.34 ॥
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।
परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥ 4.66.35 ॥
विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे ।
विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ॥ 4.66.36 ॥
ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ॥ 4.66.37 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥ 66 ॥
त्रिविक्रम इति । पृथिवीत्यनेनाण्डकटाहमध्य उक्तः । तस्याः त्रिःसप्तकृत्वः क्रमणं मध्यप्रदेशे । यद्वा यावती महाबलिभूमिः तावती पृथिवी अत्र विवक्षिता । तस्याः प्रदक्षिणं तद्बहिःप्रदेशेन सङ्गच्छते । यद्वा क्रमणानन्तरं जाम्बवान् विजयघोषणार्थं पृथिवीमात्रप्रदक्षिणं कृतवानिति प्रसिद्धिः । अन्यत्सर्वमतिरोहितार्थम् ॥ 4.66.3137 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्षष्ठितमः सर्गः ॥ 66 ॥