श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः
ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः ।
स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥ 4.65.1 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ 4.65.2 ॥
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ 4.65.3 ॥
गवयो वानरस्तत्र वानरांस्तानुवाच ह ।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ 4.65.4 ॥
शरभस्तानुवाचाथ वानरान् वानरर्षभः ।
चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ॥ 4.65.5 ॥
वानरस्तु महातेजा अब्रवीद्गन्धमादनः ।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ 4.65.6 ॥
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ 4.65.7 ॥
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ॥ 4.65.8 ॥
सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान् ।
अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ॥ 4.65.9 ॥
ततो ऽङ्गदवच इत्यादि । गतौ गमनविषये । यद्यपि गजादयो ऽपि शतयोजनलङ्घने शक्ताः, “भूतले सागरे वा ऽपि शैलेषु च वनेषु च । पातालस्यापि मध्ये वा न ममाच्छिद्यते गतिः ।” इति सुग्रीवसन्निधौ वानरयूथपैः स्वस्वशक्तेः ख्यापितत्वात् “नहि वो गमने सङ्गः कदाचित्कस्यचित्क्वचित्” इति पूर्वमङ्गदोक्तेश्च । तथापि रावणाधिष्ठितलङ्काप्रवेशसीतान्वेषणादिकं दुष्करमन्येनेति तत्साधकहनुमत्प्रोत्साहनाय तथोक्तवन्त इति ध्येयम् ॥ 4.65.19 ॥
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥ 4.65.10 ॥
पूर्वमस्माकमप्यासीत् कश्चिद्गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥ 4.65.11 ॥
किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ 4.65.12 ॥
साम्प्रतं कालभेदेन या गतिस्तां निबोधत ।
नवतिं योजनानां तु गमिष्यामि न संशयः ।
तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत् ॥ 4.65.13 ॥
न खल्वेतावदेवासीद्गमने मे पराक्रमः ।
मया महाबलेश्चैव यज्ञे विष्णुः सनातनः ॥ 4.65.14 ॥
तेषामिति । तेषां कथयतां तेषु कथयत्सु सत्सु ॥ 4.65.1014 ॥
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ।
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ॥ 4.65.15 ॥
यौवने च तदा ऽ ऽसीन्मे बलमप्रतिमं परैः ।
सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ॥ 4.65.16 ॥
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ।
अथोत्तरमुदारार्थमब्रवीङ्गदस्तदा ॥ 4.65.17 ॥
अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः ।
अहमेतद्गमिष्यामि योजनानां शतं महत् ॥ 4.65.18 ॥
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चिता ।
तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ॥ 4.65.19 ॥
त्रयाणां विक्रमाणां समाहारः त्रिविक्रमम् ॥ 4.65.1519 ॥
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ 4.65.20 ॥
ज्ञायत इति । हर्यृक्षसत्तमेति । ऋक्षत्वं वानरावान्तरजातिः, अतः सुग्रीवादेः ऋक्षराजत्वमिति ॥ 4.65.20 ॥
कामं शतं सहस्रं वा नह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ 4.65.21 ॥
काममिति । भवान् योजनानां शतं सहस्रं वा गन्तुं प्रतिनिवर्तितुं च कामं शक्तः । एष विधिः भृत्यैः स्वामिप्रस्थापनं नोच्यते न विधीयते ॥ 4.65.21 ॥
नहि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन ।
भवता ऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ 4.65.22 ॥
तदेव विवृणोति नहीति ॥ 4.65.22 ॥
भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।
स्वामी कलत्रं सैन्यस्य गरितेषा परन्तप ।
तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ॥ 4.65.23 ॥
अपि चैतस्य कार्यस्य भवान् मूलमरिन्दम ।
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले हि सति सिद्ध्यन्ति गुणाः पुष्पफलोदयाः ॥ 4.65.24 ॥
तद्भवानस्य कार्यस्य साधने सत्यविक्रम ॥ 4.65.25 ॥
बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप ।
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ॥ 4.65.26 ॥
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ।
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ॥ 4.65.27 ॥
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ।
यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः ॥ 4.65.28 ॥
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ।
न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः ॥ 4.65.29 ॥
तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ।
न हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ॥ 4.65.30 ॥
अतीत्य तस्य सन्देशं विनाशो गमने भवेत् ।
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ॥ 4.65.31 ॥
तद्भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति ।
सो ऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ॥ 4.65.32 ॥
जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततो ऽङ्गदम् ।
अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते ।
एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ॥ 4.65.33 ॥
कलत्रं रक्षणीयं वस्तु ॥ 4.65.2333 ॥
ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ।
सञ्चोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ 4.65.34 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥ 65 ॥
तत इति । प्रतीतं प्रख्यातम् ॥ 4.65.34 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ 65 ॥