०६२ सम्पातिना स्वकथानिरूपणम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ।

अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ 4.62.1 ॥

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।

प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ॥ 4.62.2 ॥

पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् ।

दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ 4.62.3 ॥

राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ॥

तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ 4.62.4 ॥

एवमुक्त्त्वेत्यादि ॥ 4.62.14 ॥

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।

अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥ 4.62.5 ॥

नैर्र्ऋतो रावणो नाम तस्य भार्यां हरिष्यति ।

राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥ 4.62.6 ॥

अरण्यमिति । अस्मिन्नर्थे अरण्यगमने ॥ 4.62.5,6 ॥

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।

न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ 4.62.7 ॥

काम्यन्त इति कामैः अपेक्षणीयैः । प्रलोभ्यन्ती प्रलोभ्यमाना ॥ 4.62.7 ॥

परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ।

यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ 4.62.8 ॥

तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ।

अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ 4.62.9 ॥

यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।

देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ 4.62.10 ॥

एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः ।

आख्येया राममहिषी त्वया तेभ्यो विहङ्गमाः ॥ 4.62.11 ॥

सर्वथा हि न गन्तव्यमीदृशः क्क गमिष्यसि ।

देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ 4.62.12 ॥

नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।

इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ 4.62.13 ॥

परमान्नमिति । ज्ञात्वा, अनश(ना)नमिति शेषः ॥ 4.62.813 ॥

त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ।

ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ 4.62.14 ॥

इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ ।

नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ।

महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ॥ 4.62.15 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ 62 ॥

त्वयापीति । नृपपुत्रयोः तत्प्रयोजनं त्वयापि कार्यं कर्तव्यम् । ब्राह्मणादीनां च कार्यमिति सम्बन्धः ॥ 4.62.14,15 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ 62 ॥