०६० सम्पातिना स्वकथानिरूपणम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।

उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ 4.60.1 ॥

ततः कृतोदकमित्यादि ॥ 4.60.1 ॥

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ।

जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् ॥ 4.60.2 ॥

कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम ।

तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् ॥ 4.60.3 ॥

अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने ।

सूर्यातप परीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ 4.60.4 ॥

तमिति । जनितप्रत्ययः जनितविश्वासो यथा भवति तथा ऽब्रवीदिति योजना ।

वानरदर्शनरूपस्वकार्यतो जनितविश्वास इत्यर्थः ॥ 4.60.24 ॥

लब्धसञ्ज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ।

वीक्षमाणो दिशः सर्वा नाभिजानामि किञ्चन ॥ 4.60.5 ॥

ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।

वनान्युदधिवेलां च समीक्ष्य मतिरागमत् ॥ 4.60.6 ॥

विह्वलन्निव मूर्छन्निव ॥ 4.60.5,6 ॥

हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् ।

दक्षिणस्योदधेस्तीरे विन्ध्यो ऽयमिति निश्चयः ॥ 4.60.7 ॥

हृष्टेति । निश्चयः, अभूदिति शेषः ॥ 4.60.7 ॥

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।

ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपा भवत् ॥ 4.60.8 ॥

भवत् अभवत् ॥ 4.60.8 ॥

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ।

वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥ 4.60.9 ॥

अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ।

तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ 4.60.10 ॥

तमृषिं द्रष्टुकामो ऽस्मि दुःखेनाभ्यागतो भृशम् ।

जटायुषा मया चैव बहुशो ऽधिगतो हि सः ॥ 4.60.11 ॥

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।

वृक्षो वा ऽपुष्पितः कश्चिदफलो वा न विद्यते ॥ 4.60.12 ॥

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।

द्रष्टुकामः प्रतीक्षो ऽहं भगवन्तं निशाकरम् ॥ 4.60.13 ॥

अथापश्यमदूरस्थमृषिं ज्वलिततेजसम् ।

कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ 4.60.14 ॥

तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः ।

परिवार्योपगच्छन्ति धातारं प्राणिनो यथा ॥ 4.60.15 ॥

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।

प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ 4.60.16 ॥

ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः ।

मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ॥ 4.60.17 ॥

वर्षसहस्राणि, गतानीति शेषः ॥ 4.60.917 ॥

सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते ।

अग्निदग्धाविमौ पक्षौ त्वक् चैव व्रणिता तव ॥ 4.60.18 ॥

गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।

गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ 4.60.19 ॥

ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव ।

मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ 4.60.20 ॥

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।

दण्डो वा ऽयं कृतः केन सर्वमाख्याहि पृच्छतः ॥ 4.60.21 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः ॥ 60 ॥

सौम्येति । विकल एव वैकल्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तस्य भावो वैकल्यता । व्रणिता सञ्जातव्रणा । ते नावगम्यत इत्यत्र त इति भिन्नं पदम् । हे सौम्य ते रोम्णां वैकल्यतां दृष्ट्वा नावगम्यते, स्वरूपमिति शेषः । रोमविकलत्वहेतुः अग्निदग्धाविति दृश्येते इति शेषः । व्रणितेत्यत्र दृश्यत इति शेषः ॥ 4.60.1821 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्टितमः सर्गः ॥ 60 ॥