श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥ 4.59.1 ॥
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः ।
भूतलात्सहसोत्थाय गृध्रराजमथाभ्रवीत् ॥ 4.59.2 ॥
क्क सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ॥ 4.59.3 ॥
को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥ 4.59.4 ॥
स हरीन् प्रीतिसंयुक्तान् सीताश्रुतिसमाहितान् ।
पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥ 4.59.5 ॥
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाख्यातं यत्र वा ऽ ऽयतलोचना ॥ 4.59.6 ॥
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ 4.59.7 ॥
तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः ।
आहारेण यथाकालं बिभिर्ति पततां वरः ॥ 4.59.8 ॥
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ 4.59.9 ॥
स कदाचित् क्षुधार्तस्य ममाहाराभिकाङिणः ।
गतसूर्ये ऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ 4.59.10 ॥
स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।
क्षुत्पिपासापरीतेन कुमारः पततां वरः ॥ 4.59.11 ॥
स मामाहारसंरोधात् पीडितं प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ 4.59.12 ॥
अहं तात यथाकालमामिषार्थी खमाप्लुतः ।
महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ॥ 4.59.13 ॥
ततः सत्त्वसहस्राणां सागरान्तरचारिणाम् ।
पन्थानमेको ऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ 4.59.14 ॥
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयप्रभः ॥ 4.59.15 ॥
सो ऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ 4.59.16 ॥
न हि सामोपपन्नानां प्रहर्ता विद्यते क्कचित् ।
नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥ 4.59.17 ॥
ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान् विनापि कथासङ्घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच्च । तथापि ते व्याख्यास्यन्ते तत इत्यादि । हृष्टाः रोमाञ्चाञ्चिताः । बभूवुरिति शेषः ॥ 4.59.117 ॥
स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः ।
अथाहं खचरैर्भूतैरभिगम्य सभाजितः ॥ 4.59.18 ॥
स यात इति । सभाजितः पूजितः ॥ 4.59.18 ॥
दिष्ट्या जीवसि तातेति ह्यब्रुवन् मां महर्षय ।
कथञ्चित् सकलत्रो ऽसौ गतस्ते स्वस्त्यसंशयम् ।
एवमुक्तस्ततो ऽहं तैः सिद्धः परमशौभनैः ॥ 4.59.19 ॥
दिष्ट्येति । असौ सकलत्रः सरक्ष्यवर्गः । अतः कथञ्चित् गतः । अतस्ते स्वस्त्यासीत् असंशयम् इति मां महर्षयो ऽब्रुवन्निति योजना ॥ 4.59.19 ॥
स च मे रावणो राजा रक्षसां प्रतिवेदितः ।
हरन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् ॥ 4.59.20 ॥
भ्रष्टाभऱणकौशेयां शोकवेगपराजिताम् ।
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्द्धजाम् ॥ 4.59.21 ॥
मे मया । प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदम् ॥ 4.59.20,21 ॥
एष कालात्ययस्तावदिति कालविदां वरः ।
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ॥ 4.59.22 ॥
तच्छ्रुत्वा हि मे बुद्धिर्नासीत्काचित्पराक्रमे ।
अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे ॥ 4.59.23 ॥
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ।
श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ॥ 4.59.24 ॥
कालात्ययः कालातिक्रमहेतुः, रावणदर्शनमिति भावः ॥ 4.59.2224 ॥
वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ।
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ॥ 4.59.25 ॥
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।
प्रेषिताः कपिराजेन देवैरपि दुरासदाः ॥ 4.59.26 ॥
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्ित्रणः ।
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ 4.59.27 ॥
कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।
भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ॥ 4.59.28 ॥
वागिति । सर्वेषां वः युष्माकं वाङ्मतिभ्यां प्रियं करिष्यामि हि । दाशरथेर्यत्कार्यं तन्ममैव ॥ 4.59.2528 ॥
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ।
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 4.59.29 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥ 59 ॥
कालसङ्गेन कालविलम्बेन ॥ 4.59.29 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ 59 ॥