श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः
श्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ 4.55.1 ॥
अथ हरीणां प्रायोपवेशः पञ्चपश्चाशे श्रुत्वेत्यादि ॥ 4.55.1 ॥
स्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् ।
विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ 4.55.2 ॥
स्थैर्यं स्थिरबुद्धिता । आत्ममनःशौचम् आत्मशुद्धिः मनसः शैचम्, अन्तःकरणशुद्धिश्चेत्यर्थः । धैर्यं गाम्भीर्यम् ॥ 4.55.2 ॥
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।
धर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः ।
कथं स धर्मं जानीते येन भ्रात्रा महात्मना ॥ 4.55.3 ॥
मनःशौचाभावमुपपादयति भ्रातुरिति । स कथं धर्मं जानीत इति वक्ष्यमाणमाकृष्यते । जीवत इत्यनेन भ्रातुर्मरणानन्तरं तद्भार्यापरिग्रहः कुलधर्म इत्यवगम्यते ॥ 4.55.3 ॥
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ 4.55.4 ॥
आनृशंस्याभावमुपपादयति युद्धायेति । युद्वायाभिनियुक्तेन, द्वारान्निर्गतस्य शत्रोः युद्धायवालिना नियुक्तेनेत्यर्थः ॥ 4.55.4 ॥
सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ।
विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ 4.55.5 ॥
आर्जवाभावमुपपादयति सत्यादिति । पाणिगृहीतः पाणौ गृहीतः ॥ 4.55.5 ॥
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ।
आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥ 4.55.6 ॥
तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ।
आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ 4.55.7 ॥
कथं तर्हि सेनामानीतवान् सुग्रीव इत्याशङ्क्याह लक्ष्मणस्येति । नाधर्मभयभीरुणा, भयशब्दो ऽत्र भयहेतुपरः, अधर्मरूपभयहेतोर्भीरुणा न च, किन्तु लक्ष्णस्य भयात् लक्ष्मणदण्डनिमित्तभयादित्यर्थः ॥ 4.55.6,7 ॥
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणो ऽपि वा ।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ 4.55.8 ॥
तव यौवराज्यस्थापनं किं विस्मृतो ऽसीत्यत्राह राज्य इति । पुत्रः जनिष्यमाणः स्वपुत्रः ॥ 4.55.8 ॥
भिन्नमन्त्रो ऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ।
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ 4.55.9 ॥
भिन्नमन्त्रः प्रकाशितविगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः । यद्वा पितृहिंसनेन सञ्जातापराधः ॥ 4.55.9 ॥
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् ।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ 4.55.10 ॥
उपांशुदण्डेन रहस्यदण्डरूपेण । उपपादयेत् प्रापयेत् ॥ 4.55.10 ॥
बन्धनाद्वा ऽवसादान्मे श्रेयः प्रायोपवेशनम् ।
अनुजानीत मां सर्वे गृगं गच्छन्तु वानराः ॥ 4.55.11 ॥
अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ 4.55.12 ॥
बन्धनाद्वा ऽवसादान्म इति । वेति प्रसिद्धौ । बन्धनरूपावसादात् ॥ 4.55.11,12 ॥
अभिवादनपूर्वं तु राघवौ बलशालिनौ ।
अभिवादनपूर्वं तु राजा कुशलमेव च ।
वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ 4.55.13 ॥
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ।
मातरं चैव मे तारामाश्वासयितुमर्हथ ॥ 4.55.14 ॥
अभिवादनेति । राघवौ कुशलं वाच्यावित्यनुषङ्गः ॥ 4.55.13,14 ॥
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ।
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ 4.55.15 ॥
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ।
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ॥ 4.55.16 ॥
तपस्विनी शोचनीया ॥ 4.55.15,16 ॥
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ।
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ 4.55.17 ॥
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ।
परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ॥ 4.55.18 ॥
तस्य संविशतस्तस्मिन् संविशति । संवेशः शयनम् ॥ 4.55.17,18 ॥
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ।
उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् ॥ 4.55.19 ॥
तत्र विन्ध्ये ॥ 4.55.19 ॥
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ।
मुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म ह ॥ 4.55.20 ॥
उदक्तीरं समुद्रस्योत्तरतीरम् । एतत् प्रायोपवेशनं क्षममिति, मत्वेति शेषः ॥ 4.55.20 ॥
रामस्य वनवासं च क्षयं दशरथस्य च ।
जनस्थानवधं चैव वधं चैव जटायुषः ॥ 4.55.21 ॥
जनस्थानवधं जनस्थानस्थरक्षोवधम् ॥ 4.55.21 ॥
हरणं चैव वैदेह्या वालिनश्च वधं रणे ।
रामकोपं च वदतां हरीणां भयमागतम् ॥ 4.55.22 ॥
स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ।
बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ 4.55.23 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ 55 ॥
आगतं भयं प्रायोपवेशनरूपभयनिमित्तं च वदतां वदत्सु च स महीधरो भृशं सन्नादितनिर्दरान्तरो बभूवेत्युत्तरेणान्वयः । अस्मिन्सर्गे सार्धत्रयोविंशतिश्लोकाः ॥ 4.55.22,23 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ 55 ॥