श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ॥ 4.53.1 ॥
अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे एवमुक्त इत्यादि ॥ 4.53.1 ॥
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।
यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना ॥ 4.53.2 ॥
स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् ।
सा त्वमस्माद्विलाद् घोरादुत्तारयितुमर्हसि ॥ 4.53.3 ॥
तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः ।
त्रातुमर्हसि नः सर्वान् सुग्रीवभयकर्शितान् ॥ 4.53.4 ॥
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।
तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ॥ 4.53.5 ॥
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ 4.53.6 ॥
तपसस्तु प्रभावेन नियमोपार्जितेन च ।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥ 4.53.7 ॥
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥ 4.53.8 ॥
ततः सम्मीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ॥ 4.53.9 ॥
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ 4.53.10 ॥
शरणमित्यादि । बिले च परिवर्तताम् इत्यनेन बहुकालं वानरैर्बिले स्थितमिति गम्यते ॥ 4.53.210 ॥
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।
निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ 4.53.11 ॥
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः ।
एष प्रस्रवणः शैलः सागरो ऽयं महोदधिः ॥ 4.53.12 ॥
स्वस्ति वो ऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा ॥ 4.53.13 ॥
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ॥ 4.53.14 ॥
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ 4.53.15 ॥
तत इति । विषमात् सङ्कटप्रदेशात् ॥ 4.53.1115 ॥
विन्ध्यस्यतु गिरेः पादे सम्प्रपुष्पितपादपे ।
उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ 4.53.16 ॥
पादे दक्षिणपार्श्वे, दक्षिणपश्चिमकोटावित्यर्थः । “हिमवद्विन्द्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा” इति भेषजकल्पोक्तिः ॥ 4.53.16 ॥
ततः पुष्पातिभाराग्रान् लताशतसमावृतान् ।
द्रुमान् वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥ 4.53.17 ॥
पुष्पातिभाराग्रान् पुष्पैरतिभाराणि अग्राणि येषां तान् । वासन्तिकान् वसन्तफलिनश्चूतदीन् । ये वसन्ते फलन्ति ते शिशिरे पुष्प्यन्ति । भयशङ्किताः सुग्रीवाद्भयविषयशङ्कावन्तः ॥ 4.53.17 ॥
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम् ।
नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥ 4.53.18 ॥
ततस्तान्कपिवृद्धांस्तु शिष्टां श्चैव वनौकसः ।
वाचा मधुरया ऽ ऽभाष्य यथावदनुमान्य च ॥ 4.53.19 ॥
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥ 4.53.20 ॥
त इति । वसन्तम् अनुप्राप्तं प्रत्यासन्नम् । तदानीं हि शिरिरः । तथाहि शरत्कालान्ते मार्गशीर्षे मासि सेनां सन्निधाप्य पौषमासमवधिं कृत्वा प्रस्थापितवान् । स पौषो माघश्चातीतः । फाल्गुन एव प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव, न प्राप्तः ॥ 4.53.1820 ॥
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ॥ 4.53.21 ॥
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः ।
प्रस्थिताः सो ऽपि चातीतः किमतः कार्यमुत्तरम् ॥ 4.53.22 ॥
शासनादित्यादि । वयमाश्वयुजे मासीति कालसङ्ख्याव्यवस्थिताः कालसङ्ख्यया नियमिताः । वयम् आश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण पञ्चदशरात्रसङ्ख्यया नियम्य समाहूताः । ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पौषमासमवधिं कृत्वा तेन प्रेषिताः । एवमाश्वयुजमासमारभ्य कालसङ्ख्याव्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । अन्ये तु आश्वयुजे मासि दशम्यामुत्थितायामितिवत्सामीपिकाधिकरणविवक्षया सप्तमी । तेन “कार्तीके समनुप्राप्ते त्वं रावणवधथे यत” इत्युक्तकालातिक्रमणप्रयुक्तरामकोपदर्शनात् कार्त्तिकान्तो विवक्षितः । सो ऽपि चातीतः स मार्गणावधिभूतमार्गशीर्षमासः । अपिचेत्याभ्यां पदाभ्यां तदनन्तरभूतौ पौषमाघौ समुच्चीयेते । अतश्च फाल्गुन एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्यम् ॥ 4.53.21,22 ॥
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः ।
हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥ 4.53.23 ॥
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः ।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥ 4.53.24 ॥
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ।
हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत् ॥ 4.53.25 ॥
प्रत्ययं विश्वासम् । नीतिमार्गे विशारदाः प्रगल्भाः । निसृष्टाः दक्षा इति यावत् ॥ 4.53.2325 ॥
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ 4.53.26 ॥
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ 4.53.27 ॥
तस्मिन्निति । प्रायाय अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनम् ॥ 4.53.26,27 ॥
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥ 4.53.28 ॥
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।
ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः ।
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः ॥ 4.53.29 ॥
अप्रवृत्तौ अवार्तायाम् । प्रायोपविशनमिति गुणाभाव आर्षः ॥ 4.53.28,29 ॥
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।
नरेन्द्रेणाभिषिक्तो ऽस्मि रामेणाक्लिष्टकर्मणा ॥ 4.53.30 ॥
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥ 4.53.31 ॥
त्वां यौवराज्ये कृतवान् सुग्रीवः कथं हिंस्यादित्यत्राह न चाहमिति ॥ 4.53.30,31 ॥
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ 4.53.32 ॥
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ 4.53.33 ॥
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।
अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ॥ 4.53.34 ॥
राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ 4.53.35 ॥
मे जीवितान्तरे जीवितावधौ व्यसनं पश्यद्भिः सुहृद्भिः किम्? सुहृहो मद्व्यसनप्रदर्शनेन क्लेशयित्वा मम किं प्रयोजनमित्यर्थः ॥ 4.53.3235 ॥
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ।
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ 4.53.36 ॥
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे ।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ 4.53.37 ॥
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् ।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतो ऽपि वा ॥ 4.53.38 ॥
इहैवेति । सीतामन्विष्य तस्याः प्रवृतिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम नोचेदिहैव यमक्षयं यमगृहं गमिष्यामः ॥ 4.53.3638 ॥
श्रुत्वा ऽङ्गदस्यापि वचो ऽनुकूलमूचुश्च सर्वे५ हरयः प्रतीताः ।
यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ॥ 4.53.39 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥ 53 ॥
श्रुत्वेति । अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः । विधानं कार्यम् । कर्मणि ल्युट् । असक्तम् अविलम्बम् । अस्मिन् सर्गे सार्धैकोनचत्वारिंशच्छ्लोकाः ॥ 4.53.39 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ 53 ॥