०४९ लोपामुद्रायाः सप्तपर्णवने सीतान्वेषणम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः

अेथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ।

परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ 4.49.1 ॥

वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।

दर्यो गिरिगुहाश्चैव विचितानि समन्ततः ॥ 4.49.2 ॥

तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।

तद्वा रक्षो हृता येन सीता सुरसुतोपमा ॥ 4.49.3 ॥

कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः ।

तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ 4.49.4 ॥

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।

विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥ 4.49.5 ॥

पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे अथाङ्गद इत्यादि । सह युगपत् ॥ 4.49.15 ॥

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः ।

कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥ 4.49.6 ॥

दाक्ष्यम् उत्साहः “दक्ष उत्साह” इत्युक्तेः । मनसश्चापराजयः, धैर्यमित्यर्थः ॥ 4.49.6 ॥

अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः ।

खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम् ॥ 4.49.7 ॥

वनमेतत् विचीयताम् अन्विष्यताम् ॥ 4.49.7 ॥

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ।

अलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥ 4.49.8 ॥

सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः ।

भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ 4.49.9 ॥

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।

उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ 4.49.10 ॥

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।

उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ 4.49.11 ॥

सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।

हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ 4.49.12 ॥

मीलनं नेत्रमीलनम्, कर्तव्यमकृत्वा तूष्णीम्भाव इत्यर्थः ॥ 4.49.812 ॥

पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा ।

काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ 4.49.13 ॥

कन्दरान् भेदान् ॥ 4.49.13 ॥

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।

विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः ॥ 4.49.14 ॥

ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।

विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम् ॥ 4.49.15 ॥

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।

शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ 4.49.16 ॥

तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च ।

व्यचिन्वंस्ते हरिवराः सीतादर्शनकाङ्क्षिणः ॥ 4.49.17 ॥

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।

न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ 4.49.18 ॥

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् ।

अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ 4.49.19 ॥

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।

स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ 4.49.20 ॥

ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः ।

पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ 4.49.21 ॥

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः ।

विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥ 4.49.22 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ 49 ॥

विचिन्वन्तु वनं सर्व इति, भवन्तः इति शेषः ॥ 4.49.1422 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ 49 ॥