श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः
सह ताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः ।
सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ 4.48.1 ॥
अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनिरसनपर्यन्तो वृत्तान्तो ऽष्टचत्वारिंशे सह ताराङ्गदाभ्यामित्यादि ॥ 4.48.1 ॥
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ 4.48.2 ॥
पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान् ।
वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ॥ 4.48.3 ॥
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् ।
न सीतां दद्दशुर्वीरा मैथिलीं जनकात्मजाम् ॥ 4.48.4 ॥
ते भक्षयन्तो मूलानि फलानि विविधानि च ।
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ।
स तु देशो दुरन्वेषो गुहागहनवान् महान् ॥ 4.48.5 ॥
निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम् ।
त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ॥ 4.48.6 ॥
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ।
देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ॥ 4.48.7 ॥
पर्वताग्नान् विन्ध्याग्रप्रदेशान् । पर्वतान् पर्यन्तपर्वतान् ॥ 4.48.27 ॥
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ।
निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ 4.48.8 ॥
न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ 4.48.9 ॥
वन्ध्याफलाः फलैर्वन्ध्याः, निष्फला इत्यर्थः ॥ 4.48.8,9 ॥
न यत्र वृक्षा नौषध्यो न लता नापि वीरुधः ।
स्निग्धपत्त्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ।
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥ 4.48.10 ॥
स्निग्धपत्रा इत्यादि । अत्रापि न सन्तीत्यनुषज्यत इति केचित् । तन्न, भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । किन्तु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनीमात्रमित्यर्थः । सर्वे ऽपि महातटाकाः स्थलपद्मिनीत्वं गता इति भावः । अन्यं देशं विविशुरिति पूर्वेणान्वयः ॥ 4.48.10 ॥
कण्डुर्नाम महाभागः सत्यवादी तपोधनः ।
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ 4.48.11 ॥
देशस्य तादृशत्वे निमित्तमृषिरित्याह कण्डुरित्यादिना ॥ 4.48.11 ॥
तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः ।
प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ 4.48.12 ॥
तत्र वने विषये । जीवितान्ताय तस्य नाशाय कुपितः ॥ 4.48.12 ॥
तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ।
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ 4.48.13 ॥
अशरण्यम् अनाश्रयम् । अभवदिति शेषः ॥ 4.48.13 ॥
तस्य ते काननान्तांश्च गिरीणां कन्दराणि च ।
प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥ 4.48.14 ॥
तत्र चापि महात्मानो नापश्यन् जनकात्मजाम् ।
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ 4.48.15 ॥
तस्येति । नदीनां प्रभवानि गिरिगणमध्यप्रदेशाः ॥ 4.48.14,15 ॥
ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् ।
ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ 4.48.16 ॥
सुरनिर्भयं सुरेभ्यो निर्भयम् ॥ 4.48.16 ॥
तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम् ।
गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान् ॥ 4.48.17 ॥
गाढं परिहिताः दृढं परिहितवसनाः अभवन् ॥ 4.48.17 ॥
सो ऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद्वली ।
अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ 4.48.18 ॥
तमापतन्तं सहसा वालिपुत्रो ऽङ्गदस्तदा ।
रावणो ऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥ 4.48.19 ॥
संहितं दतृढमित्यर्थः ॥ 4.48.18,19 ॥
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।
असुरो ऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ 4.48.20 ॥
पर्यस्तः पातितः ॥ 4.48.20 ॥
तेपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ।
व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ 4.48.21 ॥
तस्मिन्नसुरे निरुच्छ्वासे, मृत इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने चिरमन्वेषितवन्त इति बोध्यम् ॥ 4.48.21 ॥
विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ।
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ 4.48.22 ॥
अपरम् अदूरम् । “परं दूरान्यमुख्येषु” इति वैजयन्ती । गिरिगह्वरं गिरिमध्यप्रदेशम् ॥ 4.48.22 ॥
ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।
एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ 4.48.23 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥ 48 ॥
विनिष्पत्य विनिर्गत्य । समागताः सङ्घीभूताः । अस्मिन्सर्गे चतुर्विंशतिश्लोकाः ॥ 4.48.23 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥ 48 ॥