श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ 4.41.1 ॥
अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे ततः प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ॥ 4.41.1 ॥
नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ 4.41.2 ॥
सुहोत्रं च शरारिं च शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ 4.41.3 ॥
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।
उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥ 4.41.4 ॥
नीलमित्यादि । अत्रोक्तः सुषेणस्तारापितुरन्यः ॥ 4.41.24 ॥
अङ्गदप्रमुखान्वीरान् वीरः कपिगणेश्वरः ।
वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित् ॥ 4.41.5 ॥
वेगविक्रमसम्पन्नप्रेषणे हेतुमाह विशेषविदिति ॥ 4.41.5 ॥
तेषामग्रेसरं चैव महद्वलमसङ्गम् ।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ 4.41.6 ॥
तेषामिति । असङ्गम् अविलम्बगामि, वेगवदिति यावत् । बलं सैन्यम् । अग्रेसरम् अग्रचरं विधाय ॥ 4.41.6 ॥
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ 4.41.7 ॥
ये केचनेति । तान् समुद्देशान् ॥ 4.41.7 ॥
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥ 4.41.8 ॥
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ॥ 4.41.9 ॥
मेखलामुत्कलां चैव दशार्णनगराण्यपि ।
अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥ 4.41.10 ॥
सहस्रशिरसमित्यादि । पूर्ववन्मध्यदेशापेक्षया विन्ध्यस्य दक्षिणत्वव्यपदेशः ॥ 4.41.810 ॥
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ 4.41.11 ॥
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ।
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ॥ 4.41.12 ॥
तत्र सर्वमेवानुपश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभागस्थांस्तद्दक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिशति विदर्भानित्यादिना । पूर्वभागस्थान् देशानुपदिशति नदीं गोदावरीमिति । दण्डकारण्यवर्तिगोदावरीखण्डमित्यर्थः ॥ 4.41.11,12 ॥
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ।
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ॥ 4.41.13 ॥
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ 4.41.14 ॥
अयोमुखः सह्यः ॥ 4.41.13,14 ॥
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।
तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ 4.41.15 ॥
तत इति । अप्सरोगणैः विहितां पूजितामित्यर्थः ॥ 4.41.15 ॥
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।
द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम् ॥ 4.41.16 ॥
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
ताम्रपणीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ 4.41.17 ॥
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी ।
कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ 4.41.18 ॥
तस्येति । तस्य प्रसिद्धस्य ॥ 4.41.1618 ॥
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ 4.41.19 ॥
तत इति । पाण्ड्यानां पाण्ड्यराजानाम् । युक्तं योग्यम् । कवाटम्, अनेन नगरं लक्ष्यते । मुक्तारूपैर्मणिभिः रत्नैः भूषितम्, तदुत्पत्तिदेशत्वादिति भावः ॥ 4.41.19 ॥
ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ 4.41.20 ॥
चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः ।
जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ 4.41.21 ॥
नानाविधैर्नगैः सर्वैर्लताभिश्चोपशोभितम् ।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ 4.41.22 ॥
सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम् ।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ 4.41.23 ॥
द्वीपस्तस्यापरे पारे शतयोजनमायतः ।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्व समन्ततः ।
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ 4.41.24 ॥
अथ महेन्द्रं वर्णयति तत इत्यादिना । मार्गितव्या विशेषत इत्यन्तमेकान्वयम् । ततः पाण्ड्यनगरात् समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रलङ्घनाद्यर्थनिश्चयं सम्प्रधार्य कृत्वा अगस्त्येन तत्र सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफलादिसमृद्धिमान्, श्रीमान् कान्तिमान् महेन्द्रो ऽस्ति । तं पर्वतं पर्वसु पर्वसु समुद्रस्नानायागच्छति । तस्यापरे पारे आन्तरालिकतीरे द्वीपो ऽस्ति तं मार्गध्वम् । तत्र सर्वात्मना सर्वप्रयत्नेन विशेषतः सीता मार्गितव्या इत्यर्थः ॥ 4.41.2024 ॥
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ 4.41.25 ॥
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।
अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥ 4.41.26 ॥
स हीति । एवं रावणालयावगमे ऽपि इतरदिक्षु वानरप्रेषणं स्थानान्तरे सीतामादाय किं न गच्छेदिति शङ्क्येति बोध्यम् ॥ 4.41.25,26 ॥
एवं निस्संशयान् कृत्वा संशयान्नष्टसंशयाः ।
मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥ 4.41.27 ॥
ननु पूर्वं “न जाने निलयं तस्य सर्वथा पापरक्षसः” इत्युक्तम्, सम्प्रति “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः” इत्युच्यते, अतो विरुद्धमिदमित्याशङ्क्य परिहरति एवमिति । एवं मदुक्तरीत्या संशयान् संशयविषयभूतान् देशान् निःसंशयान् संशयाविषयीभूतान् निश्चितसदसद्भावान् कृत्वा नष्टसंशयाः सन्तः अमिततेजसो नरेन्द्रस्य पत्नीं मृगयध्वम् । यदृच्छादर्शनापरिस्फुटज्ञातमर्थं कथं निश्चयेन कथयामीति न जान इति पूर्वमुक्तम् । इदानीं तथाविधमप्यर्थमन्वेषणगौरवाय निश्चयेन ब्रवीमिति भावः ॥ 4.41.27 ॥
तमतिक्रय्म लक्ष्मीवान् समुद्रे शतयोजने ।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ 4.41.28 ॥
चन्द्रसूर्यांशुसङ्काशः सागराम्बुसमावृतः ।
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ 4.41.29 ॥
तमतिक्रम्येति । “परावरयोगे च” इति क्त्वाप्रत्ययः । एवं पूर्वत्रापरत्र च बोध्यम् ॥ 4.41.28,29 ॥
तस्यैवं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।
श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ 4.41.30 ॥
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ 4.41.31 ॥
तस्यैकमिति । दक्षिणायन इति शेषः ॥ 4.41.30,31 ॥
तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ।
अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ 4.41.32 ॥
तमतिक्रम्यते । हे दुर्धर्षाः सूर्यवान् नाम पर्वतः, वर्तत इति शेषः । दुर्विगाहेनाध्वना उपलक्षितः । योजनानि चतुर्दश, पुष्पितकसूर्यवतोरन्तराल इति शेषः ॥ 4.41.32 ॥
ततस्तमप्यतिक्रम्य वैद्युतो नामपर्वतः ।
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ 4.41.33 ॥
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ।
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ 4.41.34 ॥
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ।
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ 4.41.35 ॥
वराणां श्रेष्ठानामर्हाणीति वरार्हाणि । परं ततः परं देशम् ॥ 4.41.3335 ॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ 4.41.36 ॥
अगस्त्यभवनं विशेषयति तत्र योजनेति । शरणं गृहम् ॥ 4.41.36 ॥
तत्र भोगवती नाम सर्पाणामालयः पुरी ।
विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥ 4.41.37 ॥
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।
सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ 4.41.38 ॥
नत्रेत्यादि । निर्याय अगस्त्यभवनान्निर्गत्य ॥ 4.41.37,38 ॥
तत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ 4.41.39 ॥
तत्रेति । ये अनन्तराः अव्यवहिता देशाः । ते मार्गितव्या इति शेषः ॥ 4.41.39 ॥
तं च देशमतिक्रम्य महानृषभसंस्थितः ।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ 4.41.40 ॥
तं च देशमतिक्रम्य, तस्माद्देशात्परत इत्यर्थः । ऋषभसंस्थितः ऋषभतुल्यसंस्थातः ॥ 4.41.40 ॥
तं च देशमतिक्रम्य महानृषभसंस्थितः ।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ 4.41.41 ॥
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ।
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ॥ 4.41.42 ॥
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ।
शैलूषो ग्रामणीः शिग्रुः शुभ्रो बभ्रुस्तथैव च ॥ 4.41.43 ॥
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ।
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ॥ 4.41.44 ॥
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।
राजधानी यमस्यैषां कष्टेन तमसा वृता ॥ 4.41.45 ॥
एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः ।
शक्यं विचेतुं गन्तुं वा नातो गतिमातां गतिः ॥ 4.41.46 ॥
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ।
गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥ 4.41.47 ॥
यस्तु मासान्निवृत्तो ऽग्रे दृष्टा सीतेति वक्ष्यति ।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ 4.41.48 ॥
गोशीर्षंकं गोरोचनासदृशवर्णम् । पद्मकं पद्मदलसवर्णम् । हरिश्यामं तमालदलवर्णम् । अग्निसमप्रभम् अग्निसदृशवर्णम् । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो वर्तत इति पूर्वेणान्वयः ॥ 5.41.4148 ॥
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः ।
कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ 4.41.49 ॥
ततः तस्मात् पुरुषात् प्रियतरो नास्ति । मम प्राणात् विशेषतः, सः प्रियतर इति शेषः ॥ 4.41.49 ॥
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरषार्थमारभध्वम् ॥ 4.41.50 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ 41 ॥
तदधिगुणं तदनुगुणम् । पुरुषार्थं पुरुषव्यापारम् । अत्र संयमिनीपर्यन्तमभिधानात् सप्तद्वीपसागरगमनमर्थसिद्धम् । एवमुत्तरसर्गयोरपि बोध्यम् । अत्र सार्धपञ्चाशत् श्लोकाः ॥ 4.41.50 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ 41 ॥