श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ 4.37.1 ॥
अथ सर्ववानरसमानयनं सप्तत्रिंशे एवमित्यादि ॥ 4.37.1 ॥
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ 4.37.2 ॥
महेन्द्रादय एव पञ्च शैलाः ॥ 4.37.2 ॥
तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः ।
पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ 4.37.3 ॥
तरुणेति । पश्चिमायां दिशि ये स्थिताः तेषु ये वानराः स्थिता इति योजना । अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थः ॥ 4.37.3 ॥
आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ।
पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ 4.37.4 ॥
अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः ।
अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ 4.37.5 ॥
आदित्यभवने उदयगिरौ । पद्माः चन्दनविशेषाः ॥ 4.37.4,5 ॥
मनःशिलागुहावासा वानराः कनकप्रभाः ।
मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ 4.37.6 ॥
तरुणादित्यवर्णाश्च पर्वते च महारुणे ।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ 4.37.7 ॥
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।
तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ 4.37.8 ॥
मनःशिलागुहावासाः मनःशिलामयगुहावासाः । महारुणे महारुणाख्ये । यत्र यच्छब्दो नास्ति, तत्राध्याहर्तव्यः ॥ 4.37.68 ॥
तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् ।
सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ 4.37.9 ॥
सामेति । कल्पैः उपायैः । समानय तदर्थं प्रेषय ॥ 4.37.9 ॥
प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् ॥ 4.37.10 ॥
प्रेषिता इति । प्रेषितदूतत्वरणार्थोक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां लक्ष्मणाय द्योतयितुम् ॥ 4.37.10 ॥
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।
इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ 4.37.11 ॥
अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया ।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ 4.37.12 ॥
ये इति । दीर्घसूत्राः चिरक्रियाः उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ 4.37.11,12 ॥
शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ 4.37.13 ॥
मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ 4.37.14 ॥
शतानीति । बहुसङ्ख्याभिधानं लक्ष्मणाय वानरासङ्ख्येयत्वद्योतनार्थम् ॥ 4.37.13,14 ॥
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।
आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ 4.37.15 ॥
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ 4.37.16 ॥
त इति । गम्यत इति गतिः वासस्थानम् । पृथिव्यां सर्वान् हरीन् आनयन्तु इति सम्बन्धः ॥ 4.37.1516 ॥
ते पदं विष्णुविक्रान्तं पतत्ित्रज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ 4.37.17 ॥
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।
वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ 4.37.18 ॥
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ 4.37.19 ॥
ते पदमिति । पतत्ित्रज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः सन्तः विष्णुविक्रान्तं पदम् आकाशं प्रयाताः ॥ 4.37.1719 ॥
ततस्ते ऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः ।
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ 4.37.20 ॥
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः ।
तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ 4.37.21 ॥
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।
ततः कोटिसहस्राणि वानराणामुपागमन् ॥ 4.37.22 ॥
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ 4.37.23 ॥
अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।
विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ 4.37.24 ॥
तत इति । यत्र येन हेतुना राघवो वर्तते ततः तस्माद्धेतोः तस्मात् गिरेः अञ्जनगिरेः निर्ययुः ॥ 4.37.2024 ॥
क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥ 4.37.25 ॥
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा ।
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ 4.37.26 ॥
क्षीरोदेति । अत्रापतन् द्रुतमित्यनुषज्यते । सङ्ख्या न विद्यत इति । उत्तरत्र सङ्ख्याकीर्तनं प्रधानाभिप्रायेण ॥ 4.37.25,26 ॥
ये तु त्वरयितुं याता वानराः सर्ववानरान् ।
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ 4.37.27 ॥
तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ 4.37.28 ॥
अन्ननिष्यन्दजातानि मूलानि च फलानि च ।
अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ 4.37.29 ॥
तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम् ।
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ 4.37.30 ॥
तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ 4.37.31 ॥
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च ।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ 4.37.32 ॥
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ 4.37.33 ॥
ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः ।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ 4.37.34 ॥
ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ 4.37.35 ॥
सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ 4.37.36 ॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥ 4.37.37 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ 37 ॥
ये त्वति । तुशब्दो हनुमत्प्रेरितवानरख्यावर्तकः, नीलेन पूर्वं प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने समागमनम् । सद्यो हनुमत्प्रेरितानां तदसम्भवात् । तं प्रसिद्धम् ॥ 4.37.2737 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ 37 ॥