श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ 4.35.1 ॥
अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे तथा ब्रुवाणमित्यादि ॥ 4.35.1 ॥
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विषेषतः ॥ 4.35.2 ॥
वक्तव्यः, परुषमिति शेषः ॥ 4.35.2 ॥
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ 4.35.3 ॥
जिह्मः कुटिलः ॥ 4.35.3 ॥
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ 4.35.4 ॥
रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥ 4.35.5 ॥
सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ 4.35.6 ॥
विस्मृत इति कर्तरि निष्ठा । अन्यैर्दुष्करं तम् उपकारं न विस्मृत इति योजना ॥ 4.35.46 ॥
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण ।
अहो ऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ 4.35.7 ॥
स हि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ 4.35.8 ॥
विश्वामित्रो घृताच्यामासक्तो दश वर्षाणि अहो ऽमन्यत दिनममन्यत । घृताचीशब्देनात्र मेनकैवोच्यते । मेनकासङ्गस्य बालकाण्डे ऽभिधानात् ॥ 4.35.7,8 ॥
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ 4.35.9 ॥
देहेति । देहधर्मं गतस्य शरीरस्वभावं प्राप्तस्य । कामं कामवर्तनम् ॥ 4.35.9 ॥
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ 4.35.10 ॥
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ 4.35.11 ॥
अपराधमङ्गीकृत्य सान्त्वयित्वा इदानीं विचार्यमाणे अपराध एव नास्तीत्याह न चेति निश्चियार्थं निश्चयरूपमर्थम्, सुग्रीवाभिप्रायमिति यावत् ॥ 4.35.10,11 ॥
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ 4.35.12 ॥
संरम्भः अभिनिवेशः ॥ 4.35.12 ॥
रुमां मां करिराज्यं च धनधान्यवसूनि च ।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ 4.35.13 ॥
धनधान्येत्यत्र धनशब्दो हस्तिरथाश्वादिपरः । वसुशब्दो रत्नपरः ॥ 4.35.13 ॥
समानेष्यति सुग्रीवः सीतया सह राघवम् ।
शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥ 4.35.14 ॥
शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ 4.35.15 ॥
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः ।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ 4.35.16 ॥
समानेष्यतीति । समानेष्यति घटयिष्याति । निहत्वेत्यत्र ल्पबभाव आर्षः ॥ 4.35.1416 ॥
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ 4.35.17 ॥
ते न शक्या इति च्छेदः । ते राक्षसाः हन्तुं न शक्याः । रावणो विशेषेणासहायेन सुग्रीवेण हन्तुं न शक्यः ॥ 4.35.17 ॥
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मे व्यक्तः श्रवात्तस्माद् ब्रवीम्यहम् ॥ 4.35.18 ॥
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः ।
आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ॥ 4.35.19 ॥
तांश्च प्रतीक्षमाणो ऽयं विक्रान्तान् सुमहाबलान् ।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ 4.35.20 ॥
तर्हि रावणवृत्तान्तः सर्वो ऽप्याख्यायतामित्यत्राह एवमिति । आगमः स्वयमवगमः । श्रवात् श्रवणात् । अत्र सुग्रीवेण यद्धाय निर्गमकाले तारया अङ्गदोक्तरामसुग्रीवसख्यकरणे अभिहिते एतादृशो रावणः, सुग्रीवो दुर्बलः, तं कथं रामो ऽवलम्बत इति वालिनोक्तमिति ज्ञेयम् ॥ 4.35.1820 ॥
कृता ऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा ।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ 4.35.21 ॥
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ।
कोट्यो ऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ 4.35.22 ॥
कृतेति । अत्र सीतान्वेषणकार्यविषये सुग्रीवेण पुरा त्वदागमनात्पूर्वमेव संस्था व्यवस्था, त्रिपञ्चरात्रादूर्ध्वं नागन्तव्यमित्येवंरूपा यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने तैरागन्तव्यम् ॥ 4.35.21,22 ॥
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः ।
हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ 4.35.23 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ 35 ॥
तव हीति । हिशब्दः पादपूरणे । सर्वाः हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथमभयस्य शङ्किताः वालिवधजनितभयशङ्किताः सत्यः । रोषाद्धेतोः । क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्य शङ्किता इति कर्मणि षष्ठी । “न लोकाव्यय ” इत्यादिना षष्ठीप्रतिषेधे ऽपि तत्प्रयोग आर्षः ॥ 4.35.23 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ 35 ॥