०३४ लक्ष्मणकृतं सुग्रीवतर्जनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।

सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ 4.34.1 ॥

अथ सुग्रीवं प्रति रामसन्देशकथनं चतुस्त्रिंशे तमप्रतिहतमित्यादि ॥ 4.34.1 ॥

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।

भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ॥ 4.34.2 ॥

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।

महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः ॥ 4.34.3 ॥

क्रुद्धमित्यादि । महेन्द्रस्य ध्वज इव उत्पपात । स्वलङ्कृत इत्युभयविशेषणम् ॥ 4.34.2,3 ॥

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।

सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ 4.34.4 ॥

उत्पतन्तमिति । अनूत्पेतुः पश्चादुत्पेतुः ॥ 4.34.4 ॥

संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः ।

बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ 4.34.5 ॥

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।

अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ 4.34.6 ॥

सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।

कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ 4.34.7 ॥

संरक्तनयनः, मदेनेति शेषः ॥ 4.34.57 ॥

यस्तु राजा स्थिते ऽधर्मे मित्राणामुपकारिणाम् ।

मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ 4.34.8 ॥

यस्त्विति । अधर्मे इति च्छेदः ॥ 4.34.8 ॥

शतमश्वानृते हन्ति सहस्रं तु गवानृते ।

आत्मानं स्वजनं हन्ति पुरषः पुरुषानृते ॥ 4.34.9 ॥

शतमिति । पुरुषः अश्वानृते अश्वविषयानृते शतं हन्ति, शताश्वहननदोषभाग् भवेदित्यर्थः । एवं गवानृते गोविषयानृते सहस्रं हन्ति सहस्रगोहननदोषभाग् भवेत् । पुरुषानृते आत्मनं स्वजनं हन्ति, आत्मस्वजनहननदोषभाग् भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोषभाग् भवेदिति भावः ॥ 4.34.9 ॥

पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।

कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ 4.34.10 ॥

पूर्वमिति । तन्मित्रकार्यं न प्रतिकरोति पुनर्न करोति ॥ 4.34.10 ॥

गीतो ऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।

दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ॥ 4.34.11 ॥

गीतो ऽयमिति । ब्रह्मणा स्वायम्भुवमनुना ॥ 4.34.11 ॥

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ 4.34.12 ॥

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।

पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ 4.34.13 ॥

निष्कृतिः प्रायश्चित्तम् ॥ 4.34.12,13 ॥

ननु नाम कृतार्थेन त्वया रामस्य वानर ।

सीतया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ 4.34.14 ॥

कृतमिच्छता उपकारं स्मरता ॥ 4.34.14 ॥

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।

न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥ 4.34.15 ॥

महाभागेन रामेण पापः करुणवेदिना ।

हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ 4.34.16 ॥

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ।

सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥ 4.34.17 ॥

न च सङ्कुचितः पन्था येन वाली हतो गतः ।

समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ 4.34.18 ॥

स त्वमिति । मण्डूकराविणं मण्डूकग्रहणार्थं मण्डूकवद्रौति तमिव वञ्चकं त्वां न जानातीत्यर्थः ॥ 4.34.1518 ॥

न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान् शरान् पश्यसि वज्रसन्निभान् ।

ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसा ऽप्यवेक्षसे ॥ 4.34.19 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥ 34 ॥

रामस्य सन्दिष्टं वाक्यमभिधाय प्रकृतकार्योचितं स्ववाक्यमाह न नूनमिति । इक्ष्वाकुवरस्य कार्मुकच्युतान् बाणान् वज्रसन्निभान् न पश्यति नाद्राक्षीः नूनम् । ततो नाम तस्मात् खलु सुखं निषेवसे, सुखी सन् रामकार्यं मनसा ऽपि नावेक्षस इति योजना ॥ 4.34.19 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ 34 ॥