श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः
अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ।
प्रविवेष गुहां घोरां किष्किन्धां रामशासनात् ॥ 4.33.1 ॥
द्वारस्था हरयस्तत्र महाकाया महाबलाः ।
बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ 4.33.2 ॥
अथान्तःपुरं प्रविष्टस्य लक्ष्मणस्य तारया प्रसादनं त्रयस्त्रिंशे अथेत्यादि । प्रतिसमादिष्टः प्रत्याहूतः, अङ्गदेनेति शेषः ॥ 4.33.1,2 ॥
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ।
बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ 4.33.3 ॥
निःश्वसन्तमिति । न चैनं पर्यवारयन् भयेन लक्ष्मणमुपगन्तुं नाशक्नुवन्नित्यर्थः ॥ 4.33.3 ॥
स तां रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम् ।
रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ॥ 4.33.4 ॥
स तामिति । रत्नमयीं रत्ननिर्मितां रन्तसमाकीर्णाम् आपणस्थरत्नैः समाकीर्णाम् ॥ 4.33.4 ॥
हर्म्यप्रासादसम्बाधां नानापण्योपशोभिताम् ।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ 4.33.5 ॥
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः ।
दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः ॥ 4.33.6 ॥
हर्म्याः धनिनां वासाः । प्रासादाः देवगृहाः ॥ 4.33.5,6 ॥
चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् ।
मैरेयाणां मधूनां च सम्मोदितमहापथाम् ।
ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ 4.33.7 ॥
पद्मानाम् आलेपविशेषाणाम् । ददर्शेति । गिरिनद्यः गिरिनदीः । व्यत्ययेन द्वितीया ॥ 4.33.7 ॥
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च ।
गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥ 4.33.8 ॥
विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः ।
वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ॥ 4.33.9 ॥
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा ।
दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ 4.33.10 ॥
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ 4.33.11 ॥
पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ।
प्रभूतधनाधान्यानि स्त्रीरत्नैः शोभितानि च ॥ 4.33.12 ॥
अङ्गदस्येत्यादि । महासाराणि अतिदृढानि ॥ 4.33.812 ॥
पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् ।
वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ 4.33.13 ॥
शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः ।
सर्वकामफलैर्वृक्षैः पुष्पितै रुपशोभितम् ॥ 4.33.14 ॥
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः ।
दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ॥ 4.33.15 ॥
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ।
दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ 4.33.16 ॥
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ।
अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥ 4.33.17 ॥
स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः ।
प्रविश्य सुमहद् गुप्तं ददर्शान्तःपुरं महत् ॥ 4.33.18 ॥
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः ।
महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ॥ 4.33.19 ॥
पाण्डुरेण सालेन सुधाधवलितप्राकारेण । दिव्यपुष्पफलैर्वृक्षैरित्यनेन इन्द्रदत्ताः
स्वर्गीया वृक्षा उच्यन्ते । पूर्वमुक्ता वृक्षा भौमा इत्यवगन्तव्यम् । पूर्वं “वानरेन्द्रगृहं रम्यम्” इत्युक्तस्यानेकविशेषणव्यवधानेन सुग्रीवस्य गृहं रम्यमिति पुनर्वचनम् । स्वरूपतो रम्यम् उक्तविशेषणैश्च रम्यमिति रम्यपदद्वयनिर्वाहः । यद्वा वानरेन्द्रगृहं वानरेन्द्रयोः ऋक्षरजोवालिनोः गृहभूतम् इदानीं सुग्रीवस्य गृहं प्रविवेशेति सम्बन्धः ॥ 4.33.1319 ॥
प्रविशन्नेव सततं शुश्राव मधुरस्वरम् ।
तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् ॥ 4.33.20 ॥
बह्वीश्च विविधाकारा रूपयौवनगर्विताः ।
स्त्रियः सुग्रीवभवने ददर्श स महाबलः ॥ 4.33.21 ॥
प्रविशन्नेवेति । सः लक्ष्मणः । ततं वीणादिवाद्यजातम् । मधुरस्वरं मधुरश्रुतियुक्तम् । तन्त्रीशब्देन तन्त्रीध्वनिर्लक्ष्यते । तद्रूपैर्गीतैः समाकीर्णम् । समगीतपदाक्षरं समतया तन्त्रीगातसमतया गीतानि कण्ठैर्गीतानि पदान्यक्षराणि च यस्य । यद्वा समानि अन्यूनातिरिक्तानि गीतसम्बन्धीनि पदान्यक्षराणि च यस्य ॥ 4.33.20,21 ॥
दृष्ट्वा ऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्नजः ।
फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ 4.33.22 ॥
नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान् ।
सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ 4.33.23 ॥
दृष्ट्वेति । फलमाल्यकृतव्याग्राः फलमाल्यार्थं व्यग्रा इत्यर्थः । नानुदात्तपरिच्छदान् उत्कृष्टवस्त्राभरणादिकान् ॥ 4.33.22,23 ॥
कूजितं नूपुराणां च काञ्चीनां निनदं तथा ।
सन्निशम्य ततः श्रीमान् सौमित्रिर्लज्जितो ऽभवत् ॥ 4.33.24 ॥
कूजितमिति । लज्जितो ऽभवत्, उपरिसुरतद्योतकत्वादिति भावः ॥ 4.33.24 ॥
रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् ।
चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥ 4.33.25 ॥
रोषोति । रोषवेगप्रकुपितः रोषप्रवृद्धः । प्रकोपशब्दो ह्यभिवृद्धवाची ॥ 4.33.25 ॥
चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः ।
तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ॥ 4.33.26 ॥
चारित्रेणेति । रामशोकसमन्वितः रामविषयशोकसमन्वितः । एकान्तं स्त्रीप्रसङ्गरहितप्रदेशम् ॥ 4.33.26 ॥
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः ।
विज्ञायागमनं त्रस्तः सञ्चचाल वरासनात् ॥ 4.33.27 ॥
अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम् ।
सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥ 4.33.28 ॥
अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः ।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ 4.33.29 ॥
तेनेति । सौमित्रिः सम्प्राप्त इत्यागमनं विज्ञायेति सम्बन्धः । सञ्चचाल वरासनात् लाङ्गूलचालनमाल्यच्छेदनादिकापेयव्यापारानकरोदित्यर्थः ॥ 4.33.2729 ॥
ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् ।
उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः ॥ 4.33.30 ॥
किन्नु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः ।
सरोष इव सम्प्राप्तो येनायं राघवानुजः ॥ 4.33.31 ॥
किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते ।
न खल्वकारणे कोपमाहरेन्नरसत्तमः ॥ 4.33.32 ॥
यदस्य कृतमस्माभिर्बुध्यसे किञ्चिदप्रियम् ।
तद् बुद्ध्या सम्प्रधार्याशु क्षिप्रमर्हसि भाषितुम् ॥ 4.33.33 ॥
अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम् ।
वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ 4.33.34 ॥
त्वद्दर्शनविशुद्धात्मा न स कोपं करिष्यति ।
नहि स्त्रिषु महात्मानः क्वचिर्त्कुवन्ति दारुणम् ॥ 4.33.35 ॥
तत इति । अव्यग्रः, कार्यांश इति शेषः ॥ 4.33.3035 ॥
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् ।
ततः कमलपत्त्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥ 4.33.36 ॥
त्वयेति । त्वया सान्त्वैः प्रसन्नेन्द्रियमानसमिति सम्बन्धः । उपक्रान्तम् उपागतम् ॥ 4.33.36 ॥
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा ।
सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयाष्टिः ॥ 4.33.37 ॥
सेति । सा कान्तसंश्लेषं विनापि रमणीयगमनसौन्दर्या प्रस्खलन्ती संश्लेषकृतायासेन पदे पदं कृत्वा गच्छन्ती मदविह्वलाक्षी भोगसंवर्धकमधुपानमदेन विह्वलनेत्रा प्रलम्बे काञ्चीगुणहेमसूत्रे यस्याः सा प्रलम्बकाञ्चीगुणहेमसूत्रा, ईषच्छिथिलदुकूलतया शयने यथा स्थिता तथैव समागतेत्यर्थः । सलक्षणा व्यक्तैः सम्भोगलक्षणैः समागता । लक्ष्मणसन्निधानं जगाम । किं मातुरपि गोप्यमस्तीत्यागता । नमिताङ्गयष्टिः द्रवीभावावस्थायां नमितं नार्जवमर्हति । अतः नम्रतैव यथा निरूपकं भवति तथा स्थितेत्यर्थः ॥ 4.33.37 ॥
स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा ।
अवाङ्मुखो ऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ 4.33.38 ॥
उदासीनतया तत्कान्तिनिर्वर्णनानादरतया ॥ 4.33.38 ॥
सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः ।
उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम् ॥ 4.33.39 ॥
नरेन्द्रसूनोः धार्मिकस्य लक्ष्मणस्य दृष्टिप्रसादाद्धेतोः । प्रणयप्रगल्भं स्नेहदृष्टम् ॥ 4.33.39 ॥
किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न सन्तिष्ठति वाङ्निदेशे ।
कः शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः ॥ 4.33.40 ॥
चतुरो मासान् राजपुत्रौ विद्युत्स्तनितसात्कृत्य स्वयं भोगप्रवणा स्थिता तज्जानन्त्यपि किं कोपमूलमित्याह तत्कृपारसविशेषज्ञतया, दृष्टिप्रसादादिति ह्युक्तम् । मनुजेन्द्रपुत्र षष्टिवर्षसहस्राणि राज्यं परिपाल्य प्रजापराधं क्षान्तवतो दशरथस्य पुत्रस्त्वम् अपराधिजनानां शिरश्छेदनं करिष्यामीति सम्प्रति समागतो ऽसि, सम्यञ्ची भवतो गतिः । कस्ते न सन्तिष्ठति वाङ्निदेशे यस्ते वाङ्निदेशे न तिष्ठति स कः? अशास्त्रवश्यस्य दृष्टे वस्तुनि सपदि चापलं कृत्वा निवर्तितुमक्षमस्य तिर्यग्जनस्य च्युतान् भोगान् स्वयमेव दत्त्वा स्वाज्ञां कुर्वन्तं हिंसितुमिच्छसि । क इत्यादि । दवाग्नौ पतन् चपलः शलभः किलेति भावः । तद्वच्चलो ऽयमित्येवं दृष्टान्तः । सन्तिष्ठतीत्यार्षं परस्मैपदम् ॥ 4.33.40 ॥
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमसंशयम् ।
भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत् ॥ 4.33.41 ॥
स इति । असंशयं निःसंशयम्, अकुटिलमिति यावत् । प्रणयदृष्टार्थं स्नेहसन्दर्शितप्रयोजनम् ॥ 4.33.41 ॥
किमयं कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः ।
भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे ॥ 4.33.42 ॥
अतीवायुक्तं तव भर्तुर्विषयप्रावण्यमित्याह किमयमित्यादिना । युक्ते सक्ते इति सम्बुद्धिः । अयं कामवृत्त इति एनं नावबुध्यसे किमिति सम्बन्धः ॥ 4.33.42 ॥
न चिन्तयति राज्यार्थं नास्मान् शोकपरायणान् ।
सामात्यपरिषत्तारे पानमेवोपसेवते ॥ 4.33.43 ॥
न चिन्तयतीति । राज्यार्थं राज्यरूपप्रयोजनम् ॥ 4.33.43 ॥
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः ।
व्यीतीतांस्तान्मदव्यग्रो विहरन्नावबुध्यते ॥ 4.33.44 ॥
प्रमाणं मर्यादाम् ॥ 4.33.44 ॥
नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते ।
पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥ 4.33.45 ॥
धर्मार्थसिद्ध्यर्थम्, यतमानस्येति शेषः ॥ 4.33.45 ॥
धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः ।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ 4.33.46 ॥
धर्मेति । कृते उपकारविषये अप्रतिकुर्वतः महान् धर्मलोपो भवेत् । प्रत्युपकाराकरणाद्गुणवतो मित्रस्य नाशे सति महानर्थलोपो भवेत् । चकारात् कामलोपश्च ॥ 4.33.46 ॥
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् ।
तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥ 4.33.47 ॥
उक्तमर्थमुपपादयति मित्रं हीति । सत्यधर्मपरायणं मित्रम् अर्थगुणश्रेष्ठं हि । अत्र गुणशब्दः कामवाची । अर्थकामयोर्मूलत्वान्मित्रं ताभ्यां श्रेष्ठं हि । तादृशं मित्रं त्यजता सुग्रीवेण तद्द्वयम् अर्थकामद्वयं परित्यक्तुं तु परित्यक्तमेव । धर्मे तु न व्यवस्थितम्, धर्मो ऽपि परित्यक्त इत्यर्थः ॥ 4.33.47 ॥
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् ।
यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥ 4.33.48 ॥
तदिति । तत्तस्मात् । कार्यतत्त्वज्ञे कार्ये, धर्मार्थकामविलोपहेतुभूते मित्रपरित्यागलक्षणे कार्ये एवं प्रस्तुते सति यदुत्तरं कार्यमस्माभिः कार्यं कर्तव्यम्, तत् उदाहर्तुम् वक्तुम् अर्हसि ॥ 4.33.48 ॥
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् ।
तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥ 4.33.49 ॥
सेति । धर्मार्थयोः समाधिना सम्बन्धेन युक्तम् । गतार्थे प्रयोजनयुक्ते । नरेन्द्रकार्ये विषये विश्वासयुक्तम् ॥ 4.33.49 ॥
न कोपकालः क्षितिपालपुत्र न चातिकोपः स्वजने विधेयः ।
त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम् ॥ 4.33.50 ॥
न कोपकालः, सुग्रीवस्य कामार्तत्वादिति भावः । त्वदर्थकामस्य त्वत्प्रयोजनपरस्य । जनस्य सुग्रीवस्य ॥ 4.33.50 ॥
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे ।
कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ 4.33.51 ॥
गुणप्रकृष्टः उत्कृष्टवीर्यगुणः । अपकृष्टसत्त्वे हीनबले । सत्त्वावरुद्धः व्यवसाययुक्तः । “द्रव्यासु व्यसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । तपसः शान्तिरूपस्य प्रसूतिः उत्पतिस्थानम् ॥ 4.33.51 ॥
जानामि रोषं हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम् ।
जानामि कार्यं त्वयि यत्कृतं नस्तञ्चापि जानामि यदत्र कार्यम् ॥ 4.33.52 ॥
मद्रोषमेव जानासि नतु तद्धेतूनित्यत्राह जानामीति । हरिवीरबन्धो रामस्य । रोषं जानामि रोषममोघस्वरूपं जानामीत्यर्थः । कार्यस्य च कालसङ्गम् उद्योगरूपकार्यस्य कालविलम्बनं च जानामि । जानामि कार्यं त्वयि यत्कृतं नः यत् वालिवधरूपं कार्यं नः असमाकं कृतम्, त्वयि विद्यमानं तदपि जानामि । यदत्र कार्यम् अस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं तच्चापि जानामि ॥ 4.33.52 ॥
तच्चापि जानामि यथा ऽविषह्यं बलं नरश्रेष्ठ शरीरजस्य ।
जानामि यस्मिंश्च जने ऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥ 4.33.53 ॥
तच्चेति । हे नरश्रेष्ठः शरीरजस्य कामस्य बलं यथा अविषह्यं तच्चापि जानामि । अद्य सुग्रीवं यस्मिन् जने कामेन असक्तम् अनवरतम् अवबद्धं जानामि । तं च स्त्रीजनं जानामीति योजना ॥ 4.33.53 ॥
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः ।
न देशकालौ हि न चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥ 4.33.54 ॥
लक्ष्मणसंरम्भोपशमनाय स्वप्रागल्भ्येन लोकस्थितिं दर्शयति न कामतन्त्रे इत्यादिना । त्वं यथा येन प्रकारेण मन्युवशं प्रपन्नः तेन प्रकारेण कामतन्त्रे रतिक्रीडादौ कामतन्त्राभिज्ञश्चेत्तादृशं न द्विष्या इति भावः ॥ किं कामतन्त्रप्रवणः किमपि न जानातीत्यत्राह न देशकालाविति ॥ 4.33.54 ॥
तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम् ।
क्षमस्व तावत्परवीरहन्तस्त्वद्भ्रातरं वानरवंशनाथम् ॥ 4.33.55 ॥
तमिति । मम सन्निकृष्टं समीपस्थम् । अत एव कामवृत्तं कामव्यापारमिति क्रमेण योजना ॥ 4.33.55 ॥
महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः ।
अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥ 4.33.56 ॥
महर्षयो ऽपि कामवशाः, किमुत पृथग्जन इत्याह महर्षय इति । धर्मतपसी अभिकामयन्त इति धर्मतपोभिकामाः । कामस्याभिलाषस्य अनु पश्चात् कामो येषां ते कामानुकामाः । प्रतिबद्धमोहाः नियतस्त्रीव्यामोहाः ॥ 4.33.56 ॥
इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् ।
पुनः सखेलं मदविह्वलं च भर्तुर्हितं वाक्यमिदं बभाषे ॥ 4.33.57 ॥
उद्योगस्तु चिराज्ञप्तः सुग्रवेण नरोत्तम ।
कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ 4.33.58 ॥
आगता हि महावीर्या हरयः कामरूपिणः ।
कोटीशतसहस्राणि नानानगनिवासिनः ॥ 4.33.59 ॥
इतीति । सखेलं सलीलम् ॥ 4.33.5759 ॥
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया ।
अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ 4.33.60 ॥
चारित्रं रक्षितं त्वया । अन्तःपुरस्त्र्यवलोकनमनुचितमिति बहिरेव तिष्ठता त्वया सदाचारः सम्यगनुष्ठित इत्यर्थः । शरणागतरक्षणाचारस्त्वया सम्यगनुष्ठित इति वा । अच्छलम् अदोषावहम् ॥ 4.33.60 ॥
तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः ।
प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः ॥ 4.33.61 ॥
ततः सुग्रवमासीनं काञ्चने परमासने ।
महार्हास्तरणोपेते ददर्शादित्यसन्निभम् ॥ 4.33.62 ॥
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् ।
दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ॥ 4.33.63 ॥
दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ।
संरब्धतररक्ताक्षो बभूवान्तकसन्निभः ॥ 4.33.64 ॥
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ।
ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशालनेत्रम् ॥ 4.33.65 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ 33 ॥
तारयेत्यादिश्लोकचतुष्टयमेकं वाक्यम् । समावृतं परिवृतम् । संरब्धतरः कुपिततरः । अत एव रक्ताक्षश्च ॥ 4.33.6165 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ 33 ॥