०३१ रामेण लक्ष्मणप्रेषणम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकत्रिंशः सर्गः

स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् ।

नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ 4.31.1 ॥

अथाङ्गदेन लक्ष्मणकोपकथनं सुग्रीवायैकत्रिंशे स कामिनमिति । कामिनम् अधिककामम् । अत एव दीनम् । तथाप्यदीनसत्त्वम् । एतेन वस्तुतः अदीनसत्त्वो ऽपि दैन्यं भावयतीति गम्यते । शोकाभिपन्नं शोकं प्राप्तम् । समुदीर्णकोपम् अभिवृद्धकोपम् । अस्मिन् श्लोके नरदेवपुत्रमित्यत्र देकारो गायात्र्या एकादशाक्षरम् । दशसहस्रश्लोका गताः ॥ 4.31.1 ॥

न वानरः स्थास्यति साधुवृत्ते न मंस्यते कर्मफलानुषङ्गान् ।

न भोक्ष्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमते ऽस्य बुद्धिः ॥ 4.31.2 ॥

नेति । साधुवृत्ते साधूनां मित्रसमानसुखदुःखानां सुहृदां वृत्ते आचारे न स्थास्यति । कर्मफलानुषङ्गान् अग्निसाक्षिकसख्यरूपकर्मणा वालिनिरसनराज्यदारलाभरूपफलानुबन्धान् न मंस्यते । वानरराज्यलक्ष्मीं न भोक्ष्यते । तथा ह्यस्य बुद्धिः नाभिक्रमते अस्मत्प्रयोजनाभिमुख्येन न वर्तत इति योजना ॥ 4.31.2 ॥

मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः ।

हतो ऽग्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम् ॥ 4.31.3 ॥

मतीति । मतिभ्रमात् बुद्धिविपर्यासात् । तव प्रसादाप्रतिकारबुद्धिः प्रसादस्य राज्यप्रदानादिरूपस्य अप्रतिकारबुद्धिः प्रत्युपकारबुद्धिरहितः । अत एव हतः सुग्रीवः अग्रजं वालिनं पश्यतु । एवं विगुणस्य तस्य राज्यं न देयम् । वालिनमिति क्वचित्पाठः । तत्र वृत्तमुपजातिः ॥ 4.31.3 ॥

न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य ।

हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु ॥ 4.31.4 ॥

नेति । न धारये अकार्यकरणं कर्तुं न क्षम इत्यर्थः । असत्यं सत्यवचनरहितम् । नरेन्द्रपत्न्याः सीतायाः । विचयम् अन्वेषणम् ॥ 4.31.4 ॥

तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् ।

उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ 4.31.5 ॥

मम अहृदयवचनमात्रेण अयं तं हन्यादेवेत्यनुतप्तो रामः प्राह स्म । परवीरहन्ता, न तु स्वाश्रितहन्ता । स्ववेक्षितं सुष्ठु निरूपितम् ॥ 4.31.5 ॥

न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।

पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ 4.31.6 ॥

न हीति । पापं मित्रहननाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन ॥ 4.31.6 ॥

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ।

तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ 4.31.7 ॥

इदं मित्रहननाध्यवसायरूपं पापम् । पूर्ववृत्तं च सङ्गतं पूर्वकृतं सख्यरूपं बान्धवं च ॥ 4.31.7 ॥

सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।

वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ 4.31.8 ॥

सो ऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।

प्रविवेष पुरीं वीरो लक्ष्मणः परवीरहा ॥ 4.31.9 ॥

सामेति । कालपर्यये कालक्रमे विषये व्यतीतं व्यतिक्रान्तवन्तं सुग्रीवं रूक्षाणि परुषाणि परिवर्जयन् सामोपहितयासान्त्वयुक्तया वाचा वक्तुमर्हसि ॥ 4.31.8,9 ॥

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।

लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ 4.31.10 ॥

तत इति । प्रतिसंरब्धः प्रतिनिवृत्तहननाद्ध्यवसायः ॥ 4.31.10 ॥

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ।

प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ 4.31.11 ॥

सो ऽग्रजेनेत्यादिश्लोकद्वयोक्तं विस्तरेणाह शक्रेत्यादिना । धनुः प्रगृह्य सानुमान् पर्वत इव स्थितः ॥ 4.31.11 ॥

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।

बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तथा ॥ 4.31.12 ॥

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।

प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ 4.31.13 ॥

सालतालाश्वकर्णाश्च तरसा पातयन् बहून् ।

पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ 4.31.14 ॥

शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः ।

दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् ॥ 4.31.15 ॥

यथोक्तेति । यथोक्तं रामोक्तमनतिक्रम्य करोतीति यथोक्तकारी लक्ष्मणः । वचनं सुग्रीवं प्रति स्वेन वक्तव्यं वचनम् । यथोक्तकारीति विशेषणाद्रामोपदिष्टं वचनमिति सिद्धम् । उत्तरं च स्ववचनस्य सुग्रीवेण वक्ष्यमाणमुत्तरं च । सोत्तरं स्वेन वक्ष्यमाणोत्तरसहितं मत्वा आलोच्य प्रययाविति सम्बन्धः । दूरमिति । एकपदं पौरस्त्यपदं दूरं त्यक्त्वा दूरे क्षिप्त्वा । अनेन द्रुतगमनं सूचितम् । द्रुतं गच्छन् हि पुरुषः पुरः पादं दूरे क्षिपति ॥ 4.31.1215 ॥

तामपश्यद्वलाकीर्णां हरि राजमहापुरीम् ।

दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे ॥ 4.31.16 ॥

रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः ।

ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् ॥ 4.31.17 ॥

तामिति । गिरिसङ्कटे निबिडगिरिमध्ये । अनेन पूर्वोक्तगुहाशब्दो विवृतः ॥ 4.31.16,17 ॥

तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् ।

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।

जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ 4.31.18 ॥

तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः ।

वभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ॥ 4.31.19 ॥

तं ते भयपरिताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः ।

कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ 4.31.20 ॥

ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः ।

क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ 4.31.21 ॥

तारया सहितः कामी सक्तः कपिवृषो रहः ।

न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ 4.31.22 ॥

ततः सचिवसन्दिष्टा हरयो रोमहर्षणाः ।

गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ 4.31.23 ॥

नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः ।

सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः । 4.31.24 ॥

दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।

केचिन्नागसहस्रस्य बभूवुस्तुल्याविक्रमाः ॥ 4.31.25 ॥

कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः ।

अपश्यल्लक्ष्मणः क्रुद्धः किष्कन्धां तां दुरसदाम् ॥ 4.31.26 ॥

तं दृष्ट्वेत्यादि । वानराः पूर्वोक्ता बहिश्चराः ॥ 4.31.1826 ॥

ततस्ते हरयः सर्वे प्राकारपरिघान्तरात् ।

निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ 4.31.27 ॥

ततस्त इति । प्रकारपरिघान्तरान्निष्क्रम्य आविष्कृतं प्रकाशं यथा भवति तथा तस्थुः ॥ 4.31.27 ॥

सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ।

बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ॥ 4.31.28 ॥

स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ।

बभूव नरशार्दूलः सधूम इव पावकः ॥ 4.31.29 ॥

सुग्रवस्येति । आर्तं कामपीडितम् ॥ 4.31.28,29 ॥

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् ।

स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ॥ 4.31.30 ॥

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ।

समासाद्याङ्गदस्त्रासाद्विषादमगमद् भृशम् ॥ 4.31.31 ॥

बाणेति । बाणशल्यं बाणाग्रमेव स्फुरन्ती जिह्वा यस्य स तथा । सायकासनं धनुः तदेव भोगः फणा बभूवेति पूर्वेण सम्बन्धः ॥ 4.31.30,31 ॥

सो ऽङ्दं रोषताम्राक्षः सन्दिदेश महायशाः ।

सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ 4.31.32 ॥

एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः ।

भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः ॥ 4.31.33 ॥

तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर ।

इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम ॥ 4.31.34 ॥

सो ऽङ्गदमित्यादि । वत्स अरिन्दमः एष रामानुजः त्वत्सकाशं प्राप्त इति ममागमनं सुग्रीवः कथ्यताम् । भ्रातृव्यसनसन्तप्तः स लक्ष्मणः द्वारि तिष्ठति । तस्य वाक्ये तव यदि रुचिः तर्हि साधु युक्तम् । तत्र तव गमनं वा अत्रैव तस्यानयनं वा क्रियताम् । इत्येतद्वाक्यमुक्त्वा शीघ्रमागच्छ इति सो ऽङ्गदं सन्दिदेशेति सम्बन्धः ॥ 4.31.3234 ॥

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो ऽङ्गदो ऽब्रवीत् ।

पितुः समीपमागम्य सौमित्रिरयमागतः ॥ 4.31.35 ॥

लक्ष्मणस्येति । अयमागत इत्यनन्तरमिति करणं बोध्यम् ॥ 4.31.35 ॥

अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः ।

निपत्य तूर्णं नृपतेस्तरस्वी ततः कुमारश्चरणौ ववन्दे ॥ 4.31.36 ॥

उक्तं विस्तृणाति अथेति ॥ 4.31.36 ॥

सङ्गृह्य पादौ पितुरग्र्यतेजा जग्राह मातुः पुनरेव पादौ ।

पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ 4.31.37 ॥

सङ्गृह्येति । मातुः पुनरेवेत्यनेन मातुः पृथग्वन्दनमुच्यते ॥ 4.31.37 ॥

स निद्रामदसंवीतो वानरो न विबुद्धवान् ।

बभूव मदमत्तश्च मदनेन च मोहितः ॥ 4.31.38 ॥

स इति । मदमत्तः पानकृतमदमत्तः ॥ 4.31.38 ॥

ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ।

प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ 4.31.39 ॥

तत इति । किलकिलेति वानराणां शब्द उच्यते ॥ 4.31.39 ॥

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ।

सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ 4.31.40 ॥

तेन शब्देन महता प्रत्यबुध्यत वानरः ।

मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ 4.31.41 ॥

त इति । महौघनिभं महाप्रवाहतुल्यं लक्ष्मणम् । समं युगपत् ॥ 4.31.40,41 ॥

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ।

मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ ॥ 4.31.42 ॥

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ।

वक्तुमुञ्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ 4.31.43 ॥

अथेति । तेनैव समागतौ तदाह्वानेन समागतौ मन्त्रिणौ प्रशस्तमन्त्रौ अर्थधर्मयोर्विषये उञ्चावचं वक्तुं प्राप्तं लक्ष्मणं शशंसतुः ॥ 4.31.42,43 ॥

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ।

आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ 4.31.44 ॥

सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ।

वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ 4.31.45 ॥

प्रसादयित्वेत्यादि । सामनिश्चैतैः सान्त्वविषये निश्चितैः ऊचतुरिति शेषः ॥ 4.31.44,45 ॥

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ।

यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः ॥ 4.31.46 ॥

यस्येति । यस्य भीताः यस्मात् भीताः ॥ 4.31.46 ॥

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ।

व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ 4.31.47 ॥

अयं च दयितो राजन् तारायास्तनयो ऽङ्गदः ।

लक्ष्मणेन सकाशं ते प्रेषितस्त्वरया ऽनघ ॥ 4.31.48 ॥

सो ऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् ।

वानरान्वानरपते चक्षुषा निर्दहन्निव ॥ 4.31.49 ॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः ।

गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम् ॥ 4.31.50 ॥

वाक्यसारथिः रामवाक्यप्रेरित इत्यर्थः । कथमिदं दुर्गमेकः प्रविष्टवानित्यत्राह व्यवसायरथ इति । प्रतिपक्षनिरासाध्यवसायरथः । तस्य तस्मै ॥ 4.31.4750 ॥

यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ।

राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ 4.31.51 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥ 31 ॥

स्वसमये स्वमर्यादायाम् । सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥ 4.31.51 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ 31 ॥