श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः
सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः ।
समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ 4.25.1 ॥
अथ रामः सर्वसान्त्वनपूर्वकं वालिनः संस्कारं कारयति पञ्चविंशे सुग्रीवमित्यदि । साङ्गदमिति सुग्रीवविशेषणम् । समानशोकः ताराङ्गदादिभिस्तुल्यशोकः ॥ 4.25.1 ॥
न शोकपरितापेन श्रेयसा युज्यते मृतः ।
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ॥ 4.25.2 ॥
नेति । शोकपरितापेन शोककृतपरितापेन, युष्मदीयेनेति शेषः । मृतो वाली श्रेयसा न युज्यते । अत्र वालिनि विषये अनन्तरं मरणानन्तरम् । यत् श्रेयस्करं कार्यम् और्ध्वदैहिकरूपम्, तत्समाधातुं कर्तुम् अर्हथ ॥ 4.25.2 ॥
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।
न कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम् ॥ 4.25.3 ॥
लोकेति । लोकवृत्तं लोकाचारसिद्धम् । अत एव सर्वैरनुष्ठेयं बाष्पमोक्षणम् । वः युष्माभिः कृतम् । बाष्पमोक्षणादतिरिक्तं किमपि न युष्माभिः कर्तुं शक्यमित्याह कालादिति । कालादुत्तरं कालं विनेत्यर्थः । किञ्चित्कर्म उपासितुं कर्तुं न शक्यम्, देवाज्ञामुल्लङ्घ्य स्वातन्त्र्येण किञ्चिदपि कर्म कर्तुं न शक्यमित्यर्थः ॥ 4.25.3 ॥
नियतिः कारणं लोके नियतिः कर्मसाधनम् ।
नियतिः सर्वभातानां नियोगेष्विह कारणम् ॥ 4.25.4 ॥
तदेतुदुपपादयति नियतिरिति । नियम्यते ऽनेनेति नियतिः ईश्वरः लोके विषये कारणं सर्वलोककर्तेत्यर्थः । क्रियत इति कर्म कार्यम्, तस्य साधनं सहकारीत्यर्थः । सर्वभूतानां नियोगेषु प्रेरणेषु नियतिः कारणम्, सर्वप्रवर्तको ऽपीश्वर इत्यर्थः । “तेन विना तृणाग्रमपि न चलति” इति न्यायात् ईश्वरपरतन्त्रतया लोकः कर्म करोति न तु स्वातन्त्र्येणेत्यर्थः ॥ 4.25.4 ॥
न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः ।
स्वाभावे वर्तते लोकस्तस्य कालः परायणम् ॥ 4.25.5 ॥
एवमन्वयमुखेन ईश्वराधीनत्वमुक्त्वा व्यतिरेकमुखेन दर्शयति न कर्तेति । कश्चित्पुरुषः कस्यचित्कर्मणः न कर्ता न स्वातन्त्र्येण कर्ता नियोगे कस्य चित्प्रेरणे च नेश्वरः किन्तु स्वभावे वर्तते स्वभावाधीनो वर्तते लोकः । तत्र हेतुमाह तस्येति । कालः तस्य परायणं गतिः । अत्र स्वभावनियतिकालादिशब्दैरीश्वर एवाभिधीयते । अन्यथा ऽनेकराजत्वापत्तेः । श्वेताश्वतरश्रुतिश्च “स्वभावमेके कवयो वदन्ति” इत्यादिकैवमाह ॥ 4.25.5 ॥
न कालः कालमत्येति न कालः परिहीयते ।
स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ 4.25.6 ॥
न काल इति । कालः ईश्वरः । कालम् आत्मानम् । नात्येति नातिक्रामति । सः स्वाधीन एव न तु लोकवत् कस्यचित्परतन्त्रः । “न चास्य कश्चिज्जनिता न चाधिपः” इति श्रुतेः । न कालः परिहीयते न नश्यति । इदमुपलक्षणं षङ्भावविकाररहित इत्यर्थः । “अपक्षयविनाशाभ्यां” परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ।” इति ह्युक्तम् । स्वस्मिन् भवतीति स्वभाव ईश्वरः । वाशब्दो ऽवधारणे । स्वभावमासाद्यैव वर्तते न तु कश्चित्तमतिवर्तते । निरङ्कुशः स्वतन्त्रः । स्वकृतां व्यवस्थां स्वयमपि नातिवर्तते । तत्परतन्त्रो ऽनीशः किमुतेति भावः ॥ 4.25.6 ॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ।
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ॥ 4.25.7 ॥
पुनरपीश्वरस्य स्वातन्त्र्यमुपपादयति न कालस्येति । कालस्येश्वरस्य । बन्धुत्वं नास्ति, पक्षपातो नास्तीर्यर्थः । हेतुश्च नास्ति, वशीकरणोपायश्च नास्ति । तत्प्रसादं विना स्वयत्नेन वशीकर्त्तुं न श्कयते इत्यर्थः । न पराक्रमः तज्जयहेतुपराक्रमो ऽपि नास्ति । पुरुषपराक्रमस्य स न बिभेति इति भावः । न मित्रज्ञातिसम्बन्धः न सुहृत्सगोत्रसम्बन्धः । अपराधिषु दण्डधरत्वमुक्तम् । “एष सेतुर्विधरण एषां लोकानामसम्भेदाय” इति श्रुतेः । अतः कारणमीश्वरः आत्मनो जीवस्य न वशः न परतन्त्रः । तत्तत्कर्मानुगुणमेव ईश्वरः सर्वं वर्तयतीत्यर्थः ॥ 4.25.7 ॥
किन्तु कालपरीणामो द्रष्टव्यः साधु पश्यता ।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ 4.25.8 ॥
तर्ह्यनीशेन जन्तुना किं कर्तव्यं तत्राह किं त्विति । साधु सम्यक् पश्यता शास्त्रनिष्कर्षमवगच्छतेत्यर्थः । कालस्य ईश्वरस्य । परीणामः चेतनकर्मानुगुणप्रवृत्तिविशेषो द्रष्टव्यः, ईश्वरकृतव्यापारेषु न शोकः कर्तव्यः, यद्धितं तत्करिष्यतीति, स्थातव्यमिति भावः । धर्मार्थकामास्तु कालक्रमेण ईश्वरमर्यादया समाहिताः समर्पिता भवन्ति । धर्माधिषु यत् प्राप्तव्यं तत्
प्रापयतीश्वर एवेति भावः । अत्र नियतिकालस्वभावपदैः व्यामिश्रतयोक्तिस्तदानीं रहस्यं(स्य) वक्तुमनर्हत्वादिति बोध्यम् ॥ 4.25.8 ॥
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् ।
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ॥ 4.25.9 ॥
एवमर्थस्थितिमुक्त्वा तां प्रकृते सङ्गमयति इत इति । स्वां प्रकृतिं गतः मद्बाणवेधकृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सन् प्लवगेश्वरो वाली इतः अस्माल्लोकात् धर्मार्थकामसंयोगौः विहितकालानुष्ठितधर्मार्थकामसम्बन्धैः पवित्रं क्रियाफलं स्वर्गं प्राप्तः । “सामदानार्थसंयोगैः” इति पाठे नीतिशास्त्रानुष्ठानैरित्यर्थः ॥ 4.25.9 ॥
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना ।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ 4.25.10 ॥
केन स्वां प्रकृतिं प्राप्त इत्यपेक्षायामुक्तं विशदयति स्वधर्मस्य चेति । स्वधर्मस्य संयोगात्स्वविहितधर्मानुष्ठानात् । रणे प्राणानपरिरक्षतेत्यनेन शौर्यकृतधर्मो ऽप्युक्तः । उभाभ्यां जितः पूर्वं स्ववशीकृतः स्वर्गः इदानीं परिगृहीतश्च ॥ 4.25.10 ॥
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ।
तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ 4.25.11 ॥
एषेति । हरियूथपः वाली यां नियतिं गतः सा नियतिर्गतिः श्रेष्ठा । तत्तस्मात्कारणात् परितापेनालम् । सद्गितिं प्राप्तं प्रति शोको न कार्यः । प्राप्तकालम् एतत्कालोचितम् उपास्यताम् अनुष्ठीयताम् ॥ 4.25.11 ॥
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ 4.25.12 ॥
गतचेतसम्, दुःखितमिति यावत् ॥ 4.25.12 ॥
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥ 4.25.13 ॥
कुरु त्वमस्येत्यर्धमेकं वाक्यम् ॥ 4.25.13 ॥
ताराङ्गदाभ्यां सहितो वालनो दहनं प्रति ।
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ॥ 4.25.14 ॥
चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ।
समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् ॥ 4.25.15 ॥
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ।
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ।
घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ॥ 4.25.16 ॥
तारेत्यादि । वालिनो दहनं प्रति ताराङ्गदाभ्यां सहितः सन् वालिसंस्कारकारणात् वालिसंस्कारार्थं चन्दनादीनि काष्ठानि समाज्ञापय । यच्चात्र समनन्तरं मरणानन्तरं यदानेतव्यमस्ति तत्सर्वमङ्गदः समानयेदित्यर्थः ॥ 4.25.1416 ॥
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् ।
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥ 4.25.17 ॥
त्वमिति । त्वरा गुणवती अस्मिन्काले विशेषतो युक्ता ॥ 4.25.17 ॥
सज्जीभवन्तु प्लवगाः शिबिकावहनोचिताः ।
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ 4.25.18 ॥
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्द्धनः ।
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ 4.25.19 ॥
सज्जीभवन्त्विति । ये निर्हरिष्यान्ति ते सज्जीभवन्त्विति योजना । निर्हारः शववहनम् ॥ 4.25.18,19 ॥
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः ।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ 4.25.20 ॥
आदाय शिबिकां तारः स तु पर्यापतत्पुनः ॥ 4.25.21 ॥
गुहां किष्किन्धाम् ॥ 4.25.20,21 ॥
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ।
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् ॥ 4.25.22 ॥
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् ।
आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः ॥ 4.25.23 ॥
विमानमिव सिद्धानां जालवातायनावृताम् ।
सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ॥ 4.25.24 ॥
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ।
वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥ 4.25.25 ॥
गुहागहनसञ्छन्नां रक्तचन्दनरूषिताम् ।
पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च ।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ 4.25.26 ॥
वानरैरित्यादि । भद्रासनयुतां राजासनयुक्ताम् । (राजार्होन्नतासनयुक्तामिति रामानुजार्यः) पक्षिकर्मभिराचित्रां कृत्रिमपक्षिभिः समन्तादाश्चर्यभूताम् । क्रियत इति कर्मप्रतिकृतिः । द्रुमकर्मभिः द्रुमप्रतिकृतिभिः विभूषिताम् । आचितां चित्रपत्तीभिः चित्रलेखाभिः । पदातिभिरित्येके । आर्षो दीर्घः । सुनिविष्टां शोभनसन्निवेशवतीं जालवातायनावृतां सूक्ष्मरन्ध्रसमूहो जालम्, गोनयनाकृतिरन्ध्रसमूहो गवाक्षम्, तदावृताम् । सुनियुक्तां सुश्लिष्टां सुकृतां सुष्ठुकृताम्, यत्नेन कृतामित्यर्थः । दारुपर्वतकोपेतां दारुनिर्मितक्रीडापर्वतयुक्तां, चारुकर्मणा उत्तेजनेन परिष्कृताम् अलङ्कृतां, वराभरणैः हारैश्च, युक्तामिति शेषः । गुहागहनसञ्छन्नां कृत्रिमैर्गुहागहनैः गुहाभिः काननैश्च सञ्छन्नां, पुष्पौघैः मुक्तकपुष्पनिचयैः आस्तरणार्थैः समभिच्छन्नां व्याप्तां, पद्मेति चतुर्दिक्षु पुष्पसरोपेतत्वे ऽप्यन्तरान्तरा पद्ममालाभिः पद्मपङ्क्तिभिर्युक्तामित्यर्थः ॥ 4.25.2226 ॥
ईदृशीं शिबीकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् ।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥ 4.25.27 ॥
ईदृशीं शिबिकामिति । पुनरुक्तिर्व्यवहितानुस्मरणार्था ॥ 4.25.27 ॥
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ।
आरोपयत विक्रोशन्नङ्गदेन सहैव तु ॥ 4.25.28 ॥
तत इति । ततः लक्ष्मणं प्रति वाली विनीयतामित्युक्तिश्रवणानन्तरमित्यर्थः । यद्वा लक्ष्मणं प्रत्युक्तिः स्वमुद्दिश्यैवेति ज्ञात्वेत्यर्थः । आरोपयत आरोपयत् ॥ 4.25.28 ॥
आरोप्य शिबिकां चैव वालिनं गतजीवितम् ।
अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ 4.25.29 ॥
आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः ।
और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ॥ 4.25.30 ॥
विश्राणयन्तो रत्नानि विविधानि बहून्यापि ।
अग्रतः प्लवगाः यान्तु शिबिका समनन्तरम् ॥ 4.25.31 ॥
आर्यस्य ज्येष्ठस्य देहादूर्ध्वं कर्तव्यम् और्ध्वदैहिकम् उत्तरक्रिया । शिबिकासमनन्तरम् आसन्दीसमीपे । अत्रेतिकरणं द्रष्टव्यम् । इत्याज्ञापयदिति पूर्वेण सम्बन्धः ॥ 4.25.2931 ॥
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः ।
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् ॥ 4.25.32 ॥
राज्ञामिति । ऋद्धिविशेषाः ऋद्धिविशेषानुरूपाः यादृशाः और्ध्वदैहिकक्रियाप्रकारा दृश्यन्ते तादृशमौर्ध्वदैहिकं क्षिप्रं प्राकुर्वन् ॥ 4.25.32 ॥
अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा ।
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ 4.25.33 ॥
तारप्रभृतयो वानरा इति सम्यक् ॥ 4.25.33 ॥
ततः प्रणिहिताः सर्वा वानर्यो ऽस्य वशानुगाः ।
चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ 4.25.34 ॥
ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः ।
अनुजग्मुर्हि भर्तारं क्रशन्त्यः करुणस्वनाः ॥ 4.25.35 ॥
तासां रुदितशब्देन वानरीणां वनान्तरे ।
वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ 4.25.36 ॥
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ।
चितां चक्रुः सुबहवो वानराः शोककर्शिताः ॥ 4.25.37 ॥
प्रणिहिताः आप्ताः ॥ 4.25.3437 ॥
अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः ।
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ 4.25.38 ॥
ततस्तारा पतिं दृष्टा शिबिकातलशायिनम् ।
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ 4.25.39 ॥
हा वानर महाराज हा नाथ मम वत्सल ।
हा महार्ह महाबाहो हा मम प्रिय पश्य माम् ।
जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ 4.25.40 ॥
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद ।
अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा ॥ 4.25.41 ॥
एष त्वां रामरूपेण कालः कर्षति वानर ।
येन स्म विधवाः सर्वाः कृता एकेषुणा वने ॥ 4.25.42 ॥
अरोप्येति । वहनोचिताः वाहकाः ॥ 4.25.3842 ॥
इमास्तास्तव राजेन्द्र वानर्यो वल्लभाः सदा ।
पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे ।
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ॥ 4.25.43 ॥
विकृष्टं विप्रकृष्टम् । अध्वानं पादैरागताः ॥ 4.25.43 ॥
इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् ।
एते हि सचिवा राजन् तारप्रभृतयस्तव ॥ 4.25.44 ॥
पुरवासी जनश्चायं परिवार्या ऽ ऽसते ऽनघ ।
विसर्जयैतान् प्लवगान् यथोचितमरिन्दम ।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ 4.25.45 ॥
इदानीमित्यादि । मदनोत्कटाः उत्कटमदनाः ॥ 4.25.44,45 ॥
एवं विलपतीं तारां पतिशोकपरिप्लुताम् ।
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥ 4.25.46 ॥
विलपतीं विलपन्तीम् ॥ 4.25.46 ॥
सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् ।
चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥ 4.25.47 ॥
पितरं पितृशरीरम् ॥ 4.25.47 ॥
ततो ऽग्निं विधिवद्दत्त्वा सो ऽपसव्यं चकार ह ।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ 4.25.48 ॥
तत इति । अपसव्यम् अप्रदक्षिणम् ॥ 4.25.48 ॥
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः ।
आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम् ॥ 4.25.49 ॥
संस्कृत्येति । वालिनं वालिशरीरम् । उदकं कर्तुं जलतर्पणं कर्तुम् । नदीं किष्किन्धासमीपवर्तिनीम् ॥ 4.25.49 ॥
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः ।
सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ॥ 4.25.50 ॥
ततस्त इति । सुग्रीवतारासहिता इति । तारयाप्युदकदानं कुलाचारः ॥ 4.25.50 ॥
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ।
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ 4.25.51 ॥
सुग्रीवेणेति । अनेन रामः सहैवागत इत्यवगम्यते ॥ 4.25.51 ॥
ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् ।
प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः ॥ 4.25.52 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥ 25 ॥
ततस्त्विति । प्रकाशं प्रसिद्धं प्रदीप्य दग्ध्वा हरिः सुग्रीवः । अन्ये पुरं प्रविविशुरित्यर्थसिद्धम् । यद्यपि निर्यगधिकरणरीत्या तिरश्चां न शास्त्रविहितसंस्काराधिकारः, तथापि देवांशसम्भूतानां तिर्यगवस्थामात्रभाजां वेदाघ्ययनसंयोगाद्देवक्षेत्रजातत्वात् संस्कारार्हतास्तीति बोध्यम् ॥ 4.25.52 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प़ञ्चविंशः सर्गः ॥ 25 ॥