०२४ सुग्रीवविलापः-तारासान्त्वनं च

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः

तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन ।

पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ॥ 4.24.1 ॥

अथ ताराप्रलापश्रवणदुःखितसुग्रीवनिर्वेदप्रदर्शन(समाश्वासन)पूर्वकं ताराया रामे प्रतिपत्तिं दर्शयति चतुर्विंशे तामित्यादि । अश्रुवेगेन च दुरासदेन दुष्प्रापेण शोकमहार्णवेन च अभिप्लुतां व्याप्तां तां तारां पश्यन् तेन भ्रातुर्वधेन च तेपे दुःखितो ऽभूत् ॥ 4.24.1 ॥

स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ।

जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः ॥ 4.24.2 ॥

स इति । मुखेन उपलक्षितः सः वीक्ष्य, तारामिति शेषः ॥ 4.24.2 ॥

स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम् ।

यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥ 4.24.3 ॥

स तमिति । उदात्तं श्रेष्ठं लक्षणेन सुलक्षणेन लक्षिताङ्गम् ॥ 4.24.3 ॥

यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ।

ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन ॥ 4.24.4 ॥

यथेति । यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य । दृष्टफलं दृष्टराज्यफलकं कर्म त्वया कृतम् । जीवितेन सह स्थितेषु भोगेषु जीविते भोगेषु च मनो निवृत्तमित्यर्थः ॥ 4.24.4 ॥

अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते ।

हते ऽग्रजे संशयिते ऽङ्गदे च न राम राज्ये रमते मनो मे ॥ 4.24.5 ॥

अस्यामिति । पुरे पुरस्थजने संशयिते पितृमरणदुःखेन जीवति वा न वेति संशयविषयीभूते सति राज्ये मनः न रमते रतिं न प्राप्नोति ॥ 4.24.5 ॥

क्रोधादमर्षादतिविप्रधर्षात् भ्रातुर्वधो मे ऽनुमतः पुरस्तात् ।

हते त्विदानीं हरियूथपे ऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥ 4.24.6 ॥

क्रोधादिति । क्रोधान्निर्निमित्तनिर्वासनकृतात् अमर्षात्परुषभाषणाक्षमया अतिविप्रधर्षात् अत्यन्तमाक्रमणाच्च ॥ 4.24.6 ॥

श्रेयो ऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके ।

यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः ॥ 4.24.7 ॥

श्रेय इति । यथा तथा कथञ्चित् स्ववृत्त्या वानरजात्युचितवृत्त्या तस्मिन् शेलमुख्ये ऋश्यमूके निवासः श्रेयस्करः । इमं वालिनं निहत्य त्रिदिवस्य स्वर्गस्य लाभो ऽपि न श्रेय इत्यर्थः ॥ 4.24.7 ॥

न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच ।

तस्यैव तद्राम वचो ऽनुरूपमिदं पुनः कर्म च मे ऽनुरूपम् ॥ 4.24.8 ॥

न त्वामिति । महात्मा महास्वभावः मतिमान् कर्तव्याकर्तव्यविवेकशीलः अयं वाली त्वां न जिघांसामि न मारयितुमिच्छामि चर यथेष्टं गच्छेति मामुवाचेति यत् तद्वचः तस्यैव अनुरूपं सदृशम्, तद्बुद्धिशीलतुल्यम् । इदं भ्रातृवधरूपं कर्म तु मे दुरात्मनो दुर्मतेरनुरूपम् ॥ 4.24.8 ॥

भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत ।

राज्यस्य दुःखस्य च वीर सारं न चिन्तयन् कामपुरस्कृतः सन् ॥ 4.24.9 ॥

भ्रातेति । राज्यस्य भ्रातृवधसाध्यस्य दुःखस्य वधानन्तरभाविदुःखस्य च सारम् उत्कर्षं न चिन्तयन्, उभयोस्तारतम्यमचिन्तयन्नित्यर्थः ॥ 4.24.9 ॥

वधो हि मे मतो नासीत्स्वमाहात्म्यव्यतिक्रमात् ।

ममासीद् बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥ 4.24.10 ॥

महात्मेत्युक्तं विशदयति वध इति । अस्य वालिनः स्वमाहात्म्यस्य स्वमहत्त्वस्य अव्यतिक्रमात् अनतिक्रमात् मे वधः मन्निधनं मतो नासीत् । मम तु बुद्धिदौरात्म्यात् बुद्देर्दुःस्वभावात् । प्राणहारी भ्रातृवधकारी व्यतिक्रमः अमर्यादा आसीत् ॥ 4.24.10 ॥

द्रुमशाखावभग्नो ऽहं मुहूर्तं परिनिष्ठनन् ।

सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ 4.24.11 ॥

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।

मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ 4.24.12 ॥

मतो नासीदित्युक्तं विशदयति द्रुमेति । परिनिष्ठनन् आर्तरवं कुर्वन् न पुनः कर्तुमर्हसि, युद्धमिति शेषः । अत्रेतिकरणं द्रष्टव्यम् ॥ 4.24.11,12 ॥

अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम् ।

प्राप्तो ऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥ 4.24.13 ॥

अचिन्तनीयमिति । अचिन्तनीयम् अपरिच्छेद्यमित्यर्थः । परिवर्जनीयं साधुभिस्त्यक्तव्यम् । अनीप्सनीयम् अनभिलषणीयम्, कदाचिदपि इच्छाया अयोग्यमित्यर्थः । स्वनवेक्षणीयं सुतरामदर्शनीयम्, जुगुप्सितमित्यर्थः । त्वष्टुः पुत्रः त्वाष्ट्रः विश्वरूपः । तं हत्वा इन्द्रो महान्तं पाप्मानमगमदिति कथा ॥ 4.24.13 ॥

पाम्पानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च ।

को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छन् ॥ 4.24.14 ॥

पाम्पानमिति । इन्द्रस्य परमैश्वर्यसम्पन्नस्य पाम्पानं मह्यादयः ऊषरफेननिर्यासऋतुरूपेण जगृहुः खातपूरणादिवरप्रदत्त्वात् । मम तु शाखामृगस्य कस्याप्यनुपकारकस्य पाप्मानं प्रतिपत्तुं किञ्चिद्वरं प्राप्तुमिच्छन् को नाम क्षमेत, ग्रहीतुमिति शेषः । यद्यपि विश्वरूपाख्यायिकायां त्वाष्ट्रशिरस्त्रयच्छेदकृतब्रह्महत्यात्रितयं पृथिवीवनस्पतिस्त्रिय एव जगृहुरित्युक्तम् । तथापि शाखान्तरानुरोधेन जलेनापि कश्चिदंशो गृहीत इत्यवगन्तव्यम् ॥ 4.24.14 ॥

नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् ।

अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा ॥ 4.24.15 ॥

नार्हामीति । कुलनाशयुक्तं कुलनाशफलकम्, वालिविनाशेनाङ्गदादेरजीवनादिति भावः । एवंविधं भ्रातृवधरूपं कर्म कृत्वा प्रजानां सम्मानं प्रजाकर्तृकराजसम्मानं नार्हामि । अत एव यौवराज्यमेव नार्हामि, कुतो महाराज्यमिति भावः ॥ 4.24.15 ॥

पापस्य कर्ता ऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव ।

शोको महान् मामभिवर्तते ऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ 4.24.16 ॥

पापस्येति । क्षुद्रस्य दुष्टस्य विगर्हितस्य विशेषेण शिष्टैर्निन्दितस्य लोकापकृतस्य सर्वलोकैस्त्यक्तस्य पापस्य कर्ता ऽस्मि । एतादृशपापस्योत्तरपापहेतुत्वज्ञापनाय तृच्प्रत्ययः । वृष्टेरुत्पन्नो ऽम्बुवेगो यथा तादृशशोको मां निम्नमिवाभिवर्तते । उभयत्राप्युपमावाचकप्रयोगो महाकविनिबन्धनेष्वस्त्येव ॥ 4.24.16 ॥

सोदर्यघाता ऽपरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः ।

एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ॥ 4.24.17 ॥

सोदर्येति । सोदर्यस्य भ्रातुः घात एवापरगात्रवालौ अपरकायपुच्छौ यस्य स तथा, सन्ताप एव हस्तादीनि यस्य स तथा । वधादपि सन्तापस्य प्राधान्यादूर्ध्वकायत्वरूपणम्, वधप्रकारवैविध्यात्सन्तापवैविध्याच्च नानावयवत्वेन रूपणम् । “एनोमयः” इति स्वार्थे मयट् । पापमेव हस्ती । एनसो दृप्तत्वमुत्कटत्वं तस्य प्रवृद्धत्वं महत्त्वं गजस्योन्नतत्वम् ॥ 4.24.17 ॥

अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधु वृत्तम् ।

विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम् ॥ 4.24.18 ॥

अहं इति । हे नृवर राधव मे हृदि इदं साधु वृत्तम्, अंहः स्वेन सह वर्तमानं पापम् अविषह्य असोढ्वा निवर्तते निर्गच्छति । कथमिव? विवर्णं जातरूपम् अग्नौ परितप्यमानं सत् किट्टं यथा ऋजीषांशमविषह्य निवर्तते, किट्टाद्वियुज्यत इत्यर्थः । बतेति विषादे ॥ 4.24.18 ॥

महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम ।

अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमितीव मन्ये ॥ 4.24.19 ॥

अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् अस्याङ्गदस्य शोकतापात् महाबलानां हरियूथपानाम् इदं परिदृश्यमानं कुलं यूथम् अर्धस्थितप्राणमिव भवतीति मन्ये । “सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्” इत्यमरः ॥ 4.24.19 ॥

सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशो ऽङ्गदेन ।

न चापि विद्येत स वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः ॥ 4.24.20 ॥

सुत इति । सुजनः सौजन्यवान् । सुवश्यः सुतरां वश्यः, स्वाधीनः सुतः । सुलभ्यः लोके सुखेन लब्धुं योग्यः । अङ्गदेन तुल्यः पुत्रस्तु कुतो हेतोः सुलभ्यः, दुर्लभ इत्यर्थः । सोदरसन्निकर्षो ऽपि दुर्लभः इत्याह न चापीति । सन्निकर्षः सन्निधानम् ॥ 4.24.20 ॥

यद्यङ्गदो वीर वरार्ह जीवेज्जीवेच्च माता परिपालनार्थम् ।

विना तु पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥ 4.24.21 ॥

अङ्गदो यदि जीवेत्तदा तारापि जीवेत् अन्यथा नेत्याह यदीति ॥ 4.24.21 ॥

सो ऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन् ।

इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः ॥ 4.24.22 ॥

अङ्गदमरणं निश्चित्याह सो ऽहमिति । पुत्रेण अङ्गदेन । “भ्रातृ़णामेकजातानां यद्येकः पुत्रवान् भवेत् । तेन पुत्रेण ते सर्वे पुत्रिणो मनुरब्रवीत् ॥” इति स्मृतिः। सख्यमिति। तन्मरणे मरणं हि स्नेहस्य पराकाष्ठा। निदेशे त्वदाज्ञायाम् ॥ 4.24.22 ॥

कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र ।

कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम् ॥ 4.24.23 ॥

कृत्स्नमिति । अप्रतीते अप्रकाशे, मृत इति यावत् । मां विनापि त्वं सर्वं कार्यं कर्तुं क्षम इत्यर्थः ॥ 4.24.23 ॥

इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य ।

सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव ॥ 4.24.24 ॥

अथ रामस्याश्रितकार्यमेव स्वकार्यम्, नतु स्वतः किञ्चिदस्ति । अत एव मम शत्रुर्वालीति सुग्रीवेणोक्ते तं निहत्य तस्मिन्नश्रूणि मुक्त्वा शोचति सति स्वयमपि तथा शोचति स्मेत्याह इत्येवमिति । यद्वा सर्वेश्वरस्य कुत्रचिद्विषयीकारस्तत्सन्तानपर्यन्तः घण्टाकर्णमालाकारादिष्विवेत्याह इत्येवमिति । रघुप्रवीर इत्यनेन स्वस्य वानरेण सम्बन्धान्तरप्रसक्तिर्नास्तीत्युच्यते । वाल्यनुजस्य आर्तस्य वाल्यनुजे आर्ते सतीत्यर्थः । वचः श्रुत्वा सञ्जातबाष्पः तदार्तिनिमित्तकार्त्तिक इत्यर्थः । परवीरहन्ता आश्रितविरोधिनिरसनशीलः ताच्छील्ये तृन् (च्) । सुग्रीववचनात् कृतवलिवधत्वेन तच्छोचनादशोचदित्यर्थः । अनेन रामस्य क्रोधशोकावाश्रितक्रोधशोकायत्तावित्ययमर्थः सूचितः ॥ 4.24.24 ॥

तस्मिन् क्षणे ऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान् भुवनस्य गोप्ता ।

रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सो ऽथ ददर्श ताराम् ॥ 4.24.25 ॥

तस्मिन्निति । तस्मिन्क्षणे तस्मिन्वसरे अभीक्ष्णं पुनःपुनः अवेक्ष्यमाणः, तारयेति शेषः । अनेन तारायाः रामविषयमानुकूल्यमुक्तम् । क्षितिक्षमावान् क्षितेर्यादृशी क्षमा तादृशक्षमावान् क्षमावत्त्वभुवनगोप्तृत्वगुणौ तारया चिन्तितौ कविनोक्तौ । रुदन्तीमित्यादिना ताराया दयनीयतोक्ता । समुत्सुकः शोकापनयने कृतादरः ॥ 4.24.25 ॥

तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम् ।

उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम् ॥ 4.24.26 ॥

सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना ।

ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ 4.24.27 ॥

रामागमनमालोक्य मन्त्रिणस्तामुत्थापयामासुरित्याह तामिति ॥ 4.24.26,27 ॥

सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा ।

अदृष्टपूर्वं पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥ 4.24.28 ॥

सुसंवृतमिति । पार्थिवलक्षणैः राजलक्षणैः सुसंवृतम् अन्यूनतया युक्तमित्यर्थः । चारुनेत्रम् पुण्डरीकाक्षं मृगशावनेत्रा “विद्वानेव विजानाति विद्वज्जनपरिश्रमम्” इति न्यायेन स्वयं चारुनेत्रतया तत्रैव प्रथमं दृष्टिं न्यधादिति भावः । अदृष्टपूर्वम् इतः पूर्वं कुत्राप्यदृष्टचरम्, योगं विना अदृष्टमित्यर्थः । पुरुषप्रधानं पुरुषोत्तमम् अयं स इति विजज्ञे । यः पूर्वं भर्तारं हतवान् सो ऽयमिति ज्ञातवती । यद्वा यः पूर्वमङ्गदाच्छ्रुतः, यद्वा यः पूर्वं पुण्डरीकाक्षत्वादिगुणविशिष्टतया महाजनेभ्यः श्रुतः स एवायमित्यर्थः । अत एव वक्ष्यति त्वमप्रमेयश्चेति ॥ 4.24.28 ॥

तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ।

आर्ता ऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ 4.24.29 ॥

तस्येति । व्यसननिवर्तनक्षमा गुणा उच्यन्ते । परिविह्वलन्ती मूर्छन्तीत्यर्थः ॥ 4.24.29 ॥

सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा ।

मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ 4.24.30 ॥

सेति । रणे उत्कर्षणेन उत्कर्षेण लब्धं लक्षं शरव्यं यस्य तथा । एकेन शरेण स्वभर्तृहन्तारमितयर्थः । तं रामं शोकेन सम्भ्रान्तः अयथाभूतः शरीरभावः शरीरकृतभावः यस्याः सा, कुपितेत्यर्थः । मनस्विनी मत्प्रियहन्तारं यावच्छक्ति परुषाणि वदेयमिति कृताध्यवसाया समासाद्य विशुद्धसत्त्वा रामसन्निधिमाहात्म्येन निवृत्तकालुष्यतया समुन्मिषितशुद्धसत्त्वा तारा वाक्यमुवाच । परुषभाषणोद्युक्तयैव वाचा अस्तौषीदित्यर्थः ॥ 4.24.30 ॥

त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ।

अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः ॥ 4.24.31 ॥

एवं पुरुषोत्तमत्वपुण्डरीकाक्षत्वादिभिरनुसंहितं परत्वं तारा ऽनुसन्धत्ते त्वमप्रमेयश्चेति । त्वं वक्ष्यमाणकल्याणगुणानुगुणधर्मिवैलक्षण्ययुक्तः । अप्रमेयः “वेदाहम्” इत्युपक्रम्य “महान्तं क इत्था वेद” इति वेदैरप्यपरिच्छेद्यः, अप्रमेयः “सो अङ्ग वेद यदि वा न वेद” इति स्वेनापि परिच्छिद्य ज्ञातुमशक्यः । त्वमप्रमेयः प्रत्यक्षगम्यो ऽपि मनसा दुर्विभाव्यस्वभावः, त्वमप्रमेयः शरचापधरो ऽपि त्वं शङ्खचक्रधरो ऽसि, त्वमप्रमेयः सौलभ्यदशैव न परिच्छेत्तुं शक्यते, त्वमप्रमेयः परिकररहितो ऽपि प्रतापातिशयेन निरवधिकपरिकरपरिगत इव दुरवगाहो ऽसीत्येकवचनस्य भावः । एवमन्तःकरणेन दुष्प्रापो ऽपि किं बाह्यकरणैः सुप्रापः? नेत्याह दुरासदश्च । मनसापि दुरासदः कथं प्रकारान्तरेण स्वासद इति भावः । दुरासदश्च “महाजनो येन गतः स पन्थाः” इत्युक्तं सन्मार्गं विना पथस्खलितेन दुष्प्राप इत्यर्थः । दुरासदश्च “षद्लृ, विशरणगत्यवसादनेषु” इति धातुपाठोक्तार्थत्रयमपि तन्त्रेणोच्यते । नित्यत्वान्न विशरणार्हः, विभुत्वान्न विचालनार्हः, नित्यानन्दत्वान्नावसादमापादयितुं शक्य इत्यर्थः । दुरासदश्च वालिवधकुपितानां प्रतीकाराय सन्निधानमपि गन्तुमशक्य इत्यर्थः । दुरासदश्च बाह्यकुदृष्टिभिरुक्त्याभासैरप्रकम्प्यवैभव इत्यर्थः । एवमप्रमेयत्वदुर्धर्षत्वाभ्यां सुदृप्तो ऽपि न परदारराज्यपरिग्रहलुब्ध इत्याह जितेन्द्रियश्चेति । निःस्पृहतया सुग्रीवाय दत्तराज्य इत्यर्थः । जितेन्द्रियश्च यः को ऽपि पुरुषः काञ्चिद्योषितमालक्ष्य निर्वर्णयति, त्वं तु न तथा “न रामः परदारान् वै चक्षुर्भ्यामपि पश्यति” इत्युक्तेः । जितेन्दियश्च “पश्यत्यचक्षुः स शृणोत्यकर्णः । अपाणिपादो जवनो ग्रहीता” इत्याद्युक्तरीत्या सर्वेन्द्रियैर्विनापि सर्वं सर्वत्र सर्वदा जानन्नित्यर्थः । जितेन्द्रियः “दुर्ग्रहं मनसाप्यन्यैरिन्द्रियैरपि दुर्जयैः” इत्युक्तरीत्या वाङ्मनसागोचरः । त्वं जितेन्द्रियः त्वमेव जितेन्द्रियः । सर्वं वाक्यं सावधारणम् । अब्भक्षो वायुभक्ष इतिवत् ।” “अहल्यायै जारः सुरपतिरभूदात्मतनयां प्रजानाथो ऽयासीदभजत गुरोरिन्दुरबलाम् ।” इत्युक्तरीत्या त्वद्व्यतिरिक्ताः सर्वे ऽपि विषयचपलाः । त्वमेको जितेन्द्रियः इत्यर्थः । एवं विरक्तोप्ययमस्मद् हिंसया अधार्मिक इति मया स्थितम् । न तथेत्याह उत्तमधार्मिकश्च । स्वाश्रितसंरक्षणार्थमेवंविधव्यापारकारितया परमधार्मिकः । स्वार्थकर्मकारी अधमधार्मिकः । स्वपरसाधारणकर्मकारी मध्यमधार्मिकः । परार्थमेव प्रवर्तमान उत्तमधार्मिकः । यद्वा वर्णाश्रमाचारसमाराध्यो धार्मिकः । उत्तमधार्मिको भक्तिमार्गभजनीयः । यद्वा उत्तमधार्मिकः शरणागतसंरक्षकः । यद्वा “उपायो गुरुरेव स्यात्तेनानुगृहीतो ब्रह्मलोकं गच्छति” इत्युक्तधर्मवानुत्तमधार्मिकः । यद्वा “आनृशंस्यं परो धर्मः” इत्युक्तधर्मवान् धार्मिकः । स्वाश्रितानामापत्सु स्ववक्षोलक्षीकुर्वन्नुत्तमधार्मिकः । यद्वा आर्तसुग्रीवरक्षणाद्धार्मिकः, अकृत्यकरणेन नारकिणं वालिनं निहत्य तस्य पूतत्वकरणादुत्तमधार्मिकः । प्रच्छन्नवेधितया निरपराधवधेन च कथमस्य धर्मिकत्वमित्याशङ्क्याह अक्षय्यकीर्तिश्च । आश्रितापराधितया तिर्यक्षु मृगया न्यायेन पराङ्मुखवधस्यादोषत्वात्तिर्यग्भिराभिमुख्येन युद्धकरणस्य सार्वभौमस्यावद्यावहत्वाच्च तव कीर्तिर्न दूषयितुं शक्येत्यर्थः । अक्षयकीर्तिश्च “तस्य नाम महद्यशः” इत्युक्तरीत्या परत्वप्रथायुक्तः । विचक्षणश्च दूरदृष्टितया युक्तायुक्तविचारपूर्वकं सर्वकार्यकृत् । अत एव हि निरपराधवधो मा भूदिति कदाचिद्वालितः पराभवं प्रापितवान् । लक्ष्यवैपरीत्यपरिहाराय गजपुष्पीं धारितवान् । एवं शत्रुसंहर्तापि “सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् । हत्वा” इत्युक्तरीत्या अङ्गदादिष्वकिञ्चित्करतया प्रशस्तक्षमावानसीत्याह क्षितिक्षमावान् । स्वाश्रितापराधकारिविषये तव सान्वयविनाशकरणे प्राप्ते ऽपि तत्क्षमणं तवातिश्लाघ्यमित्यर्थः ।

क्षितिक्षमावान् “क्षमया पृथिवीसमः” इत्युकरीत्या पञ्चाशत्कोटियोजनवस्तीर्णायाः पृथिव्या यावती क्षमा तावती तवैकस्यास्तीति भावः । नित्ययोगे मतुम् । तेन कदाचिदप्यस्याक्षमाप्रसङ्गो ऽपि नास्तीति द्योत्यते । क्षतजोपमाक्षः वालिविषये कोपातिशयेनाद्यापि शोणीकृतनयनो ऽपि तदीयेषु क्षमावान् । यद्वा “रक्तास्यनेत्रपाणिः । त्रिताम्न” इत्यादिसामुद्रिकोक्तरीत्या रक्तान्तनेत्रः । “रामो रक्तान्तलोचनः” इति ह्युक्तिः । अत्र प्रतिपदं चकारप्रयोगः एकैक एव गुणः परत्वे पर्याप्तं लिङ्गमिति द्योतयितुम् । क्षमावानित्यत्र चकाराप्रयोगस्तु रामेण क्षान्ते सर्वैरपि क्षान्तमेव । अतोन्यत्रापि सम्भवेन निरपेक्षत्वाभावाच्चकाराप्रयोगः । क्षतजोपमाक्ष इत्यत्र तु विग्रहगुणत्वेन भिन्नाधिकरणत्वात् समुच्चयाभावः । क्षतजोपमाक्षेति सम्बुद्ध्यन्तं वा । यद्वा अप्रमेयः अनाश्रितानां दुर्ज्ञेयः । चकारादाश्रितानां सुप्रमेयः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्” इति श्रुतेः । “नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।” इत्युक्तेश्च । एवमनाश्रितानां दुरासदो दुष्प्रापः । चकारादाश्रितानां सुलभः । जितेन्द्रियः चकारादाश्रितविषये चपलः । उत्तमधार्मिकः चकाराद् दूरीकृताधर्मः । अक्षय्यकीर्तिः तदनुरूपकृत्यश्चशब्दार्थः । विचक्षणः चकारादाश्रितविषयत्यागाशक्तश्च “मित्रभावेन सम्प्राप्तं न त्यजेयम्” इत्यशक्तिर्ह्युच्यते । अत्रत्य चकारः देहलीदीपन्योयेनोभयत्रान्वेति । तेन दयादिकं समुच्चीयते ॥ 4.24.31 ॥

त्वमात्तबाणासनबाणपाणिर्महाबलः संहननोपपन्नः ।

मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ 4.24.32 ॥

त्वमिति । अनेनाप्राकृतविग्रहत्वमुच्यते । संहननेन समीचीनावयवसंस्थानेन उपपन्नः युक्तः मनुष्यदेहाभ्युदयं मानुषशरीरपरिग्रहं विहाय दिव्येन देहाभ्युदयेन देहसौभाग्येन युक्तः ॥ 4.24.32 ॥

येनैकबाणेन हतः प्रियो मे तेनेव मां त्वं जहि सायकेन ।

हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ 4.24.33 ॥

एवं रामस्य दिव्यतेजोविशेषदर्शनेन विस्मिता क्षणं विस्मृतशोका तद्वैभवं वर्णयित्वा स्वप्रकृत्यनुसारेण प्रलपति येनेत्यादिना ॥ 4.24.33 ॥

स्वर्गे ऽपि पद्मामलपत्त्रनेत्रः समेत्य सम्प्रेक्ष्य च मामपश्यन् ।

न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसो ऽभजिष्यत् ॥ 4.24.34 ॥

स्वर्गे ऽपीति । पद्मामलपत्रनेत्रो वाली स्वर्गे ऽपि अप्सरोभिः समेत्य ताः सम्प्रेक्ष्य च मामपश्यन् उच्चावचताम्रचूडाः विविधताम्रकुसुमैः कृतशेखराः विचित्रवेषाप्सरसः नाभजिष्यत् न भजिष्यति । लृडर्थे लृङ् ॥ 4.24.34 ॥

स्वर्गे ऽपि शेकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली ।

रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथात्वम् ॥ 4.24.35 ॥

नगेन्द्रस्य ऋश्यमूकस्य ॥ 4.24.35 ॥

त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः ।

तत्त्वं प्रजानन् जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ 4.24.36 ॥

त्वं वेत्थेति । कुमारः युवा तत् वनिताविरहदुःखं प्रजानन् त्वं मां जहि । वाली ममादर्शनजं दुःखं न भजेत ॥ 4.24.36 ॥

यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् ।

आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र ।

शास्त्रप्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥ 4.24.37 ॥

यच्चापीत्यादिसार्धश्लोकः । मह्यं स्त्रीघातदोषो न भवेदिति भवान् यन्मन्येत तन्न युक्तम् । इयं तारा अस्य वालिनः आत्मा इति मत्वा मां जहि, तेन ते स्त्रीवधः स्त्रीवधदोषो न स्यात् । आत्मेत्येतदुपपादयति शास्त्रेति । “अर्धो वा एष आत्मनो यत्पन्ती आत्मा हि दाराः” इत्यादिरूपात् विविधात् वेदाद्वेदरूपात् शास्त्रप्रयोगादित्यन्वयः । यद्वा वेदात् शास्त्रप्रयोगात् धर्मशास्त्रप्रयोगाच्चेति वा ऽर्थः ॥ 4.24.37 ॥

दारप्रदानान्न हि दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके ॥ 4.24.38 ॥

सुकृतमप्यस्तीत्याह दारेति ॥ 4.24.38 ॥

त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर ।

अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीर घातात् ॥ 4.24.39 ॥

न केवलं पापनिवृत्तिसुकृते, प्रायश्चित्तं चेदमित्याह त्वं चापीति । वीरघातादित्येतत्सुग्रीवदुःखदुःखितरामहृदयानुसारेणोक्तम् । त्वमुत्तमधार्मिकश्चेति पूर्वमुक्तत्वात् ॥ 4.24.39 ॥

आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् ।

अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेणधीमता ।

विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥ 4.24.40 ॥

इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ 4.24.41 ॥

आर्तामिति । अपनीयमानां वालिना वञ्चिताम् ॥ 4.24.40,41 ॥

मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा ।

तं चैव सर्वं सुखदुःखयोगं लोको ऽब्रवीत्तेन कृतं विधात्रा ॥ 4.24.42 ॥

हितवचनमेवाह मा वीरेति । विमतिं जीवितुं न शक्ष्यामीत्यादिविरुद्धमतिम् । सर्वो लोकः विधात्रा ब्रह्मणा विहितो निर्मितः । हिः प्रसिद्धौ । तं सुखदुःखयोगं च विधात्रा कृतमिति लोकः पण्डितः पामरश्चाब्रवीत् ॥ 4.24.42 ॥

त्रयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य ।

प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् ।

धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति ॥ 4.24.43 ॥

वस्तुस्थितिश्च तथेत्याह त्रय इति । लोकाः लोकस्थजनाः विहतं विधानं ब्रह्मकल्पितं प्रकारं नातिक्रमन्ते हि यस्मात्तस्य वशगाः । प्रीतिमिति । तां वालिसम्भोगसदृशभोगामिति द्योतयति ॥ 4.24.43 ॥

आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन ।

सा वीरपन्ती ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥ 4.24.44 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥ 24 ॥

प्रभावयुक्तेन अङ्गदयौवराज्यप्रदानसमर्थेन परन्तपेन तद्विरोधिनिरसनसमर्थेन आश्वसिता अत एव ध्वनता शब्दायमानेन मुखेनोपलक्षिता । सुवेषरूपेत्यनेन समाश्वासनकृतान्तरहर्षवत्त्वं सूचितम्, स्वलङ्कारयुक्तशरीरेत्यर्थः ॥ 4.24.44 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्विशः सर्गः ॥ 24 ॥