श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ 4.23.1 ॥
अथ मरणानन्तरं ताराविलापस्त्रयोविंशे ततः समुपजिघ्रन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकाच्च्युतम् । स्वर्गगमित्यर्थः ॥ 4.23.1 ॥
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ।
उपलोपचिते वीर सुदुःखे वसुधातले ॥ 4.23.2 ॥
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।
शेषे हि तां पिरिष्वज्य मां च न प्रतिभाषसे ॥ 4.23.3 ॥
शेष इति । दुःखमित्येतत् क्रियाविशेषणम् । सुदुःखे सुतरां दुःखकरे ॥ 4.23.2,3 ॥
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ 4.23.4 ॥
सुग्रीवस्येति । त्वं सुग्रीवस्य त्वत्तो (तव) बहुशः कान्दिशीकस्य वशं प्राप्तः । सुग्रीव एव विक्रन्त इत्येष विधिः दैवव्यापारः अहो आश्चर्यकरो भवति ॥ 4.23.4 ॥
ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते ।
एषां विलपितं कृच्छ्रमङ्गदस्य च शेचतः ।
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥ 4.23.5 ॥
ऋक्षवानरेति । कृच्छ्रं दुःखम् ॥ 4.23.5 ॥
इदं तद्वीरशयनं यत्र शेषे हतो युधि ।
शायिता निहता यत्र त्वयैव रिपवः पुरा ॥ 4.23.6 ॥
इदमिति । युधि हतो यत्र शेषे पुरा त्वया निहता रिपवो यत्र शायिताः तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तव युद्धेनैव मरणं प्राप्तं खल्विति भावः ॥ 4.23.6 ॥
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ।
मामनाथां विहायैकां गतस्त्वमसि मानद ॥ 4.23.7 ॥
विशुद्धसत्त्वाभिजनेति । कूटयुद्धाभावाद्विशुद्धबल । सत्कुलप्रसूतत्वाद्विशुद्धकुल (कूटयुद्धाभावाद्विशुद्धबलसत्कुलप्रसूतत्वादभिजनशुद्धकुल) ॥ 4.23.7 ॥
शूराय न प्रदातव्या कन्या खलु विपश्चिता ।
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ॥ 4.23.8 ॥
शूरायेति । अप्रदातव्यत्वे हेतुमाह शूरभार्यामिति ॥ 4.23.8 ॥
अवभग्नश्च मे मानो भग्ना मे साश्वती गतिः ।
अगाधे च निमग्ना ऽस्मि विपुले शोकसागरे ॥ 4.23.9 ॥
अवभग्नश्चेति । गतिः पतिशुश्रूषेत्यर्थः । यद्वा गम्यत इति गतिः, सुखमित्यर्थः ॥ 4.23.9 ॥
अश्मसारमयं नूनमिदं मे हृदयं दृढम् ।
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ॥ 4.23.10 ॥
अश्मसारेति । अश्मसारमयत्वे हेतुः दृढमिति ॥ 4.23.10 ॥
सुहृच्चै व हि भर्ता च प्रकृत्या मम च प्रियः ।
आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ 4.23.11 ॥
पतिहीना तु या नारी कामं भवतु पुत्रिणी ।
धनधान्यैः सुपूर्णा ऽपि विधवेत्युच्यते जनैः ॥ 4.23.12 ॥
हृदयभेदने हेतुमाह सुहृदिति । पञ्चत्वं मरणम् ॥ 4.23.11,12 ॥
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ।
कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ 4.23.13 ॥
रेणुशोणितसंवीतं गात्रं तव समन्ततः ।
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ 4.23.14 ॥
कृतकृत्यो ऽद्य सुग्रीवो वैरे ऽस्मिन्नतिदारुणे ।
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ 4.23.15 ॥
स्वगात्रैरिति । कृमेः इन्द्रगोपस्य राग इव रागो यस्मिन् स कृमिरागः । परिस्तोमः आस्तरणं यस्मिन् स तथा ॥ 4.23.1315 ॥
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ।
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥ 4.23.16 ॥
शरेणेति । वार्यामि वारिता ऽस्मीत्यर्थः ॥ 4.23.16 ॥
उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ।
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ 4.23.17 ॥
उद्बबर्हेति । उद्बबर्ह उद्धृतवान् । नीलः सुग्रीवसेनापतिः ॥ 4.23.17 ॥
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ।
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ 4.23.18 ॥
तस्येति । निष्कृष्यमाणस्य तस्य द्युतिः अस्तमस्तकसंरुद्धः अस्ताद्रिशिखरनिरुद्धः
दिनकरादुद्गच्छन् रश्मिरिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः ॥ 4.23.18 ॥
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ।
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् ॥ 4.23.19 ॥
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ।
आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ॥ 4.23.20 ॥
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ।
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥ 4.23.21 ॥
पेतुरिति । व्रणेभ्यः इति बहुवचनं पाशाधिकरणन्यायेनावयवबहुत्वात् । यद्वा शिलापादपप्रहारकृतव्रणानि । एतावत्पर्यन्तं शोणितनिर्गमशून्यतया स्थितानि इदानीं शरव्रणाच्छोणितनिर्गमकाले सर्वेभ्यो ऽपि शोणितानि सुस्रुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं सर्वात्मना प्राणो न गत इति गम्यते ॥ 4.23.1921 ॥
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।
सम्प्रसक्तस्य वैरस्य गतो ऽन्तः पापकर्मणा ॥ 4.23.22 ॥
बालसूर्योदयतनुं प्रयान्तं यमसादनम् ।
अभिवादय राजानं पितरं पुत्र मानदम् ॥ 4.23.23 ॥
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ।
भुजाभ्यां पीनवृत्ताभ्यामङ्गदो ऽहमिति ब्रुवन् ॥ 4.23.24 ॥
अवस्थामिति । पापकर्मणा पापरूपकर्मणा सम्प्रसक्तस्येति सम्बन्धः ॥ 4.23.2224 ॥
अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ।
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ 4.23.25 ॥
अहं पुत्रसहाया त्वामुपासे गतचेतसम् ।
सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ॥ 4.23.26 ॥
अभिवादयमानमिति । त्वामभिवादयमानमित्यन्वयः ॥ 4.23.25,26 ॥
इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि ।
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ 4.23.27 ॥
या दत्ता देवराजेन तव तुष्टेन संयुगे ।
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ 4.23.28 ॥
इष्ट्वेति । रामप्रहरणाम्भस्येवावभृथ इति व्यस्तरूपकम् ॥ 4.23.27,28 ॥
राजश्रीर्न जहाति त्वां गतासुमपि मानद ।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ 4.23.29 ॥
राजश्रीरिति । शैलराजं मेरुम् आवर्तमानस्य अस्तं गच्छत इत्यर्थः ॥ 4.23.29 ॥
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव ।
हता सपुत्रा ऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ 4.23.30 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ 23 ॥
न म इति । पथ्यं हितं वचः । न कृतं नानुष्ठितम् ॥ 4.23.30 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ 23 ॥