०२० ताराविलापः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः

रामचापविसृषटेन शरेणान्तकरेण तम् ।

दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ।

सा समासाद्य भर्तारं पर्यष्वजत भामिनी ॥ 4.20.1 ॥

अथ ताराप्रलापो विंशे रामेत्यादिसार्धश्लोकः । सा तारा तं दृष्ट्वा पर्यष्वजत ॥ 4.20.1 ॥

इषुणा ऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ।

वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा ।

तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ 4.20.2 ॥

इषुणेत्यादिसार्धः ॥ 4.20.2 ॥

रणे दारुणविक्रन्त प्रवीर प्लवतां वर ।

किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ 4.20.3 ॥

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।

नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ 4.20.4 ॥

अतीव खलु ते कान्ता वसुधा वसुधाधिप ।

गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ 4.20.5 ॥

रण इति ॥ अपुरोभागां दोषदर्शनरहिताम्, अनपराधामिति यावत् ॥ 4.20.35 ॥

व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तिता ।

किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ 4.20.6 ॥

व्यक्तिमिति । हे वीर अत्र निर्मिता किष्किन्धेवान्या पुरी स्वर्गमार्गे त्वया धर्मतः प्रवर्तिता ।

अतः खल्विमां त्यक्त्वा गन्तुमुद्यतो ऽसीति भावः ॥ 4.20.6 ॥

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ।

विहृतानि त्वया काले तेषामुपरमः कृतः ॥ 4.20.7 ॥

यानीति । अस्माभिरिति इतरस्त्र्यपेक्षया बहुवचनम् । अस्माभिः सह त्वया यानि विहृतानि विहाराः कृतानीत्यध्याहारः । तेषां त्वया उपरमः विरामः कृतः ॥ 4.20.7 ॥

निरानन्दा निराशा ऽहं निमग्ना शोकसागरे ।

त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ 4.20.8 ॥

निरानन्देति । अद्य निरानन्दा निराशा कालान्तरे आनन्दो भविष्यतीत्याशारहिता ऽहं शोकसागरे निमग्ना, अस्मीति शेषः । पञ्चत्वं मरणम् ॥ 4.20.8 ॥

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् ।

यन्न शोकाभिसन्तप्तं स्फुटते ऽद्य सहस्रधा ॥ 4.20.9 ॥

हृदयमिति । मह्यं मम ॥ 4.20.9 ॥

सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।

यत्तु तस्य त्वया व्युष्टिः प्राप्येयं प्लवगाधिप ॥ 4.20.10 ॥

सुग्रीवस्येति । व्युष्टिः फलम् । “व्युष्टिः फले समृद्धौ च” इत्यमरः । विवासित इति यत्तस्य व्युष्टिरित्यन्वयः ॥ 4.20.10 ॥

निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।

यैषा ऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ 4.20.11 ॥

निःश्रेयसेति । निःश्रेयस्कामा ॥ 4.20.11 ॥

रूपयौवनदृप्तानां दक्षिणानां च मानद ।

नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ 4.20.12 ॥

रूपेति । दक्षिणानाम् अनङ्गतन्त्रे कुशलानां प्रमथिष्यसि वशीकरिष्यसीति भावः । वीरस्य स्वर्गसिद्धेरिति भावः ॥ 4.20.12 ॥

कालो निःसंशयो नूनं जीवितान्तकरस्तव ।

बलाद्येनावपन्नो ऽसि सुग्रीवस्यावशो वशम् ॥ 4.20.13 ॥

काल इति । वशम् अवपन्नः प्राप्तः ॥ 4.20.13 ॥

वैधव्यं शोकसन्तापं कृपणं कृपणा सती ।

अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ 4.20.14 ॥

वैधव्यमिति । अहं पूर्वम् अधुःखोपचिता अकृपणा च सती सम्प्रति कृपणा भूत्वा वैधव्यं शोककृतसन्तापं च वर्तयिष्यामि धारयिष्यामि ॥ 4.20.14 ॥

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः ।

वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते ॥ 4.20.15 ॥

लालित इति । मे मया लालितः अङ्गदः पितृव्ये पितृभ्रातरि क्रोधमूर्च्छते सति । कामवस्थां वत्स्यते वर्तयिष्यति । नश्यत्येवेति भावः ॥ 4.20.15 ॥

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।

दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ 4.20.16 ॥

समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च ।

मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ 4.20.17 ॥

कुरुष्वेति । अनेन तदानीमङ्गदः समागत इति द्योत्यते ॥ 4.20.16,17 ॥

रामेण हि महत्कर्मकृतं त्वामभिनिघ्नता ।

आनृण्यं च गतं तस्य सुग्रवस्य प्रतिश्रवे ॥ 4.20.18 ॥

रामेणेति । महत् अन्यैरशक्यं कर्म कृतम् आनृण्यं च गतं प्राप्तम् । प्रितश्रवे प्रतिज्ञाविषये ॥ 4.20.18 ॥

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ।

भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ 4.20.19 ॥

सुग्रीवं प्रत्याह सकाम इति । शस्तः हिंसितः ॥ 4.20.19 ॥

किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे ।

इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ 4.20.20 ॥

वालिनं प्रत्याह किमिति ॥ 4.20.20 ॥

तस्या विपलितं श्रुत्वा वानर्यः सर्वतश्च ताः ।

परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ॥ 4.20.21 ॥

तस्या इति । विलपितं विलापम् ॥ 4.20.21 ॥

किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम् ।

न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ॥ 4.20.22 ॥

किमप्रयिं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते ।

सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ 4.20.23 ॥

किमङ्गदमिति । साङ्गदौ वीरौ वीर्यवन्तौ बाहू यस्य स तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नाम्, गुणैस्तव सदृशमित्यर्थः । हे प्रियपुत्रेति सम्बुद्धिः । प्रियः पुत्रो यस्य सः प्रियपुत्र इति । इयं स्त्रीजनप्रलापपरिपाटी ॥ 4.20.22,23 ॥

यद्यप्रियं किञ्चिदसम्प्रधार्यं कृतं मया स्यात्तव दीर्घबाहो ।

क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥ 4.20.24 ॥

यदीति । असम्प्रधार्य अविज्ञाय ॥ 4.20.24 ॥

तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः ।

व्यवस्यत प्रायमुपोपवेष्टुमनिन्द्यवर्णा भुवि यत्र वाली ॥ 4.20.25 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः ॥ 20 ॥

तथा त्विति । प्रायमुपोपवेष्टुं प्रायोपवेशं कर्तुमित्यर्थः । “प्रसमुपोदः पादपूरेणे” इति द्विर्वचनम् । अत्र सर्गे श्लोकव्यात्यासो लेखककृतः । अस्मिन् सर्गे षड्विंशतिश्लोकाः ॥ 4.20.25 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विंशः सर्गः ॥ 20 ॥