०१३ सप्तजनाश्रमवर्णनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः

ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।

जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ 4.13.1 ॥

समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।

शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ॥ 4.13.2 ॥

अथ पुनः किष्किन्धाप्रवेशस्त्रयोदशे ऋश्यमूकादित्यादि ॥ 4.13.1,2 ॥

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।

सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ 4.13.3 ॥

पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः ।

तारश्चैव महातेजा हरियूथपयूथपः ॥ 4.13.4 ॥

अग्रत इति । संहतग्रीवः निबिडकण्ठ इत्यर्थः । इदं स्वरूपकीर्तनम्, गजपुष्पीबन्धनेन वा ॥ 4.13.3,4 ॥

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ।

प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ॥ 4.13.5 ॥

अथ कार्यसिद्धिसूचकपदार्थानुभवविशेषं दर्शयति ते वीक्षमाणा इत्यादिना ॥ 4.13.5 ॥

कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा ।

शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ 4.13.6 ॥

कन्दराणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशेलरन्ध्रविशेषान् । गुहाः देवखातबिलानि । दरीः गुहाविशेषान् ॥ 4.13.6 ॥

वैडूर्यविमलैः पर्णैः पद्मैश्चाकोशकुङ्मलैः ।

शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन् ॥ 4.13.7 ॥

आकोशकुड्मलैः ईषद्विकसितमुकुलैः ॥ 4.13.7 ॥

कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः ।

चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ॥ 4.13.8 ॥

कारण्डैः “कारण्डको महापक्षी” इति वैजयन्ती । सारसैः सरोनिवासैः शकुनैरुपनादितान् तटाकान् व्यलोकयन्निति पूर्वेणान्वयः ॥ 4.13.8 ॥

मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् ।

चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् ॥ 4.13.9 ॥

मृदुशष्पेति । चरतः स्थितांश्चापश्यन् ॥ 4.13.9 ॥

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।

घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ॥ 4.13.10 ॥

तटाकवैरिण इत्यादि । तटाकवैरिणः कलुषीकरणात् । एकचरान् एकाकिनः द्विरदाः द्विदन्ता इति चतुर्दन्तव्यावृत्तिः ॥ 4.13.10 ॥

मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् ।

वारणान् वारिदप्रख्यान् महीरेणुसमुक्षितान् ॥ 4.13.11 ॥

वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान् ।

पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ 4.13.12 ॥

गिरितटोत्कृष्टान् उल्लिखितगिरितटान् ॥ 4.13.11,12 ॥

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।

द्रुमषण्ड वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ 4.13.13 ॥

तेषां त्विति । द्रुमषण्डं वृक्षषण्डमयमिति लतागुल्मव्यावृत्तिः ॥ 4.13.13 ॥

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।

मेघसङ्घातविपुलः पर्यन्तकदलीवृतः ॥ 4.13.14 ॥

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे ।

कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ 4.13.15 ॥

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।

गच्छन्नेवाचचक्षे ऽथ सुग्रीवस्तन्महद्वनम् ॥ 4.13.16 ॥

एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ।

उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ 4.13.17 ॥

अत्र सप्तजना नाम मुनयः संशितव्रताः ।

सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ 4.13.18 ॥

एष इति । मेघ इवेति नीलवर्णे उपमा ॥ 4.13.1418 ॥

सप्तरात्रकृताहारा वायुना वनवासिनाः ।

दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ 4.13.19 ॥

सप्तरात्रेति । सप्तरात्रकृताहाराः वायुना सप्तरात्रस्य एकवारं कृताहाराः । सप्तभिर्वर्षशतैरित्यन्वयः ॥ 4.13.19 ॥

तेषामेवंप्रभावानां द्रुमप्राकारसंवृतम् ।

आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥ 4.13.20 ॥

पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ।

विशन्ति मोहाद्ये तत्र निवर्तन्ते न ते पुनः ॥ 4.13.21 ॥

तेषामित्यादि । विशन्तीति । ये मोहादत्राश्रमे विशन्ति न ते निवर्तन्ते किन्तु तत्रैव नश्यन्तीत्यर्थः ॥ 4.13.20,21 ॥

विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः ।

तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ॥ 4.13.22 ॥

दिवं गताः शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्तीत्याशयेनाह विभूषणेत्यादिना । भूषणरवेण नृत्तमुपलक्ष्यते । सकलाक्षरा इति गीतस्वनविशेषणम् । तूर्यशब्दो ऽत्र गीतभिन्नवाद्यपरः ॥ 4.13.22 ॥

त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्यत्र प्रकाशते ।

वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥ 4.13.23 ॥

एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ।

मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ 4.13.24 ॥

त्रेतेति । त्रेताग्निदीपने लिङ्गमाह धूमो हीति । घनः निबिडः ॥ 4.13.23,24 ॥

कुरु प्रणामं धर्मात्मन् तान् समुद्दिश्य राघव ।

लक्ष्णणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ 4.13.25 ॥

कुर्विति । समुद्दिश्य किञ्चित्फलमुद्दिश्य तेषां प्रणामं कुरु ॥ 4.13.25 ॥

प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् ।

न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ॥ 4.13.26 ॥

प्रणमन्तीति । शरीरे अशुभं व्याध्यादिकम् ॥ 4.13.26 ॥

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ।

समुद्दिस्य महात्मानस्तानृषीनभ्यवादयत् ॥ 4.13.27 ॥

महात्मानः महात्मनः ॥ 4.13.27 ॥

अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः ।

सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ 4.13.28 ॥

ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् ।

ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ 4.13.29 ॥

अभिवाद्येत्यनेन सर्वेषामभिवादनमनूद्यते । अत्राभिवादनं नमस्कारः, तेषां परोक्षत्वात् । अनेन सज्जनप्रणामो विजयावह इत्ययमर्थः सूचितः । तदिदं द्योत्यते उपरितनश्लोके उदिताग्र्यतेजस इति । प्रणामेनिति भावः ॥ 4.13.28,29 ॥

ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः ।

पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ॥ 4.13.30 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ 13 ॥

सह युगपत् ॥ 4.13.30 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोदशः सर्गः ॥ 13 ॥