००९ सुग्रीवेण वैरकारणकथनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।

पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ 4.9.1 ॥

अथ वाल्यपराधवृत्तान्तो नवमे वाली नामेत्यादिषड्विंशतिः श्लोकाः ॥ 4.9.1 ॥

पितर्युपरते ऽस्माकं ज्येष्ठो ऽयमिति मन्त्रिभिः ।

कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥ 4.9.2 ॥

पितरीति । अयं ज्येष्ठः । अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः ॥ 4.9.2 ॥

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।

अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ॥ 4.9.3 ॥

पितृपैतामहं स्वपितुः ऋक्षरजसः पित्रा ब्रह्मणा तस्मै दत्तत्वात् ॥ 4.9.3 ॥

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।

तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ॥ 4.9.4 ॥

दुन्दुभेः पूर्वजः अग्रजः । सुतः मयस्येति शेषः । वक्ष्यत्युत्तरकाण्डे मयः “मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।” इति । तेन मायाविना तस्य वालिनः स्त्रीकृतं स्त्रीनिमित्तं महद्वैरमस्तीति पुरा विश्रुतम् ॥ 4.9.4 ॥

स तु सुप्तजने रात्रै किष्किन्धाद्वारमागतः ।

नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ 4.9.5 ॥

सुप्तजने सुप्तः जनो यस्मिन् रात्र्यंशे स सुप्तजनः, अर्धरात्र इत्यर्थः ॥ 4.9.5 ॥

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।

श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ 4.9.6 ॥

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।

वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ 4.9.7 ॥

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ।

ततो ऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ 4.9.8 ॥

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थिम् ।

असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम् ॥ 4.9.9 ॥

भैरवस्वनं भैरवस्वनरूपं नर्दितं गर्जितम् ॥ 4.9.69 ॥

तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ ।

प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ 4.9.10 ॥

तस्मिन्निति । उद्गच्छता उदयमानेन ॥ 4.9.10 ॥

स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।

प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ 4.9.11 ॥

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशंगतः ।

मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ 4.9.12 ॥

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।

यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥ 4.9.13 ॥

आसाद्य बिलद्वारमिति शेषः ॥ 4.9.1113 ॥

मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः ।

शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत् ॥ 4.9.14 ॥

याचितः सह प्रवेशनमिति शेषः । पद्भ्यां स्वपदाभ्याम् । “श्लाघह्नुस्थाशपां ज्ञीप्स्यमानः ।” इति चतुर्थी ॥ 4.9.14 ॥

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।

स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ॥ 4.9.15 ॥

तस्य प्रविष्टस्य तस्मिन् प्रविष्टे साग्रः सम्पूर्णः स कालः संवत्सरः । ममापि संवत्सरो गत इत्यर्थः ॥ 4.9.15 ॥

अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।

भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः ॥ 4.9.16 ॥

अहं तं नष्टं ज्ञात्वा साग्रसंवत्सरमदृष्टं बुद्ध्वा स्नेहादागतसम्भ्रमो ऽभवम् । भ्रातरं च न पश्यामि नापश्यम् । ततः मे मनः पापाशङ्कि तन्मरणाशङ्कि जातम् ॥ 4.9.16 ॥

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् ।

सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ 4.9.17 ॥

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।

निरस्तस्य च सङ्ग्रामे क्रोशतो निस्वनो गुरोः ॥ 4.9.18 ॥

रक्तं रक्तवर्णम् ॥ 4.9.17,18 ॥

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।

पिधाय च बिलद्वारं शिलया गिरिमात्रया ।

शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥ 4.9.19 ॥

चिह्नैः मरणकालिकस्वरैः ॥ 4.9.19 ॥

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।

ततो ऽहं तैः समागम्य सम्मतैरभिषेचितः ॥ 4.9.20 ॥

राज्यं प्रशासतस्तस्य न्यायतो मम राघव ।

आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ॥ 4.9.21 ॥

अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः ।

मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ 4.9.22 ॥

तत्त्वं यथार्थं वालिमरणं गूहमानस्य प्रच्छादयतः मे मत्तः यत्नतः बहुयत्नेन स्वविषयशापादिना श्रुतमासीत् ॥ 4.9.2022 ॥

निग्रहे ऽपि समर्थस्य तं पापं प्रति राघव ।

न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता ॥ 4.9.23 ॥

पापम् अज्ञानकृतमिति सान्त्वनेपि धिक्करणात् पापिष्ठं तं प्रति निग्रहे समर्थस्य, प्रकृतिबलसम्पन्नत्वादिति भावः । यन्त्रिता नियमिता ॥ 4.9.23 ॥

हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ।

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ॥ 4.9.24 ॥

उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्माना ॥ 4.9.25 ॥

प्रविवेश पुरमित्युक्त्या मन्त्रिबन्धनादिकं पुराद्वहिरिति ज्ञेयम् ॥ 4.9.24,25 ॥

नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ।

अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ 4.9.26 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः ॥ 9 ॥

नत्वेति । मम क्रोधान्मयि कोपात् ॥ 4.9.26 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने नवमः सर्गः ॥ 9 ॥