००६ रामेण सीता-आभरणदर्शनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः

पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ॥ 4.6.1 ॥

एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ॥ 4.6.1 ॥

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ।

हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ॥ 4.6.2 ॥

अयमिति । त्वं यन्निमित्तं वनमागतः तदाख्याति स्म ॥ 4.6.2 ॥

लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।

रक्षसा ऽपहृता भार्या मैथिली जनकात्मजा ॥ 4.6.3 ॥

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ।

अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥ 4.6.4 ॥

लक्ष्मणेनेत्यादिश्लोकद्वयम् । तेन पूर्वमविज्ञातेन ॥ 4.6.3,4 ॥

भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे ।

अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥ 4.6.5 ॥

विमोक्ष्यसे त्यक्ष्यसि । नष्टां मधुकैटभापहृतां वेदश्रुतीं श्रूयत इति श्रुतिः शब्दः, वेदरूपश्रुतीमिव वेदगिरमिव । दीर्घः आर्षः ॥ 4.6.5 ॥

रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ।

अहमानीय दास्यामि तव भार्यामरिन्दम ॥ 4.6.6 ॥

वर्तन्तीं वर्तमानाम् ॥ 4.6.6 ॥

इदं तथ्यं मम वचस्त्वमवेहि च राघव ।

न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ॥ 4.6.7 ॥

तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ 4.6.8 ॥

जरयितुम् आत्मसात्कर्तुम् । विषकृतं विषेण पक्वम् ॥ 4.6.7,8 ॥

त्यज शोकं महाबाहो तां कान्तमानयामि ते ।

अनुमानात्तु जानामि मैथिली सा न संशयः ॥ 4.6.9 ॥

ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।

क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।

स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ 4.6.10 ॥

अनुमानात् योग्यतया या दृष्टा सा मैथीली न संशयः । अनुमानात्तु जानामीत्यस्यैव विवरणमिदम् ॥ 4.6.910 ॥

आत्मना प़ञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।

उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ 4.6.11 ॥

आत्मनेति । आत्मना मया पञ्चमम् ॥ 4.6.11 ॥

तान्यस्माभिर्गृहीतानि निहितानि च राघव ।

आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ 4.6.12 ॥

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ।

आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥ 4.6.13 ॥

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।

प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ 4.6.14 ॥

प्रत्यभिज्ञातुं स्मर्तुम् ॥ 4.6.1214 ॥

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।

इदं पश्येति रामाय दर्शयामास वानरः ॥ 4.6.15 ॥

ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ।

अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ 4.6.16 ॥

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।

हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ 4.6.17 ॥

उत्तरीयमाभरणानि च उत्तरीयबद्धानीत्यर्थः ॥ 4.6.1517 ॥

हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् ।

निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ 4.6.18 ॥

अलङ्कारमिति जात्येकवचनम् । रोषितः सञ्जतरोषः ॥ 4.6.18 ॥

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ।

परिदेवयितुं दीनं रामः समुपचक्रमे ॥ 4.6.19 ॥

परिदेवयितुं प्रलपितुम् । दीनमिति क्रियाविशेषणम् ॥ 4.6.19 ॥

पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ।

उत्तरीयमिदं भूमै शरीराद्भूषणानि च ॥ 4.6.20 ॥

पश्येति । शरीरात् अपनीयेति शेषः ॥ 4.6.20 ॥

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ।

उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ 4.6.21 ॥

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।

नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ 4.6.22 ॥

ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ॥ 4.6.23 ॥

अत्र शाद्वलशब्देन हरिततृणान्युच्यन्ते । स्वार्थे वलजार्षः । तद्वात्यां भूमौ मृदुस्थले उत्सृष्टत्वात् तथारूपम् अविकलरूपं दृश्यते ॥ 4.6.2123 ॥

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।

रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ 4.6.24 ॥

कं देशं कां दिशं प्रति ह्रियन्ती ह्रियमाणेत्यर्थः । प्राणैः प्राणेभ्यः ॥ 4.6.24 ॥

क्व वा वसति तद्रक्षो महद्व्यसनदं मम ।

यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ॥ 4.6.25 ॥

हरता मैथिलीं येन मां च रोषयता भृशम् ।

आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ 4.6.26 ॥

अपावृतम् उद्घाटितं येन तत्क्क वसतीत्यन्वयः ॥ 4.6.25,26 ॥

मम दयिततरा हृता वनान्ताद्रजनिचरेण विमथ्य येन सा ।

कथम मम रिपुं त्वमद्य वै प्लवगपते यमसादनं नयामि ॥ 4.6.27 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः ॥ 6 ॥

ममेति । विषमवृत्तम् ॥ 4.6.27 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्ठः सर्गः ॥ 6 ॥