श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ 4.4.1 ॥
अथाचार्यमुखेन चेतनालाभश्चतुर्थे तत इत्यादि । मधुरसम्भाषं मधुरभाषणं तद्वचः श्रुत्वा
कृत्यवान् कार्यवान् रामः इति हेतोः प्रहृष्टः सन् सुग्रीवं मनसा गतः । “तमेव चावां मार्गाव” इति वचनभावतया रामस्य कृत्यवत्त्वज्ञानम् ॥ 4.4.1 ॥
भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ 4.4.2 ॥
मनसा गत इत्येतद्दर्शयति भव्य इति । यद्यस्मादयं कृत्यवान् प्राप्तः तस्मात् महात्मनः महाभाग्यस्य तस्य सुग्रीवस्य राज्यागमः भव्यः भावी । एतत् कृत्यं राज्यागमनरूपकार्यम् उपागतं समीपे आगतं, निष्पन्नप्रायमित्यर्थः ॥ 4.4.2 ॥
ततः परमसंहृष्टो हमुमान् प्लवगर्षभः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ 4.4.3 ॥
अस्मिन् श्लोके प्लवगर्षभ इत्यत्र गकारो गायत्र्याः दशमाक्षरम् । नवसहस्रश्लोका गताः ॥ 4.4.3 ॥
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
आगतः सानुजौ दुर्गं नानाव्यालमृगायुतम् ॥ 4.4.4 ॥
किमर्थमिति । पम्पाकाननेन पम्पोपवनेन मण्डितं वनं दण्डकारण्यम् । दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः ॥ 4.4.4 ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ 4.4.5 ॥
राजा दशरथो नाम द्युतिमान् दर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ 4.4.6 ॥
तस्येति । महात्मत्वेन दशरथात्मजत्वेन चाचचक्ष इत्यर्थः ॥ 4.4.5,6 ॥
न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन ।
स च सर्वेषु भूतेषु पितामह इवापरः ।
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ॥ 4.4.7 ॥
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ।
शरण्यः सर्वभूतानां पितुर्निर्देषपारगः ॥ 4.4.8 ॥
न द्वेष्टेति । सर्वेषु भूतेषु मध्ये पितामह इव श्रेष्ठ इत्यर्थः ॥ 4.4.7,8 ॥
वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ।
राजलक्षणसम्पन्नः संयुक्तो राजसम्पदा ॥ 4.4.9 ॥
पुत्राणां पुत्राणां मध्ये ॥ 4.4.9 ॥
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ।
भार्यया च महातेजाः सीतया ऽनुगतो वशी ॥ 4.4.10 ॥
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ 4.4.11 ॥
राज्यादित्यादि । भार्यायेति । ऐश्वर्यभ्रंशदशायामप्यनुवर्तनद्योतनाय दिनक्षय इत्युक्तम् ॥ 4.4.10,11 ॥
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ 4.4.12 ॥
अहमिति । भवानस्य क इत्याकाङ्क्षायामाह अस्यावरो भ्राता एतदभिप्रायेण भ्रातास्मि । अहं तु गुणैर्दास्यमुपागतः गुणवशीकृतहृदयः सन् तस्य दासो ऽस्मि । यद्यपि परवानस्मीत्यादौ स्वरूपप्रयुक्तदास्यमुक्तं तथापि योग्यताप्रकर्षात् गुणोत्तम्भितं तद्दास्यमिति तदविरोधो द्रष्टव्यः । उपेत्यनेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकैङ्कर्यं प्राप्त इत्युच्यते । इदमपि कैङ्कर्यं तन्मुखोल्लासार्थम्, न तु मदर्थमित्याह कृतज्ञस्य बहुज्ञस्येति । अल्पमिति कृतं बहुतया जानत इत्यर्थः । इदमपि कैङ्कर्यं सहजमित्याशयेनाह नाम्ना लक्ष्मणो नामेति । स्वनामतः कैङ्कर्यलक्ष्मीसम्पन्न इति प्रसिद्धः ॥ 4.4.12 ॥
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ 4.4.13 ॥
सुखेत्यादिश्लोकद्वयमेकान्वयम् । यद्वा प्रथमश्लोकस्य पूर्वेणान्वयः । सहजत्वमुपपादयति सुखेति । महार्हस्य ऐश्वर्यसम्पन्नस्य वनवासश्रितस्य दुःकितस्येत्यर्थः । तथा च समृद्धिदशायामसमृद्धिदशायां च दास्योक्त्या सहजत्वमुपपादितम् । सहजमेव कैङ्कर्यम् । गुणास्तु तद्वर्धका इति भावः ॥ 4.4.13 ॥
रक्षसा ऽपहृता भार्या रहिते कामरूपिणा ।
तञ्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ 4.4.14 ॥
रक्षसेति । रहिते आवाभ्यां रहितदेशे ॥ 4.4.14 ॥
दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवः समर्थो वानमर्षभः ॥ 4.4.15 ॥
दनुरिति । दनुः दनुवंशजः दितेः पुत्रः पुत्रप्रायः तेन सुग्रीवः समर्थ इत्याख्यातः ॥ 4.4.15 ॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ॥ 4.4.16 ॥
स इति । स्पष्टम् ॥ 4.4.16 ॥
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ 4.4.17 ॥
एतदिति । ते तुभ्यं याथातथ्येनाख्यातम् ॥ 4.4.17 ॥
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ 4.4.18 ॥
अहमित्यर्धम् ॥ 4.4.18 ॥
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ 4.4.19 ॥
परत्वसौशील्ये दर्शयति एष इति । त्रैलोक्यनाथत्वमेव सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विना सौशील्यस्यागुणत्वात् । इच्छति लप्स्यते न वा स्वयमभिलषति । अपर्यनुर्योज्या हि स्वतन्त्रा इति भावः । चकारेण लब्धा चेत्युच्यते । अनुत्तमं परत्वापेक्षया ऽवतारप्रयुक्तातिशयवत् । लोकनाथः सर्वलोकैर्याच्यमानः सर्वस्वामी च । “नाधृ नाथृ याच्ञोपतापैश्वर्याशीष्षु” धातुः ॥ 4.4.19 ॥
पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ 4.4.20 ॥
तदेव सौशील्यं प्रकारान्तरेणाह पितेति । शरण्यः प्राप्यः । शरणं रक्षकम् ॥ 4.4.20 ॥
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।
गुरुर्मे राघवः सो ऽयं सुग्रीवं शरणं गतः ॥ 4.4.21 ॥
शरण्य इत्युक्तं विशेषयति सर्वलोकस्येति । गुरुः अग्रजः ॥ 4.4.21 ॥
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेन्दस्य प्रसादमभिकाङ्क्षते ॥ 4.4.22 ॥
यस्य प्रसाद इति । इमाः प्रजाः सततं प्रसीदेयुः तत्प्रसादलब्धसकलपुरुषार्थतया सर्वदा प्रसन्निचित्ता भवेयुः । वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य प्रसादमभिकाङ्क्षते स्वतन्त्रेच्छस्य नियन्तुमशक्यत्वादिति भावः ॥ 4.4.22 ॥
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥ 4.4.23 ॥
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ 4.4.24 ॥
येनेत्यादिश्लोकद्वयमेकान्वयम् । येन सततं सर्वगुणोपेताः सर्वोपचारोपेता यथा भवन्ति तथा सदा मानिताः । वानरेन्द्रं वनमात्रप्रसिद्धशाखामृगमिति सौशील्यातिशयध्वनिः ॥ 4.4.23,24 ॥
शोकाभिभूते रामे तु शोकार्तं शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः ॥ 4.4.25 ॥
शोकेनाभिभूते शोकपरतन्त्रे । शोकार्ते शोकपीडिते । कर्मपरतन्त्रं शोकाकुलं स्वजनमालोक्य स्वयं शोकाकुलस्यचार्यमुखं विनोभयशोकानुद्धारादिति भावः ॥ 4.4.25 ॥
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् ।
हनुमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 4.4.26 ॥
एवमिति । साश्रुलोचनमिति रामदुःखदर्शनाद्दुःखितत्वमुच्यते ॥ 4.4.26 ॥
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ 4.4.27 ॥
द्रष्टव्याः अन्वेषितव्याः ॥ 4.4.27 ॥
स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ 4.4.28 ॥
विनिकृतः वञ्चितः ॥ 4.4.28 ॥
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ 4.4.29 ॥
करिष्यतीति । परिमार्गणे साहाय्यं करिष्यति ततः परं भवतोरग्रे का शत्रुवार्तेति भावः ॥ 4.4.29 ॥
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे सो ऽभिगच्छेम सुग्रीवमिति राघवम् ॥ 4.4.30 ॥
इतीति । बभाषे पुनरपीति शेषः ॥ 4.4.30 ॥
एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ 4.4.31 ॥
यथान्यायं दूतानुरूपम् ॥ 4.4.31 ॥
कपिः कथयते हृष्टो यथा ऽयं मारुतात्मजः ।
कृत्यवान् सो ऽपि सम्प्राप्तः कृतकृत्यो ऽसि राघव ॥ 4.4.32 ॥
कपिरिति । अयं हृष्टः सन् यथा यथार्थं कथयते यथार्थकथने हृष्टत्वं हेतुः । सीतापरिमार्गणं करिष्यतीति यथार्थमेव । सो ऽपि सुग्रीवः कृत्यवान् प्राप्तः जातः तस्मात् कृतकृत्यो ऽसि ॥ 4.4.32 ॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनुमान् मारुतात्मजः ॥ 4.4.33 ॥
हृष्टपदसूचितं विवृणोति प्रसन्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ॥ 4.4.33 ॥
ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ 4.4.34 ॥
हरिराजाय वानरराजाय ॥ 4.4.34 ॥
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ 4.4.35 ॥
उक्तं विवृणोति भिक्ष्विति ॥ 4.4.35 ॥
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ॥ 4.4.36 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ 4 ॥
विपुलयशाः सर्वदेववरप्रसादेन विशालकीर्तिः कपिप्रवीरः सुग्रीवमपि नियन्तुं समर्थः । अनेन भगवल्लाभ आचार्याधीन इत्युक्तम् ॥ 4.4.36 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः सर्गः ॥ 4 ॥