श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।
वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् ॥ 4.2.1 ॥
अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये तौ त्वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ॥ 4.2.1 ॥
उद्विग्नहृदयः सर्वा दिशः समवलोकयन् ।
न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ॥ 4.2.2 ॥
उद्विग्नहृदयः भीतमनस्कः ॥ 4.2.2 ॥
नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ ।
कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ 4.2.3 ॥
स्थाने स्वस्थाने निश्चिलत्व इति यावत् । व्यवससाद दुःखितमभूत् ॥ 4.2.3 ॥
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ।
सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ॥ 4.2.4 ॥
धर्मे राजधर्मे आत्मा मतिर्यस्य स धर्मात्मा । अनुचरैः मन्त्रिभिः सह चिन्तयित्वा गुरुलाघवं विमृश्य स्थाने पलायने च गुरुलाघवं विमृश्य च परमोद्विग्नो ऽभवत् ॥ 4.2.4 ॥
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ 4.2.5 ॥
रामलक्ष्मणौ तत्स्वभावं शशंस ॥ 4.2.5 ॥
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।
छद्भना चीरवसनौ प्रचरन्ताविहागतौ ॥ 4.2.6 ॥
प्रणिहितौ चारौ छद्भना ऋषिवेषव्याजेन ॥ 4.2.6 ॥
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ 4.2.7 ॥
जग्मुः सुग्रीववचने हितत्वबुद्ध्येति शेषः ॥ 4.2.7 ॥
ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् ।
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥ 4.2.8 ॥
अधिगम्य नानादिक्षु पलायिताः एकत्र समागम्य ॥ 4.2.8 ॥
एकमेकायनगताः प्लवमाना गिरेर्गिरिम् ।
प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ॥ 4.2.9 ॥
पुनरपि गिरेर्गिरिं प्लवमानाः गिरीणां शिखराण्यपि प्रकम्पयन्तः एकायनगताः क्रमेणैकस्थानगताः सन्तः एकम् एकाकिनं सुग्रीवमुपतस्थिर इत्यनुषङ्गः । “एवमेकायनगता” इति पाठे एवम् उक्तरीत्या एकायनगतास्ते प्रकम्पयन्तो ऽभवन्निति योजना ॥ 4.2.9 ॥
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः ।
बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान् ॥ 4.2.10 ॥
दुर्गं गिरिः ॥ 4.2.10 ॥
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् ।
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ॥ 4.2.11 ॥
आप्लवन्तो ययुः नतु मन्दं ययुरित्यर्थः ॥ 4.2.11 ॥
ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ।
सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ 4.2.12 ॥
पर्वतेन्द्रम् ऋश्यमूकं पर्यन्तपर्वतेषु तत्र तत्र गत्वा पुनस्तमेव ऋश्यमूकं ययुरित्यर्थः ॥ 4.2.12 ॥
ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम् ।
उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः ॥ 4.2.13 ॥
वालिकिल्बिषेण वालिकपटेन शङ्कितं वालिना प्रोषिताविमाविति शङ्कितमित्यर्थः ॥ 4.2.13 ॥
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् ।
मलयो ऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ 4.2.14 ॥
वालिकृते वालिनिमित्तं सम्भ्रमस्त्यज्यताम् । मलय इति पर्वतमात्रस्य नाम अयं मलयः अयं पर्वतः गिरिवरः ऋश्यमूक इत्यर्थः ॥ 4.2.14 ॥
यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव ।
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ 4.2.15 ॥
वाली वेषान्तरधारी समागत इति भ्रमं वारयति यस्मादित्यादिना । यस्मात् वालिनः क्रूरं क्रूरकर्माणम् ॥ 4.2.15 ॥
यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः ।
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ 4.2.16 ॥
यस्मादिति । पापकर्मणः अनुजभार्यापहारिणः भयं भयहेतुम् ॥ 4.2.16 ॥
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम ।
लघुचित्ततयात्मानं न स्थापयसि यो मतौ ॥ 4.2.17 ॥
अहो इति । मतौ सम्यग्विचारे ॥ 4.2.17 ॥
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर ।
न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ 4.2.18 ॥
बुद्धिः सामान्यतो ज्ञानम्, विशेषतो ज्ञानं विज्ञानम्, इङ्गितम् अभिप्रायसूचको व्यापारः, सर्वं कार्यम् अबुद्धिम् अबुद्ध्यादिकम् ॥ 4.2.18 ॥
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।
ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ 4.2.19 ॥
ततः शुभतरं तद्वाक्यादत्यन्तशुभम् ॥ 4.2.19 ॥
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।
कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ 4.2.20 ॥
दीर्घा बाहवो ययोस्तौ दीर्घबाहू, इत्येवं सर्वत्र समासः ॥ 4.2.20 ॥
वालिप्रणिहितावेतौ शङ्के ऽहं पुरुषोत्तमौ ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ 4.2.21 ॥
वालिप्रणिहितौ नाहं वाली समागत इति बिभेमि, किन्तु तत्प्रेषिताविति मत्वेति भावः । एतादृशतदीयपुरुषस्य का प्रसक्तिस्तत्राह राजान इति । अत्र राजविषये ॥ 4.2.21 ॥
अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः ।
विश्वस्तानामविश्वस्ता रन्ध्रेषु प्रहरन्ति हि ॥ 4.2.22 ॥
छन्नचारिणो ऽरयः मनुष्येण शत्रुमता ज्ञेयाः । कुत इत्यत्राह विश्वस्तानामिति । विश्वस्तानां शत्रूणां रन्ध्रेषु प्रमादेषु सत्सु स्वयमविश्वस्ताः सन्तः प्रहरन्ति हि ॥ 4.2.22 ॥
कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ।
भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ 4.2.23 ॥
कृत्येषु कर्तव्यकार्येषु वाली मेधावी दूरदर्शी । स्वभावश्चायं राज्ञामित्याह राजान इति । राजानः बहुदर्शनाः बहूपायज्ञाः परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः नरैः ज्ञेयाः ॥ 4.2.23 ॥
तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम ।
इङ्गितानां प्रकरैश्च रूपव्याभाषणेन च ॥ 4.2.24 ॥
प्राकृतेन प्राकृतवेषेण इङ्गितानां भावसूचककायिकव्यापाराणां प्रकारैरवान्तरभेदैः, रूपेण सौम्यासौम्यलक्षणेन, व्यभाषणेन अन्योन्यसम्भाषणेन च तौ ज्ञेयौ ॥ 4.2.24 ॥
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ।
विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनःपुनः ॥ 4.2.25 ॥
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव ।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ 4.2.26 ॥
यदि प्रहृष्टमनसौ यदि शुद्धभावौ तदा प्रशंसाभिः तदनुकूलेङ्गितैश्च पुनःपुनः विश्वासयन् ममैवाभिमुखम् अनुकूलं यथा भवति तथा स्थित्वा स्थापयित्वा धनुर्धरौ धनुर्धरतया अत्र वने प्रवेशस्य प्रयोजनं पृच्छ ॥ 4.2.25,26 ॥
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम ।
व्याभाषितैर्वा विज्ञेया स्याद्दुष्टादुष्टता तयोः ॥ 4.2.27 ॥
शुद्धेति । यद्येतौ शुद्धात्मानौ तदा पुनरपि जानीहि । किं तेनेत्यत्राह व्याभाषितैरिति । वाकारश्चार्थः । अदुष्टतेति च्छेदः ॥ 4.2.27 ॥
इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः ।
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ 4.2.28 ॥
सुग्रीववचनं समीचीनममन्यतेत्याह इतीति ॥ 4.2.28 ॥
तथेति संपूज्य वचस्तु तस्य तत्कपेः सुभीमस्य दुरासदस्य च ।
महानुभावो हनुमान्ययौ तदा स यत्र रामो ऽतिबलश्च लक्ष्मणः ॥ 4.2.29 ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ 2 ॥
संपूज्य श्लाघयित्वा । सुभीमस्य दुरासदस्येत्येताभ्यां सुनीतित्वं सूचितम् । महानुभावः वेषान्तरधारणसमर्थः सः हनुमान् यत्र रामो लक्ष्मणश्च तं देशं ययावित्यन्वयः ॥ 4.2.29 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वितीयः सर्गः ॥ 2 ॥